प्रकृत्याऽन्तःपादमव्यपरे

6-1-115 प्रकृत्या अन्तः पादम् अव्यपरे संहितायाम् अचि

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

एङ ोऽति इत्येव। एङ इति यत् पञ्चम्यन्तमनुवर्तते, तदर्थादिह प्रथमान्तं भवति। प्रकृतिरिति स्वभावः कारणं वाभिधीयते। अन्तरित्यव्ययमधिकरणभूतं मध्यमाचष्टे। पादशब्देन च ऋक्पादस्यैव ग्रहणमिष्यते, न तु श्लोकपादस्य। अवकारयकारपरेऽति परत एङ् प्रकृत्या भवति। स्वभावेनावतिष्ठते, कारणात्मना वा भवति, न विकारमापद्यते। तौ चेद् निमित्तकार्यिणावन्तः पादमृक्पादमध्ये भवतः। ते अग्रे अश्व॑॑मायुञ्ज॒न् (मा० सं०९.७)। ते अ॑॑स्मिन् ज॒वमाद॑॑धुः (मा० सं० ९.७)। उ॒प॒प्॒रयन्ता॑े॑ अध्व॒रम्(ऋ०१.७४.१)। शिरो॑ अपश्यम्(ऋ०१.१६३.६)। सुजा॑ते॒ अश्व॑सूनृते(ऋ०५.७९.१)। अध्व॑र्यो॒ अदि्॑॑रभिः सु॒तम् (ऋ०९.५१.१)। अन्तः पादमिति किम् ? कया॑ म॒ती कुत॒ एता॑स ए॒तेऽर्च॑न्ति॒ (ऋ० १.१६५.१)। अव्यपर इति किम् ? त॑े॑ऽवदन् (ऋ०१०.१०९.१)। तेजोऽय॒स्मय॒म् (मा० सं०१२.६३)। एङिति किम् ? अन्व॒ग्निरु॒षसा॒मग्॑॑रमख्य॒त् (शौ० सं० ७.८२.४)। केचिदिदं सूत्रं नान्तःपादमव्यपर इति पठन्ति, ते संहितायामिह यदुच्यते तस्य सर्वस्य प्रतिषेधं वर्णयन्ति॥

Siddhanta Kaumudi

Up

ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यादति परे न तु वकारयकारपरेऽति । उपप्रयन्तो अध्वरम् (उ॒प॒प्र॒यन्तो॑ अध्व॒रम्) । सुजाते अश्वसूनृते (सुजा॑ते अश्व॑सूनृते) । अन्तःपादं किम् । एतास एतेऽर्चन्ति (ए॒तास॑ ए॒तेऽर्च॑न्ति) । अव्यपरे किम् । तेऽवदन् (ते॑ऽवदन्) ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

Padamanjari

Up

अतीत्येवेति। न तु हशीति। अत्र हेतुः पूर्वमेवोक्तः। एङ् इति यत् पञ्चम्यन्तमित्यादि। ठेङःऽ इति तावद् व्यवहितमप्यनुवर्तते, न त्वनन्तरमपि रोरित, अत्र च व्याख्यानमेव शरणम्; तेनाव्यपरे हशि परतो रु प्रकृत्या भवतीत्यर्थो न भवति। तदर्थादिति। नहि पञ्चम्यन्तस्य'प्रकृत्या' इत्यनेन सम्बन्धः सम्भवति। प्रकृतिरित्यादि। उभत्रापि प्रकृतिशब्दो दृष्टः -दुस्त्यजा प्रकृतिः, दध्नः क्षीरं प्रकृतिरिति। अन्तरित्यव्ययमित्यादि। तेन मध्यवाचिनान्तः -शब्देनोपजनिते व्यतिरेके पादशब्दात्षष्ठी, तदन्तेन सहाव्ययीभावः। ऋक्पादस्यैव ग्रहणमिष्यत इति। इष्टिरेवैषा । अन्ये तु'वा च्छन्दसि' इत्यतो मण्डूअकप्लुत्या'च्छन्दसि' इत्यनुवर्तयन्ति। एवमवयवार्थं दर्शयित्वा समुदायार्थं दर्शयति -अवकारयकारपर इत्यादिना। स्वभावेनावतिष्ठत इति। यदा प्रकृतिशब्दः स्वभावे वर्तते तदायमर्थः -स्वभावपरित्यागेन न संहिताकार्यमापद्यत इत्यर्थः। यदा तु कारणे वर्तते तदायमर्थः -एङ्कारणात्मना भवतीति। कारणं परपूर्वत्वादेः कार्यस्यैङ्, तस्यात्माउ स्वरूपम्, तेनैव भवति। प्राक संहिताकार्यादेङे यद्रूपं तेनैवावतिष्ठत इत्यर्थः। अनन्तरोक्तमेवार्थद्वयं विस्पष्टीकरोति - इति। एवं हि स्वभावेन भवति, यदि स्वभावादन्यथालक्षणां प्राप्नोति; तथा एवङ्कारणात्मना भवति, यदि विकाररूपं नापद्यते, यदि कार्यात्मना न विपरिणमतीत्यर्थः। तौ चेदिति। निमितमुअकारः, कार्यमुएङ्। उदाहरणेषु ठेङः पदान्तादतिऽ इति पूर्वत्वस्यायवादेश्च यथायोगमभावः । एतेऽर्चयन्तीति। अत्रैतत्पदान्ते वर्तते, अर्चयन्तीत्यकारश्च परस्य पादस्यादौ। केचिदिति। यदि'नान्तः पादम्' इति पठन्ति, एवं सति पूर्वत्वस्यैवानन्तरस्य प्रतिषेधः प्राप्नोति, नायवोर्व्यवहितयोः ? इत्यत आह-संहितायामिति।'संहितायाम्' इत्येतावदेवात्रापेक्ष्यतचे, न तु पूर्वरूपत्वम्; तेनैङ्ः संहिताधिकारे यदुक्तं तन्न भवतीत्यर्थः। तेनैतदपि न चोदनीयम् -अनारब्धेऽस्मिन् प्रतिषेधेऽयवोः प्राप्तिर्नास्ति, पूर्वत्वेन बाधितत्वात्, अनेन तु प्रतिषेधेन पूर्वत्वे बाधिते तयोरुद्भवः स्यात्, तस्यां दशायामस्य व्यापारो नास्ति, आत्माश्रयदोषप्रसह्गादिति। कथमेतच्योद्यं परिहृतम् ? यदि पूर्वत्वस्यैवायं प्रतिषेधः स्याततस्तदेवापेक्ष्य प्रतिषेधयेत्, यतस्तु खलु संहितायामित्यपेक्ष्य सामान्येन प्रतिषेधति तस्यैतत्प्रयोजनम् -स्वप्रवृत्युतरकालमुद्भवतोरयवोरपि प्रतिषेधो यथा स्यादिति। अत्र च'पदान्ताद्' इत्यनुवर्त्यम्, अन्यथा अग्नेरहं सुहुवस्य प्रणीतौ, वायोरिव सूनृतानामुदर्क्क इत्यादौ'ङसिङ्सोश्च' इति यत्पूर्वरूपम्, तस्यापि प्रकृतिभावप्रतिषेधौ प्राप्नुतः ॥