6-4-147 ढे लोपः अकड्र्वाः असिद्धवत् अत्र आभात् भस्य तद्धिते
ओः भस्य अङ्गस्य ढे तद्धिते लोपः अकद्र्वाः
'कद्रू' शब्दं विहाय अन्येषामुवर्णान्त-भसंज्ञकानाम् ढकारादौ तद्धितप्रत्यये परे लोपः भवति ।
The last letter of an उवर्णान्त-भसंज्ञक word is removed when followed by a ढकारादि-तद्धितप्रत्यय. But this does not happen for the word 'कद्रू'.
ढे परत उवर्णान्तस्य भस्याकद्र्वा लोपो भवति। कामण्डलेयः। शैतवाहेयः। जाम्बेयः। माद्रबाहेयः। अकद्र्वा इति किम्? काद्रवे॒यो मन्त्र॑मपश्यत् (तै०सं०१.५.४.१)॥
कद्रूभिन्नस्योवर्णान्तस्य भस्य लोपः स्यात् ढे परे । कामण्डलेयः । कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे ॥
उवर्णान्तस्य भसंज्ञकस्य तद्धितप्रत्यये परे <<ओर्गुणः>> 6.4.146 इत्यनेन गुणः विधीयते । तस्य अपवादरूपेण ढकारादि-प्रत्यये परे भस्य अङ्गस्य अन्तिमवर्णस्य लोपः भवति । परन्तु 'कद्रू' शब्दस्य विषये अयं लोपः न भवति । अत्र एकः विशेषः स्मर्तव्यः - ढकारे परे अङ्गस्य भसंज्ञा नैव भवति, परन्तु ढकारस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इत्यनेन 'एय्' आदेशः यः विधीयते, तस्मिन् परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञा भवति । उदाहरणानि एतानि - 1. शीतबाहु + ढञ् [<<चतुष्पाद्भ्यो ढञ्>> 4.1.135 इति अपत्यार्थे ढञ्-प्रत्ययः । ञकारस्य इत्संज्ञा, लोपः] → शीतबाहु + एय [ढ= ढ् + अ । ढ् इत्यस्य <<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति एय्-आदेशः । एय् + अ = एय । एकारादौ प्रत्यये परे <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → शैतबाहु एय [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → शैतबाह् + एय [<<ओर्गुणः>> 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः] → शैतबाहेय 2. मद्रबाहु + ऊङ् [स्त्रीत्वं द्योतयितुम् मद्रबाहु-शब्दात् <<बाह्वन्तात् संज्ञायाम्>> 4.1.67 इत्यनेन ऊङ्-प्रत्ययः] → मद्रबाहू + ढक् [<<स्त्रीभ्यो ढक्>> 4.1.120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः] → मद्रबाहू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः । <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → माद्रबाहू + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → माद्रबाहू + एय [<<ओर्गुणः>> 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः] → माद्रबाहेय 3. मृकण्डु + ढक् [<<शुभ्रादिभ्यश्च>> 4.1.123 इति सूत्रेण शुभ्रादिगणे उपस्थितानां शब्दानां ढक् प्रत्ययः भवति । आकृतिगणोऽयम् । अतः 'मृकण्डु' शब्दस्य अस्मिन् गणे न स्थितेऽपि ढक् प्रत्ययः अनेन सूत्रेण विधीयते ।] → मृकण्डु + एय [<<आयनेयीनीयियः फढखछघां प्रत्ययादीनाम्>> 7.1.2 इति ढ् वर्णस्य एय् आदेशः । <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → मार्कण्डु + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः , <<उरण् रपरः>> 1.1.51 इति रपरः आकारः] → मार्कण्ड् + एय [<<ओर्गुणः>> 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणे प्राप्ते, अपवादत्वेन <<ढे लोपोऽकद्र्वाः>> 6.4.147 इति अङ्गस्य अन्तिमवर्णस्य लोपः] → मार्कण्डेय 'कद्रू' इति दीर्घ-ऊकारान्त-स्त्रीलिङ्ग-शब्दस्य विषये अस्य सूत्रस्य प्रसक्तिः नास्ति । यथा - कद्रू + ढक् [<<स्त्रीभ्यो ढक्>> 4.1.120 इति अपत्यार्थे ढक्-प्रत्ययः । ककारस्य इत्संज्ञा, लोपः] → कद्रू + एय [<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति ढकारस्य एय्-आदेशः । <<यचि भम्>> 1.4.18 इति अङ्गस्य भसंज्ञा] → काद्रू + एय [<<किति च>> 7.2.118 इति आदिवृद्धिः] → काद्रो+ एय [<<ओर्गुणः>> 6.4.146 इत्यनेन भस्य अङ्गस्य अन्तिमवर्णस्य गुणः] → काद्रवेय [<<एचोऽयवायवावः>> 6.1.78 इति अवादेशः]
<<ढे लोपोऽकद्र्वाः>> - ढे लोपोऽकद्र्वाः । भस्येत्यधिकृतम् 'ओर्गुणः' इत्यत ओरिति षष्ठन्तेनानुवृत्तेनविशेष्यते । तदन्तविधिः । तदाह — कद्रूभिन्नस्येति ।अलोऽन्त्यस्ये॑त्यन्त्यलोपः । ओर्गुणापवादः । कामण्डलेय इति । कमण्डलोरपत्यमिति विग्रहः । ढकि #एयादेशे आदिवृद्धावुकारलोपः । ननु कमण्डलुशब्दवाच्यस्य जलपात्रस्याऽचेतनस्य कथमपत्ययोगः, तत्राह — कमण्डलुशब्दश्चतुष्पाज्जातिविशेषे इति । अत एवकमण्डलुपदे आदधीते॑ति बह्वृचब्राआहृणं सङ्गच्छत इति भावः ।
मद्रबाहुशब्दाद् बाह्वन्तात्संज्ञायाम् इत्युङ्, कद्रुशब्दादपि कद्रुकमण्डल्वोश्च्छन्दसि संज्ञायाम् इत्यूड्, ताभ्यामपत्ये स्त्रीभ्यो ढक्, अन्यत्र चतुष्पाद्भ्यो ढञ्, कमण्डलुपद आदधीतेति बह्वृग्ब्राह्मणम् । शृगालः - जम्बुः, शिवा - जम्बूः । जम्बुरेव जम्बजम्बुकः ॥