तद्धिताः

4-1-76 तद्धिताः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात्

Sampurna sutra

Up

तद्धिताः प्रातिपदिकात् प्रत्ययः परश्च आद्युदात्तश्च

Neelesh Sanskrit Brief

Up

इतः परम् पञ्चमाध्यायस्य समाप्तिपर्यन्तं ये प्रत्ययाः वक्ष्यन्ते ते तद्धितसंज्ञकाः भवन्ति ।

Neelesh English Brief

Up

The प्रत्ययाः that are being told from now onwards up to end of the fifth chapter are called तद्धितप्रत्ययाः.

Kashika

Up

अधिकारोऽयम्। आ पञ्चमाध्यायपरिसमाप्तेर्यानित ऊर्ध्वमनुक्रमिष्यामः, तद्धितसंज्ञास्ते वेदितव्याः। वक्ष्यति — <<यूनस्तिः>> ४.१.७७ — युवतिः। बहुवचनमनुक्त — तद्धितपरिग्रहार्थम्। <<पृथिव्या ञाञौ>> (वा० ४.१.८५)। <<अग्रादिपश्चाड्डिमच्>>(वा० ४.३.२३) इत्येवमादि लब्धं भवति। तद्धितप्रदेशाः — <<कृत्तद्धितसमासाश्च>> १.२.४६ इत्येवमादयः॥

Siddhanta Kaumudi

Up

आपञ्चमसमाप्तेरधिकारोऽयम् ॥

Laghu Siddhanta Kaumudi

Up

आपञ्चमसमाप्तेरधिकारोऽयम्॥

Neelesh Sanskrit Detailed

Up

अयम् तद्धिताधिकारः । अस्मात् सूत्रात् तद्धितप्रत्ययाः आरभन्ते । एतेषां व्याप्तिः पञ्चमाध्यायस्य चतुर्थपादस्य अन्तिमसूत्रपर्यन्तमस्ति । एतेषु सर्वेषु सूत्रेषु ये ये प्रत्ययाः प्रोक्ताः सन्ति, ते सर्वे तद्धितसंज्ञकाः भवन्ति । अत्र केचन बिन्दवः ज्ञातव्याः - 1) पाणिनिना 'तद्धित' शब्दस्य व्याख्या न दीयते । परन्तु शास्त्रे अस्य शब्दस्य अर्थः 'तेभ्यः हिताः तद्धिताः' एतादृशम् क्रियते । 'तेभ्यः' इत्युक्ते 'प्रयोगेभ्यः' । 'हिताः' इत्युक्ते 'उपकारिणः' । इत्युक्ते, ते प्रत्ययाः, ते प्रयोगार्थमुपयुक्ताः सन्ति, तथा च येषाम् योजनेन प्रयोगे माधुर्यम् लाघवम् च आगच्छति, ते प्रत्ययाः 'तद्धितप्रत्ययाः' नाम्ना ज्ञायन्ते । यथा, 'गुरो भावः' इत्यस्य स्थाने 'अण्' इति तद्धितप्रत्ययस्य प्रयोगं कुर्मश्चेत् 'गौरव' इति शब्दः सिद्ध्यति । अयं शब्दः प्रयोगे 'गुरोः भावः' एतमेव अर्थम् निर्देशयति, तथा च, 'गुरोः भावः' इत्यस्य अपेक्षया प्रयोगे सुश्राव्यः अपि भासते । अनेन प्रकारेण तद्धितप्रत्ययाः प्रयोगस्य हितार्थम् प्रयुज्यन्ते । 2) अष्टाध्याय्यामस्मिन् अधिकारे आहत्य 281 प्रत्ययाः पाठिताः सन्ति । एते प्रत्ययाः भिन्नेषु अर्थेषु भिन्नेभ्यः प्रातिपदिकेभ्यः विधीयन्ते । सर्वे प्रत्ययाः सर्वेषु अर्थेषु उत सर्वेभ्यः प्रातिपदिकेभ्यः न भवन्ति एतत् स्मर्तव्यम् । 3) अस्मिन् अधिकारे उपस्थितानि सूत्राणि प्रायः द्वयोः प्रकारयोः सन्ति । प्रथमप्रकारस्य सूत्राणि 'अर्थम्' वदन्ति । यथा - <<तस्य अपत्यम्>> 4.1.92, <<तस्य निवासः>> 4.2.69 - आदयः । द्वितीयप्रकारस्य सूत्राणि 'प्रत्ययम्' वदन्ति । यथा - <<गर्गादिभ्यः यञ्>> 4.1.105, <<वृद्धात् छः>> 4.2.114 । कानिचन सूत्राणि अर्थमपि वदन्ति, प्रत्ययमपि वदन्ति । यथा - <<तदस्यां प्रहरणमिति क्रीडायां णः>> 4.2.57, <<धान्यानां भवने क्षेत्रे खञ्>> 5.2.1 आदयः । कस्यापि तद्धितान्तशब्दस्य सम्यक् निष्पत्त्यै 'सः शब्दः कस्मिन् अर्थे कस्मात् प्रातिपदिकात् कस्मिन् प्रत्यये परे निर्मितः अस्ति' अस्य ज्ञानं आवश्यकं वर्तते, तदर्थम् च द्वयोः प्रकारयोः सूत्रयोः साहाय्यम् स्वीक्रियते । 4) तद्धितप्रकरणे ये अर्थाः पाठिताः सन्ति, तेषाम् प्रामुख्येन पञ्च विभागाः क्रियन्ते, ये 'महोत्सर्गाः' नाम्ना ज्ञायन्ते । एते पञ्च महोत्सर्गाः एतादृशाः - क) प्राक्-दीव्यतीय-अर्थानाम् प्रथमः महोत्सर्गः । अस्मिन् महोत्सर्गे 44 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'अण्' प्रत्ययः विधीयते । ख) प्राक्-वहतीय-अर्थानाम् द्वितीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 36 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठक्' प्रत्ययः विधीयते । ग) प्राक्-हितीय-अर्थानाम् तृतीयः महोत्सर्गः । अस्मिन् महोत्सर्गे 31 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'यत्' प्रत्ययः विधीयते । घ) प्राक्-क्रीतीय-अर्थानाम् चतुर्थः महोत्सर्गः । अस्मिन् महोत्सर्गे 3 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'छ' प्रत्ययः विधीयते । ङ) प्राक्-वतीय-अर्थानाम् पञ्चमः महोत्सर्गः । अस्मिन् महोत्सर्गे 27 अर्थाः पाठिताः सन्ति । एतेषां सर्वेषां विषये औत्सर्गिकरूपेण 'ठञ्' प्रत्ययः विधीयते । अनेन प्रकारेण एतेषु पञ्च महोत्सर्गेषु आहत्य 141 अर्थाः उच्यन्ते । एतान् विहाय अपि अन्ये अनेके अर्थाः पञ्चमाध्यायस्य अन्तिम-त्रय-पादेषु उक्ताः सन्ति । 5) <<स्त्रियाम्>> 4.1.3 अस्मात् सूत्रात् आरब्धः स्त्र्यधिकारः इदानीमपि चलन् अस्ति । <<दैवयज्ञि..>> 4.1.81 इति यावत् <<स्त्रियाम्>> 4.1.3 अधिकारस्य व्याप्तिः अस्ति । अतः वर्तमानसूत्रात् आरभ्य <<दैवयज्ञि..>> 4.1.81 इति यावत्सु सूत्रेषु प्रोक्ताः प्रत्ययाः स्त्रीप्रत्ययाः अपि सन्ति, तद्धितसंज्ञकाः अपि सन्ति । तस्मात् अग्रे <<समर्थानाम् प्रथमात् वा>> 4.1.82 इत्यस्मात् सूत्रात् केवलं तद्धितप्रत्ययाः एव उच्यन्ते । 6) अस्मिन् सूत्रे आचार्यः 'तद्धित' शब्दस्य बहुवचनस्य प्रयोगं करोति । अस्मिन् विषये काशिकाकारः वदति - 'बहुवचनमनुक्त-तद्धित-परिग्रहार्थम्' । इत्युक्ते, केचन तद्धितप्रत्ययाः अत्र न प्रोक्ताः सन्ति (परन्तु प्रयोगे दृश्यन्ते) । तेषामपि ग्रहणं कर्तुमत्र बहुवचनस्य प्रयोगः क्रियते ।

Balamanorama

Up

<<तद्धिताः>> - तद्धिताः । वक्ष्यमाणाः प्रत्ययास्तद्धितसंज्ञकाः प्रत्येतव्या इत्यर्थः । अधिकार सूत्रमेतत् । उत्तरावधिमाह — आ पञ्चमेति ।

Padamanjari

Up

युवतिरिति । तद्धितसंज्ञायां सत्यां'कृतद्धितसमासाश्च' इति प्रातिपदिकसंज्ञा भवति । बहुवचनमित्यादि ।'प्रत्ययः' इत्यादिवदेकवचन एव कर्तव्ये बहुवचनेनसंज्ञिनां बहुत्वसूचनादनुक्तोऽपि तद्धितः परिगृह्यत इति मन्यते । स्त्रीप्रत्ययानामादितस्तद्धिताधिकारे क्रियमाणे'प्राचां ष्फ तद्धितः' इत्यत्र तद्धितग्रहणं न कर्तव्यम्,'यस्येति च' इत्यत्र चकारग्रहणम्,'ङ्याप्प्रातिपदिकात्' इत्यत्र तु तदन्तातद्धितविधानार्थं ङ्याव्ग्रहणं कर्तव्यमेव ? सत्यम्; ङीबादीनां ङ्कारस्येत्संज्ञा न स्यात्, ठतद्धितेऽ इति प्रतिषेधात् । सत्यामपि वा पट्वीत्यादौ ठोर्गुणःऽ स्यात् । तस्माद्यथान्यासमेवास्तु ॥