4-1-81 दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्यः अन्यतरस्याम् प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् तद्धिताः ष्यङ्
index: 4.1.81 sutra: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्
दैवयज्ञि शौचिवृक्षि सात्यमुग्रि काण्ठेविद्धि इत्येतेषामन्यतरस्यां ष्यङ् प्रत्ययो भवति। इञन्ता एते, गोत्रग्रहणं च न अनुवर्तते। तेन उभयत्रविभाषेयम्। गोत्रे पूर्वेण ष्यङादेशः प्राप्तो विकल्प्यते, अगोत्रे त्वनन्तरेऽपत्ये पक्षे विधीयते। तेन मुक्ते इतो मनुस्यजाते 4.1.65 इति ङीषेव भवति। दैवयज्ञ्या, दैवयज्ञी। शौचिवृक्ष्या, शौचिवृक्षी। सात्यमुग्र्या, सात्यमुग्री। काण्ठेविद्ध्या, काण्ठेविद्धी।
index: 4.1.81 sutra: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्
एभ्यश्चतुर्भ्यः ष्यङ्वा । अगोत्रार्थमिदं गोत्रेऽपि परत्वात्प्रवर्तते । पक्षे इतो मनुष्य-<{SK520}> इति ङीष् । दैवयज्ञ्या - दैवयज्ञी । इत्यादि । इति तद्धिताधिकारे अपत्याधिकारप्रकरणम् ।
index: 4.1.81 sutra: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्
दैवयज्ञिशौचिवृक्षिसात्यमुग्रि- काण्ठेविद्धिभ्योऽन्यतरस्याम् - दैवयज्ञीति । देवयज्ञस्यापत्यं स्त्रीति विग्रहे अत इञन्तात् ष्यङ्विकल्पः । इत्यादीति । शुचिवृक्षस्यापत्यं स्त्री शौचिवृक्ष्या — शौचिवृक्षी । सत्यमुग्रमस्येत्यर्थे — सत्यमुग्रः । निपातनान्मुम् । सत्यमुग्रहस्यापत्यं स्त्री सात्यमुग्रय-सात्यमुग्री । काण्डेन विद्धः काण्डेविद्धः । निपातनादेत्त्वम् । काण्डेविद्धस्यापत्यं स्त्री काण्डेविद्ध्या-काण्डेविद्धी । कण्ठेविद्धीति पाठान्तरम् । *इति बालमनोरमायामपत्याधिकारः ।***अथाऽऽर्हीयाः । — — — — —
index: 4.1.81 sutra: दैवयज्ञिशौचिवृक्षिसात्यमुग्रिकाण्ठेविद्धिभ्योऽन्यतरस्याम्
देवा यज्ञा यष्टव्या अस्य देवयज्ञः, शुचिर्वृक्षोऽस्य शुचिवृक्षः, सत्यमुग्रमस्य सत्यमुग्रः, निपातनाद्विशेष्यस्य पूर्वनिपातो मुमागमश्च, कण्ठे विद्धमस्य कण्ठे विद्धमस्य कण्ठे वा विद्धः, ठमूर्द्धमस्तकात्ऽ इत्यलुक् । काण्डेविद्भिभ्य इत्यन्ये पठन्ति, काण्डेन विद्धः,'कर्तृकरणे कृता बहुलम्' इति समासः, निपातनात्काण्डशब्दस्यैकारः । सर्वे इञन्ताः ॥