कानाम्रेडिते

8-3-12 कान् आम्रेडिते पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

कान्-पदस्य आम्रेडिते रुँ

Neelesh Sanskrit Brief

Up

'कान्' इत्यस्य नकारस्य आम्रेडिते (कान्-शब्दे) परे रुँत्वम् भवति ।

Neelesh English Brief

Up

The नकार of 'कान्' is converted to रुँ when followed by an आम्रेडित.

Kashika

Up

कानित्येतस्य नकारस्य रुर्भवति आम्रेडिते परतः। कांस्कानामन्त्रयते। कांस्कान् भोजयति। अस्य कस्कादिषु ८.३.४८ पाठो द्रष्टव्यः। तेन <<कुप्वोः क पौ च>> ८.३.३७ इति न भवति। <<समःसुटि>> ८.३.५ इत्यतो वा सकारोऽनुवर्तते, स एवात्र विधीयते। पूर्वेषु योगेषु संबन्धानुवृत्त्यागतस्य रोरत्रानभिसंबन्धः। आम्रेडित इति किम्? कान् कान् पश्यति। एकोऽत्र कुत्सायाम्॥

Siddhanta Kaumudi

Up

कान्नकारस्य रुः स्यादाम्रेडिते परे । संपुंकानामिति सः । यद्वा ॥

Laghu Siddhanta Kaumudi

Up

कान्नकारस्य रुः स्यादाम्रेडिते। काँस्कान्, कांस्कान्॥

Neelesh Sanskrit Detailed

Up

सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् द्वादशम् (अन्तिमम्) सूत्रम् । किम्-शब्दस्य द्वितीयाबहुवचनस्य कान् इति रूपस्य नकारस्य आम्रेडिते परे (इत्युक्ते, अन्यस्मिन् कान्-शब्दे परे) रुँत्वम् भवति इति अस्य सूत्रस्य अर्थः । कान् इति शब्दः यत्र पौनःपुन्यम् दर्शयितुम् प्रयुज्यते, तत्र <<नित्यवीप्सयोः>> 8.1.4 इति सूत्रेण तस्य द्वित्वे कृते कान् कान् (whom all इति अर्थः, हिन्दीभाषायाम् 'किसकिसको' इति) इति जायते । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य <<तस्य परमाम्रेडितम्>> 8.1.2 इति सूत्रेण आम्रेडितसंज्ञा भवति । अस्मिन् आम्रेडितसंज्ञके परे प्रथम-कान्-शब्दस्य नकारस्य प्रकृतसूत्रेण रुत्वम् भवति । प्रक्रिया इयम् — कान् कान् [<<नित्यवीप्सयोः>> 8.1.4 इति द्वित्वम् । अत्र विद्यमानस्य द्वितीय-कान्-शब्दस्य आम्रेडितसंज्ञा भवति । → कारुँ + कान् [<<कानाम्रेडिते>> 8.3.12 इति आम्रेडिते परे कान्-शब्दस्य नकारस्य रुँत्वम् ] → काँरुँ कान् / कांरुँ कान् [<<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इत्यनेन रुँ-इत्यस्मात् पूर्वस्य विकल्पेन अनुनासिकः । अनुनासिकाभावे <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अनुस्वारः] → काँः कान् / कांः कान् [<<खरवसानयोर्विसर्जनीयः>> 8.3.15 इति विसर्गः] → काँस् कान् / कांस् कान् [<<कुप्वोः ≍क ≍पौ च>> 8.3.37 इति जिह्वामूलीये प्राप्ते तद्बाधित्वा <!सम्पुंकानाम् सो वक्तव्यः!> अनेन वार्त्तिकेन विसर्गस्य सकारादेशः] → काँस्कान्, कांस्कान् यथा, देवदत्तः कांस्कान् भोजयति (Whom all does Devadatta feed?), देवदत्तः कांस्कान् आमन्त्रयत् (Whom all did Devadatta invite?) इत्यादिषु वाक्येषु अस्य शब्दस्य प्रयोगः कृतः दृश्यते ।
जिह्वामूलीयं बाधित्वा विसर्गस्य नित्यम् सकारादेशः उपरिनिर्दिष्टायाम् प्रक्रियायाम् काँःकान् / कांःकान् इत्यस्याम् अवस्थायाम् <<कुप्वोः ≍क ≍पौ च>> 8.3.37 इत्यनेन विसर्गस्य विकल्पेन जिह्वामूलीये प्राप्ते तद्बाधित्वा तस्य सकारादेशः इष्यते । तदर्थम् काशिकायाम् तिस्रः पद्धतयः उक्ताः सन्ति — 1. <!सम्पुंकानां सो वक्तव्यः!> इति वार्त्तिकेन विसर्गस्य नित्यम् सकारादेशः — सम्, पुम्, कान् एतेषाम् शब्दानां विषये यत्र रुँत्व भवति, तत्र रेफस्य विसर्गादेशे कृते, तस्य विसर्गस्य नित्यमेव सकारादेशः भवति, इति अस्य वार्त्तिकस्य आशयः । यथा — i) सम् + सुट् + कर्तृ इत्यत्र सम्-इत्यस्य मकारस्य <<समः सुटि>> 8.3.5 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, सँःस्कर्तृ / संःस्कर्तृ इति सिद्धे अग्रे विसर्गस्य <<वा शरि>> 8.3.36 इत्यनेन विकल्पेन सकारादेशः प्राप्नोति, तद् बाधित्वा वार्त्तिकेन नित्यम् एव सकारादेशः भवति, येन सँस्स्कर्तृ / संस्स्कर्तृ इति प्रयोगौ सिद्ध्यतः । ii) पुम् + काम इत्यत्र पुम्-इत्यस्य मकारस्य <<पुमः खय्यम्परे>> 8.3.6 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, पुँःकाम / पुंःकाम इति सिद्धे अग्रे विसर्गस्य <<इदुदुपधस्य चाप्रत्ययस्य>> 8.3.41 इत्यनेन नित्यम् षकारादेशे प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन पुँस्काम / पुंस्काम इति प्रयोगौ सिद्ध्यतः । iii) कान् + कान् इत्यत्र कान्-इत्यस्य नकारस्य <<कानाम्रेडिते>> 8.3.12 इत्यनेन रुत्वे, ततश्च <<खरवसानयोर्विसर्जनीयः>> 8.3.15 इत्यनेन विसर्गादेशे कृते, काँःकान् / कांःकान् इति सिद्धे अग्रे विसर्गस्य <<कुप्वोः ≍क≍पौ च>> 8.3.37 इत्यनेन विकल्पेन जिह्वामूलीये प्राप्ते, तद्बाधित्वा अनेन वार्त्तिकेन विसर्गस्य सकारादेशः भवति, येन काँस्कान् / कांस्कान् इति प्रयोगौ सिद्ध्यतः ।
2. <<समः सुटि>> 8.3.5 इत्यत्र सकारप्रश्लेषं कृत्वा तस्य अत्र अनुवृत्तिः — <<समः सुटि>> 8.3.5 इति सूत्रे भाष्यकारेण सकारप्रश्लेषं कृत्वा <<समः स्सुटि>> इति द्विसकारकः निर्देशः करणीयः - इति उक्तम् अस्ति । अत्र प्रश्लिष्टः सकारः प्रकृतसूत्रे अपि अनुवर्त्यते चेत् <<कानाम्रेडिते स्>> इति सूत्रम् अत्र सिद्ध्यति । आम्रेडिते परे कान्-शब्दस्य नकारस्य सकारादेशः भवति इति सूत्रार्थः करणीयः इति अत्र आशयः अस्ति । एतादृशे आदेशे कृते अत्र यद्यपि रुँ इति नास्ति, तथापि <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति अधिकारसामर्थ्यात् अत्र विकल्पेन अनुनासिकादेशम्, पक्षे च अनुस्वारागमम् कृत्वा कांस्कान् / काँस्कान् इति द्वे रूपे अवश्यं सम्भवतः । 3. कस्कादिगणे निर्देशात् निपातनम् — <<कस्कादिषु च>> 8.3.48 इत्यस्मिन् सूत्रे निर्दिष्टे कस्कादिगणे ते सर्वे शब्दाः विद्यन्ते, येषाम् विषये विसर्गस्य अन्यविधीन् बाधित्वा सकारादेशः एव भवति । कांस्कान् इति शब्दः अपि अस्मिन्नेव गणे विद्यते । अस्य गणस्य आकृतिगणत्वात् काँस्कान् शब्दस्य ग्रहणम् अपि तत्र शक्यम् । अनेन प्रकारेण एतयोः शब्दयोः विद्यमानम् सत्वम् समर्थयितुम् शक्यते ।

Balamanorama

Up

<<कानाम्रेडिते>> - कानाम्रेडिते ।का॑निति द्वितीयान्तशब्दस्वरूपपरं षष्ठन्तम् । षष्ठ्याः सौत्रो लुक् । नलोपाभावोऽपि सौत्र एव । अलोऽन्त्यपरिभाषया कान्शब्दान्तस्येति लभ्यते । 'रु' इत्यनुवर्तते, तदाह — कान्नकारस्येत्यादिना । संपुंसानामिति । 'कान्' इत्यस्य वीप्सायां द्विर्वचने कान्-कान् इति स्थिते प्रथमनकारस्य रुत्वेऽनुनासिकानुस्वारविकल्पः । रेफस्य विसर्गः । तस्य 'विसर्जनीयस्य स' इति सत्वं बाधित्वाकुप्वो॑रिति प्राप्तौसंपुंकाना॑मिति सत्वमित्यर्थः । वस्तुतस्तुसंपुंकाना॑मिति वार्तिके कानिति निष्फलमित्याह — यद्वेति ।

Padamanjari

Up