शयवासवासिष्वकालात्

6-3-18 शयवासवासिषु अकालात् अलुक् उत्तरपदे हलदन्तात् सप्तम्याः विभाषा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

शय वास वासिन् इत्येतेषूत्तरपदेष्वकालवाचिन उत्तरस्याः सप्तम्या विभाषालुग् भवति। खेशयः, खशयः। ग्रामेवासः, ग्रामवासः। ग्रामेवासी, ग्रामवासी। अकालादिति किम्? पूर्वाह्णशयः। हलदन्तादित्येव — भूमिशयः॥ अपो योनियन्मतुषु सप्तम्या अलुग् वक्तव्यः॥ अप्सुयोनिः। अप्सव्यः। अप्सुमन्तौ (आ० श्रौ० २.१३.३)। अप्सु भव इति दिगादित्वाद् ४.३.५४ यत् प्रत्ययः। सर्वत्र सप्तमीति योगविभागात् समासः॥

Siddhanta Kaumudi

Up

खेशयः । खशयः । ग्रामेवासः । ग्रामवासः । ग्रामेवासी । ग्रामवासी । हलदन्तात् इत्येव । भूमिशयः ।<!अपो योनियन्मतुषु !> (वार्तिकम्) ॥ अप्सु योनिरुत्पत्तिर्यस्य सोऽप्सुयोनिः । अप्सु भवोऽप्सव्यः । अप्सुमन्तावाज्यभागौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<शयवासवासिष्वकालात्>> - शयवास । शय, वास, वासिन्-एतेषु परेषु कालभिन्नात्सप्तम्या अलुक् स्यादित्यर्थः । अपो योनि । योनिशब्दे यत्प्रत्यये मतुपि च परेऽप्शब्दात्सप्तम्या अलुक् स्यादित्यर्थः । अप्सव्य इति । दिगादित्वाद्यत् । 'ओर्गुणः'वान्तो यी॑त्यवादेशः । अप्सुमन्ताविति । 'अप्सु' इति पदं यदीयमन्त्रयोरस्ति तावप्सुमन्तौ, आज्यभागाविति कर्मविशेषौ ।

Padamanjari

Up

अत्राकाल इत्यर्थगर्हण्, व्याख्यानात् । तदाहाकालवाचिन इति । खशय इति । अधिकरणे शेतेः इत्यच् । वास इति । घञ् । ग्रामेवासीति । सुप्यजातौ णिनिः । अपो योनीत्यादि । शब्दप्रधानत्वादप इत्येकवचनम्, योनिः - उत्पत्तिः अप्सुयोनिर्यस्य सोऽम्सुयोनिः । अप्सव्य इति । ओर्गुणः, वान्तो यि प्रत्यये । अप्सुमन्ताविति । सप्तम्यन्तान्तुपोऽसम्भवादप्स्विति शब्दो ययोरस्ति तावप्सुमन्तौ कारीर्यामाज्यभागौ, तयोर्हि अप्स्वग्ने सधिष्टवः, अप्सु मे सोमो अब्रवीत्, इत्यनुवाक्ययोरप्सुशब्दोऽस्ति । यद्येवम्, अनुकरणत्वादस्यवामीयादिवल्लुगन भविष्यतीति किं मतुब्ग्रहणेन अन्य तु मतिशब्दं पठन्ति, उदारहन्ति - अत्र सोमो वाप्सुमतिरिति ततु भाष्ये न दृष्टम् ॥ नेन्त्सिद्धबध्नातिषु च ॥ तत्पुरुषे कृति बहुलम् इति प्राप्तं प्रतिषिध्यते, सप्तम्यांः परस्याः परस्य केवलस्येनोऽसम्भवादुतरपदाधिकारेऽपि प्रत्ययग्रहणे तदन्तविधिरित्याह - इन्नन्त उतरपद इति । स्थण्डिलवर्तीति । व्रते इति णिनिः । उपपदसमासः । साङ्काशयसिद्ध इति । सिद्धशुष्कपक्वबन्धैश्चेति समासः । चारबद्ध थैति । बद्धशब्दो निष्ठान्तः । योगविभागात् समास इति । बद्धशब्देन । तदिति । बन्ध इत्येव शब्दरुपम् । अथ धञन्तः कस्मान्न भवति तत्राह धञन्ते हीति । अथ वा - पचाद्यजन्ते च बन्धे च विभाषा इत्ययं विकल्पः कस्मान्न भवति इत्यत आह - धञन्ते हीति ॥