चतुष्पाद्भ्यो ढञ्

4-1-135 चतुष्पाद्भ्यः ढञ् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् स्त्रीपुंसाभ्यां नञ्स्नञौ भवनात् तस्य अपत्यम्

Sampurna sutra

Up

'तस्य अपत्यम्' (इति) चतुष्पाद्भ्यः ढञ्

Neelesh Sanskrit Brief

Up

'तस्य अपत्यम्' अस्मिन् अर्थे चतुष्पादवाचिशब्देभ्यः ढञ्-प्रत्ययः भवति ।

Kashika

Up

चतुष्पादभिधायिनीभ्यः प्रकृतिभ्योऽपत्ये ढञ् प्रत्ययो भवति। अणादीनामपवादः। कामण्डलेयः। शौन्तिबाहेयः। जाम्बेयः॥

Siddhanta Kaumudi

Up

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<चतुष्पाद्भ्यो ढञ्>> - चतुष्पाद्भ्यो । चतुष्पादः-पशवः । तद्विशेषवाचिभ्योऽपत्ये ढञित्यर्थः ।

Padamanjari

Up

कमण्डलुशब्दश्चतुष्पाद्वचनोऽस्ति, दृश्यते हि - कमण्डलुपद आदधीतेति । जम्बुःउशृगालः ॥