5-4-30 लोहितात् मणौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः कन्
लोहितात् मणौ कन्
'लोहित'शब्दात् मणेः निर्देशार्थम् स्वार्थे कन् प्रत्ययः भवति ।
लोहितशब्दाद् मणौ वर्तमानात् स्वार्थे कन् प्रत्ययो भवति। लोहितो मणिर्लोहितकः। मणाविति किम् ? लोहितः॥
लोहित एव मणिर्लोहितकः ॥
'लोहित' (red) शब्दात् मणेः (precious stone) निर्देशार्थम् स्वार्थे कन्-प्रत्ययः भवति । लोहितः मणिः स एव लोहितकः मणिः । <<समर्थानां प्रथमाद्वा>> 4.1.82 अनया महाविभाषया एतत् प्रत्ययविधानम् विकल्पेन भवति, अतः प्रत्ययं विना केवलम् 'लोहित' इति अपि प्रयोगः भवितुमर्हति । लोहितः मणिः । यत्र मणेः निर्देशः नास्ति तत्र तु कन्-प्रत्ययः न भवति । यथा - लोहितः खगः ।
<<लोहितान्मणौ>> - लोहितान्मणौ । मणौ वर्तमानाल्लोहितशब्दात्स्वार्थे कन्स्यादित्यर्थः । माणिक्य मयो मणिरेवेह मणिर्विवक्षितः । यस्तु जपाकुसुमादिनिमित्तलौहित्यवान्स्फटिकमणिस्तस्य तु 'रक्ते' इत्युत्तरसूत्रेण सिद्धम् ।