8-2-74 सिपि धातोः रुः वा पदस्य पूर्वत्र असिद्धम् दः
सिपि परतः सकारान्तस्य पदस्य धातो रुरित्ययमादेशो भवति, दकारो वा। अचकास्त्वम्, अचकात् त्वम्। अन्वशास्त्वम्, अन्वशात् त्वम्। धातुग्रहणं चोत्तरार्थं रुग्रहणं च॥
पदान्तस्य धातोः सस्य रूः स्याद्वा । पक्षे जश्त्वेन दः । अचकाः । अचकात् ।{$ {!1075 शासु!} अनुशिष्टौ$} । शास्ति ॥
पदान्तस्य धातोः सस्य रुः स्याद्वा, पक्षे दः। अहिनः, अहिनत्, अहिनद्॥ {$ {! 13 उन्दी !} क्लेदने $} <{07.0020}> ॥ उनत्ति। उन्तः। उन्दन्ति। उन्दाञ्चकार। औनत्, औनद्। औन्ताम्। औन्दन्। औनः, औनत्, औनद्। औनदम्॥ {$ {! 14 अञ्जू !} व्यक्तिम्रक्षणकान्तिगतिषु $} <{07.0021}> ॥ अनक्ति। अङ्क्तः। अञ्जन्ति। आनञ्ज। आनञ्जिथ, आनङ्क्थ। अञ्जिता, अङ्क्ता। अङ्ग्धि। अनजानि। आनक्॥
<<सिपि धातो रुर्वा>> - सिपि धातोः । पदस्येत्यधिकृतम् । 'झलां जशोऽन्ते' इत्यतोऽन्ते इत्यनुवृत्तम् ।ससजुषो॑रित्यतः स इति लुप्तषष्ठीकमनुवर्तते ।तदाह — पदान्तस्येति । पक्षे इति । 'वसुरुआंस्वि' त्यतस्तदनुवृत्तेरिति भावः । सिपि धातुत्वस्य अव्यभिचाराद्धातोरित्युत्तरार्थम् । अचकासीत् । अचकासिष्यत् । शासधातुरुदित् । सेट् ।
धातुग्रहणमुतरार्थमिति । इह तु सिपि परतो दातोरन्यस्यासम्भवः । रुग्रहणं चेति । उतरार्थमित्यनुषङ्गः, इह तु दत्वे विकल्पिते सान्तत्वादे पक्षे रुः सिध्यति ॥