6-3-36 क्यङ्मानिनोः च उत्तरपदे स्त्रियाः पुंवत् भाषितपुंस्कादनूङ्
index: 6.3.36 sutra: क्यङ्मानिनोश्च
क्यङि परतो मानिनि च स्तिर्या भाषितपुंस्कादनूङ् पुंवत् भवति। एनी एतायते। श्येनीश्येतायते। मानिनि दर्शनीयमानी अयमस्याः। दर्शनीयमानिनी इयमस्याः। मानिनो ग्रहणमस्त्र्यर्थमसमानाधिकरणार्थं च। इह तु दर्शनीयामात्मानं मन्यते दर्शनीयमानिनी इति पूर्वेण एव सिद्धम्।
index: 6.3.36 sutra: क्यङ्मानिनोश्च
एतयोः परतः पुंवत् । एनीवाचरति एतायते । श्येनीवाचरति श्येतायते । स्वभिन्नां कांचिद्दर्शनीयां मन्यते दर्शनीयमानिनी । दर्शनीयां स्त्रियं मन्यते दर्शनीयमानी चैत्रः ॥
index: 6.3.36 sutra: क्यङ्मानिनोश्च
क्यङ्मानिनोश्च - क्यङ्मानिनोश्च । एतयोरिति । क्यङि मानिनि च उत्तरपदे परत इत्यर्थः । एनोवेति । एता-चित्रवर्णा ।चित्रं किर्मीरकल्माषशबलैताश्च कर्बु॒रे॑ इत्यमरः । एतशब्दः ओतपर्याय इति याज्ञिकाः ।वर्णादनुदात्ते॑ति ङीब्नकारश्च । 'उपमानादाचारे' इत्यनुवर्तमानेकर्तुः क्यङ् सलोपश्चे॑ति एनीशब्दात्क्यङि पुंवत्त्वे ङीब्नत्वयोर्निवृत्तौ,अकृत्सार्वधातुकयो॑रिति दीर्घे 'एतायते' इति रूपमिति भावः । श्येनीवेति । श्येतशब्दः ओतपर्यायः ।शुक्लशुभ्रसुचिओतविशदश्येतपाण्डुराः॑ इत्यमरः । क्यङादि पूर्ववत् । ननुस्त्रियाः पुंव॑दित्येव मानिनीत्यनुत्तरपदे परतः पुंवत्त्वसिद्धेर्मानिन्ग्रहणं किमर्थमित्याशङ्क्य मानिन्ग्रहणमसमानाधिकरणार्थमस्त्रीलिङ्गार्थ चेत्यभिप्रेत्य असमानाधिकरणे परे तावदुदाहरति — स्वभिन्नामिति । दर्शनीयमानिनीति ।दर्शनीया॑मिति द्वितीयान्ते उपपदेषुप्यजातौ णिनि॑रित्यनुवृत्तौ 'मन' इति ण्निप्रत्ययः । उपपदसमासः, सुब्लुक् । असमानाधिकरणेऽपि मानिन्शब्दे उत्तरपदे परे अनेन पुंवत्त्वे टापो निवृत्तौ 'ऋन्नेभ्यः' इति ङीपि दर्शनीयमानिनीति रूपम् । या त्वात्मानमेव दर्शनीयां मन्यते तस्या दर्शनीयायाःस्त्रियाः पुंव॑दित्येव पुंवत्त्वं सिद्धमिति ध्वनयितुं — ॒स्वभिन्ना॑मित्युक्तम् । एकस्या एवं दर्शनीयाया मनधात्वर्थं प्रति कर्मत्वकर्तृत्वसंभवेऽपबि वास्तवाऽभेदेन मानिनीशब्दसमानाधिकरण्यसत्त्वादिति भावः । अथाऽस्त्रीलिङ्गे उत्तरपदे उदाहरति — दर्शनीयामिति । स्त्रियामित्यनन्तरमात्मानमिति शेषः आत्मानं यो दर्शनीयां स्त्रियं मन्यते स दर्शनीयमानी चैत्र इत्यन्वयः । अत्र उत्तरपदवाच्यस्य मानिनो वस्तुतो दर्शनीयस्त्रीभेदेऽपि आरोपिततदभेदमादाय सामानाधिकरण्यं यद्यप्यस्ति, तथापि मानिन्शब्दस्य उत्तरपदस्य पुंलिङ्गत्वात्तस्मिन् परे पुंवत्त्वं न प्राप्तमित्यनेन तद्विधिरिति भावः ।
index: 6.3.36 sutra: क्यङ्मानिनोश्च
अयमस्याः, इयमस्या इति वैयधिकरण्यप्रदर्शनार्थमिदमुक्तम् । पूर्वणेव सिद्धमिति । एकस्या एव कर्मत्वात्कर्तृत्वाच्च सामानाधिकरण्यस्याभावात् ॥