6-2-102 कुसूलकूपकुम्भशालं बिले पूर्वपदम् अन्तः
कुसूल कूप कुम्भ शाला इत्येतानि पूर्वपदानि बिलशब्द उत्तरपदेऽन्तोदात्तानि भवन्ति। कु॒सू॒लबि॑लम्। कू॒पबि॑लम्। कु॒म्भबि॑लम्। शा॒लाबि॑लम्। कुसूलादिग्रहणं किम् ? स॒र्प॒बि॒लम्। बिल इति किम्? कु॒सू॒ल॒स्वा॒मी॥
एतान्यन्तोदात्तानि बिले परे । कुसूलबिलम् । कूपबिलम् । कुम्भबिलम् । शालबिलम् । कुसूलादि किम् । सर्पबिलम् । बिलेति किम् । कुसूलस्वामी ॥