सर्वनाम्नस्तृतीया च

2-3-27 सर्वनाम्नः तृतीया च अनभिहिते हेतौ षष्ठी हेतुप्रयोगे

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

सर्वनाम्नो हेतुशब्दप्रयोगे हेतौ द्योत्ये तृतीया विभक्तिर्भवति, षष्ठी च। पूर्वेण षष्ठ्यामेव प्राप्तायामिदमुच्यते। कस्य हेतोर्वसति, केन हेतुना वसति। यस्य हेतोर्वसति, येन हेतुना वसति॥ निमित्तकारणहेतुषु सर्वासां प्रायदर्शनम्॥ किं निमित्तं वसति। केन निमित्तेन वसति। कस्मैनिमित्ताय वसति। कस्मान्निमित्ताद् वसति। कस्य निमित्तस्य वसति। कस्मिन्निमित्ते वसति। एवं कारणहेत्वोरप्युदाहार्यम्। अर्थग्रहणं चैतत्। पर्यायोपादानं तु स्वरूपविधिर्मा विज्ञायीति। तेनेहापि भवति — किं प्रयोजनं वसति। केन प्रयोजनेन वसति। कस्मै प्रयोजनाय वसति। कस्मात् प्रयोजनाद् वसति। कस्य प्रयोजनस्य वसति। कस्मिन् प्रयोजने वसति॥

Siddhanta Kaumudi

Up

सर्वनाम्नो हेतुशब्दस्य च प्रयोगे हेतौ द्योत्ये तृतीया स्यात् षष्ठी च । केन हेतुना वसति । कस्य हेतोः ।<!निमित्तपर्यायप्रयोगे सर्वासां प्रायदर्शनम् !> (वार्तिकम्) ॥ किं निमित्तं वसति । केन निमित्तेन । कस्मै निमित्तायेत्यादि । एवं किं कारणं को हेतुः किं प्रयोजनम् इत्यादि । प्रायग्रहणादसर्वनाम्नः प्रथमाद्वितीये न स्तः । ज्ञानेन निमित्तेन हरिः सेव्यः । ज्ञानाय निमित्तायेत्यादि ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<सर्वनाम्नस्तृतीया च>> - सर्वनाम्नस्तृतीया च । सर्वनाम्न इति षष्ठी । तदाह — सर्वनाम्नो हेतुशब्दस्य चेति । कस्माद्भवतीत्यपेक्षायां सन्निहितत्वात्सर्वनामहेतुभ्यामिति गम्यते इत्यभिप्रेत्योदाहति — केन हेतुनेति । सर्वनाम्न इति यदि पञ्चमी स्यात्तदा हेतुशब्दात् षष्ठी न स्यादिति बोध्यम् ।

Padamanjari

Up

सर्वनाम्नस्तृतीया च॥'सर्वनाम्नः' इति प्रयोगापेक्षा षष्ठी। सर्वनाम्नी हेतुशब्दस्य च प्रयोग इति। पञ्चम्यां तु हेतुशब्दादयं विधिर्न स्यात्। कथं तर्हि सर्वनाम्नस्तृतीया भवतीति? अत्रापि सर्वनाम्नः प्रयोग इत्यर्थो द्रष्ट्व्यः। निमितकारणहेतुष्विति। यद्यप्यस्मिन् सूत्र इदं वृत्तिकारेण पठितम्, भाष्यकारेण तु'हेतौ' इत्यत्र पठितत्वादसर्वनाम्नोऽप्येतद्विभक्तिविधानं गम्यते, तत्र च प्रायग्रहणादेवासर्वनाम्नः प्रथमाद्वितीये न भवतः, अन्यास्तु यथादर्शनं भवन्ति - अन्नेन कारणेन वसति, अन्नाय कारणाय वसति, अन्नात्कारणाद्, अन्नस्य कारणस्य, अन्ने कारणे इति। पर्यायोपादानं त्विति। ननु विपरीतमिदं स्वरूपविधौ पर्यायोपादानं कर्तव्यम्, अर्थग्रहणे तु न कर्तव्यमिति; किं चार्थग्रहणे सत्येकशेषप्रसङ्गः, विरूपाणामपि समानार्थानामेकशेषवचनात्? एवं मन्यते - यथा आकृतिगमेषु केचिदुपलक्षणार्थं पठ।ल्न्ते, एवमिहापि स्वरूपपरा एव निमितादिशब्दा उपलक्षणार्थाः - एवमर्थानां शब्दानामिति॥