तृजकाभ्यां कर्तरि

2-2-15 तृजकाभ्यां कर्तरि आ कडारात् एका सञ्ज्ञा सुप् समासः सह सुपा विभाषा तत्पुरुषः षष्ठी

Kashika

Up

index: 2.2.15 sutra: तृजकाभ्यां कर्तरि


कर्तृग्रहणं षष्ठीविशेषणम्। कर्तरि या षष्ठी सा तृचा अकेन च सह न समस्यते। भवतः शायिका। भवत आसिका। भवतोऽग्रगामिका। तृच् चर्तर्येव विधीयते, तत्प्रयोगे कर्तरि षष्ठी न अस्ति। तस्मात् तृज्ग्रहनमुत्तरार्थम्। कर्तरि इति किम्? इक्षुभक्षिकां मे धारयसि।

Siddhanta Kaumudi

Up

index: 2.2.15 sutra: तृजकाभ्यां कर्तरि


कर्त्रर्थतृजकाभ्यां षष्ठ्या न समासः । अपां स्रष्टा । वज्रस्य भर्ता । ओदनस्य पाचकः । कर्तरि किम् । इक्षूणां भक्षणमिक्षुभक्षिका । पत्यर्थभर्तृशब्दस्य तु याजकत्वादिसमासः । भूभर्ता । कथं तर्हि घटानां निर्मातुस्त्रिभुवनविधातुश्च कलह इति । शेषषष्ठ्या समास इति कैयटः ॥

Balamanorama

Up

index: 2.2.15 sutra: तृजकाभ्यां कर्तरि


तृजकाभ्यां कर्तरि - तृजकाभ्यां कर्तरि । कर्तरीति तृजकयोरेव विशेषणं, श्रुतत्वात्, नतु षष्ठ्याः । तदाह — कत्र्रर्थतृजकाभ्यामिति । अपां रुआष्टा वज्रस्य भर्तेति । 'ण्वुल्तृचौ' इति कर्तरि तृच् । 'कर्तृकर्मणोः' इति कर्मणि षष्ठी । एवमोदनस्य पाचक इति पचेः कर्तरि ण्वुल् । अकादेश इति विशेषः । इक्षुभक्षिकेति ।स्त्रियां क्ति॑न्नित्यदिकारे धात्वर्थनिर्देसे ण्वुल् । कर्मणि षष्ठआ समासः ।कर्मणि चे॑ति निषेधस्तु न, कर्तुः प्रयोग एव तत्प्रवृत्तेः । ननु भुवो भर्ता भूभर्तेत्यत्रापि निषेधः स्यात् । न च भर्तृशब्दस्य याजकादौ पाठाद्भवत्येव षष्ठीसमासः,याजकादिभिश्चे॑त्यस्य प्रतिप्रसवार्थत्वादिति वाच्यम्, एवं ततिवज्रस्य भर्ते॑त्यत्रापि समासप्रसङ्गादित्यत आह — पत्यर्थेति । याजकादौ पत्यर्थकस्यैव भर्तृशब्दस्य ग्रहणं, व्याख्यानात् । ततश्चवज्रस्य भर्ते॑त्यत्रयाजकादिभिश्चे॑ति समासो नेति भावः । कथं तर्हीति । त्रायाणां भुवनानां समाहारस्त्रिभुवनं ।तद्धितार्थे॑ति द्विगुः ।अकारान्तोत्तरपदो द्विगुः स्त्रिया॑मिति तु न भवति,पात्राद्यन्तस्य ने॑त्युक्तेः ।त्रिभुवनस्य विधाते॑ति तृचो योगे कथं कर्मणि षष्ठआ समास इत्याक्षेपः । परिहरति — शेषषष्ठएति । प्रत्यासत्या कारकषष्ठआ एवायं निषेध इति बहुष्विति सूत्रे कैयट आहेत्यर्थः ।

Padamanjari

Up

index: 2.2.15 sutra: तृजकाभ्यां कर्तरि


तृजकाभ्यां कर्तरि॥ कर्तृ ग्रहणं षष्ठीविशेषणमिति। अथ कस्माद्विपर्यययो नाश्रीयते - इह तृजकविशेषणं कर्तृ ग्रहणमुतरत्र षष्ठीविशेषणमिति, एवं तृज्ग्रहणमुतरार्थमिति न वक्तव्यं भवति? उच्यते;'नित्यं क्रीडाजीविकयोः' इत्यत्र तृज्ग्रहणस्याननुवृत्तिः शङ्क्येत'कर्तरि च' इत्यत्र सम्बन्धासम्भवात्, न हि तृज्प्रयोगे कर्तरि षष्ठी सम्भवतीति। ननु च'तृज्क्रीडाजीविकयोर्नास्तीत्यकएवोदाह्रियते' इति वक्ष्यति, एवं तर्हि तथानाश्रितमित्येव। भवतः शायिकेति।'पर्यायार्हणोत्पतिषु ण्वुच्' । तृच्प्रयोगे कर्तरि षष्ठी नास्तीति। तेनैव कर्तुरभिहितत्वात्। इक्षुभक्षिकामिति। कर्मणि षष्ठ।ल समासः। म इति।'धारेरुतमर्ण' इति संप्रदाने चतुर्थी॥