3-4-117 छन्दसि उभयथा प्रत्ययः परः च आद्युदात्तः च धातोः लस्य आर्धधातुकं
छन्दसि विषय उभयथा भवति, सार्वधातुकमार्धधातुकं च। किं लिङेवानन्तरः संबध्यते? नैतदस्ति। सर्वमेव प्रकरणमपेक्ष्यैतदुच्यते। तिङ्शिदादि छन्दस्युभयथा भवति। वर्ध॑न्तु त्वा सुष्टु॒तयः॒ (ऋ० ७.९९.७)। आर्धधातुकत्वाण् णिलोपः। वर्धयन्त्विति प्राप्ते। शेषं च सार्वधातुकम् — स्व॒स्तये॒ नाव॑मि॒वारु॑हेम (ऋ०१०.१७८.२)। क्तिनः सार्वधातुकत्वादस्तेर्भूभावो न भवति। लिट् सार्वधातुकम् — सस॒वांसो॒ विशृ॑ण्विरे (ऋ० ४.८.६)। इ॒म इन्द्रा॑य सुन्विरे॒ (ऋ० ७.३२.४)। लिङ् उभयथा भवति — उप॑ स्थेयाम शर॒णा बृ॒हन्त॑ (ऋ०६.४७.८)। सार्वधातुकत्वाल् लिङः सलोपः, आर्धधातुकत्वादेत्वम्। <<व्यत्ययो बहुलम्>>३.१.८५ इत्यस्यैवायं प्रपञ्चः॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ तृतीयाध्यायस्य चतुर्थःपादः॥
धात्वधिकारे उक्तः प्रत्ययः सार्वधातुकार्धधातुकोभयसंज्ञः स्यात् । वर्धन्तु त्वा सुष्टुतयः (वर्ध॑न्तु त्वा सुष्टु॒तयः॑) । वर्धयन्त्वित्यर्थः । आर्धधातुकत्वाण्णिलोपः । विशृण्विरे (विशृ॑ण्विरे) । सार्वधातुकत्वात् श्नुः शृभावश्च । हुश्नुवोः - <{SK2387}> इति यण् । आदृगमहनजनः किकिनौ लिट् च - <{SK3151}> । आदन्तादृवर्णान्ताद्गमादेश्च किकिनौ स्तस्तौ च लिड्वत् । बभ्रिर्वज्रम् (ब॒भ्रिर्वज्र॑म्) । पपिः सोमम् (प॒पिः सोम॑म्) । ददिर्गाः (द॒दिर्गाः) । जग्मिर्युवा (ज॒ग्मि॒र्युवा॑) । जघ्निर्वृत्रममित्रियम् (जघ्नि॑र्वृ॒त्रम॑मि॒त्रिय॑म्) । जज्ञिः । लिड्वद्भावादेव सिद्धे ऋच्छत्यॄताम् - <{SK2383}> इति गुणबाधनार्थं कित्त्वम् । बहुलं छन्दसि - <{SK3578}> इत्युत्वम् । ततुरिः । जगुरिः ॥
सर्वमेव प्रकरणमिति ।'तिङसित्सार्वधातुकम्' इत्यारभ्य चतुः सूत्रीप्रकरणम् । भूभावो न भवतीति । तदानीभेवार्धधातुकत्वात्'श्नसोरल्लोपः' इत्यस्याभावः ॥