वर्णादनुदात्तात्तोपधात्तो नः

4-1-39 वर्णात् अनुदात्तात् तोपधात् तः नः प्रत्ययः परः च आद्युदात्तः च स्त्रियाम् अनुपसर्जनात् वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

यस्य वर्णवाचकशब्दस्य अन्तिमः स्वरः अनुदात्तः अकारः अस्ति; तथा च यस्य उपधायाम् तकारः विद्यते, तस्मात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रक्रियायां च उपधातकारस्य नकारादेशः अपि भवति ।

Kashika

Up

वेति वर्तते। वर्णवाचिनः प्रातिपदिकादनुदात्तान्तात् तकारोपधाद् वा ङीप् प्रत्ययो भवति, तकारस्य नकारादेशो भवति। एनी॑, एता॑। श्येनी॑, श्येता॑। हरि॑णी, हरि॑ता। सर्व एत आद्युदात्ताः, <<वर्णानां तणतिनितान्तानाम्>> (फि० सू० २.१०) इति वचनात्। वर्णादिति किम्? प्रकृ॑ता। प्ररु॑ता। गतिस्वरेणाद्युदात्तः। अनुदात्तादिति किम्? श्वे॒ता। घृतादित्वात्(फि०सू०१.२१) अन्तोदात्तः। तोपधादिति किम्? अन्यतो ङीषं वक्ष्यति। अत इत्येव — शितिर्ब्राह्मणी॥ पिशङ्गादुपसंख्यानम्॥ पिशङ्गी॥ असितपलितयोः प्रतिषेधः॥ असिता। पलिता॥ छन्दसि क्नमित्येके॥ असि॑क्नी (शौ०सं० १.२३.१)। पलि॑क्नी (ऋ० ५.२.४)। भाषायामपीष्यते। गतो गणस्तूर्णमसिक्निकानाम्॥

Siddhanta Kaumudi

Up

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् स्यात्तकारस्य नकारादेशश्च । एनी । एता । रोहिणी । रोहिता । वर्णानां तणतिनितान्तानाम् (फि <{SK33}>) इति फिट्सूत्रेणाद्युदात्तः । त्र्येण्या च शलल्येति गृह्यसूत्रम् । त्रीण्येतानि यस्या इति बहुव्राहिः । अनुदात्तात् किम् ? श्वेता । घृतादीनां च (फि <{SK21}>) इत्यन्तोदात्तोऽयम् । अत इत्येव । शितिः स्त्री ॥<!पिशङ्गादुपसङ्ख्यानम् !> (वार्तिकम्) ॥ पिशङ्गी । पिशङ्गा ॥<!असितपलितयोर्न !> (वार्तिकम्) ॥ असिता । पलिता ॥<!छन्दसि क्नमेके !> (वार्तिकम्) ॥ असिक्नी । पलिक्नी । अवदातशब्दस्तु न वर्णवाची किंतु विशुद्धवाची । तेन अवदाता इत्येव ॥

Laghu Siddhanta Kaumudi

Up

वर्णवाची योऽनुदात्तान्तस्तोपधस्तदन्तादनुपसर्जनात्प्रातिपदिकाद्वा ङीप् तकारस्य नकारादेशश्च। एनी, एता। रोहिणी, रोहिता॥

Neelesh Sanskrit Detailed

Up

विशिष्टेभ्यः वर्णवाचकशब्देभ्यः स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं क्रियते । यस्य वर्णवाचकशब्दस्य अन्तिमम् अक्षरम् इति अस्ति; तथा च तत्र विद्यमानः अकारः अनुदात्तः अपि अस्ति; तादृशात् वर्णवाचकशब्दात् स्त्रीत्वं द्योतयितुम् ङीप्-प्रत्ययः विकल्पेन भवति; प्रत्ययसन्नियोगेन च वर्णवाचकशब्दस्य उपधा-तकारस्य नकारादेशः अपि जायते — इति प्रकृतसूत्रस्य आशयः । 'त' इति अक्षरम् येषां वर्णवाचकशब्दानाम् अन्ते विद्यते; ते शब्दाः <<वर्णानां तणतिनितान्तानाम्>> (2.10) इति फिट्-सूत्रेण आद्युदात्ताः भवन्ति । इत्युक्ते, एतेषु विद्यमानः प्रथमः स्वरः उदात्तः जायते; तथा च सति <<अनुदात्तं पदमेकवर्जम्>> 6.1.158 इत्यनेन अन्ये सर्वे स्वराः अनुदात्तसंज्ञकाः भवन्ति । एतादृशानां शब्दानां विषये स्त्रीत्वं द्योतयितिुम् प्रकृतसूत्रेण ङीप्-प्रत्ययस्य वैकल्पिकं विधानं भवति; प्रक्रियायां च तकारस्य नकारादेशः अपि भवति । यथा — 1. हरित + ङीप् → हरिणी । पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते हरिता इत्यपि सिद्ध्यति । 2. एत (शुक्लवर्णः) + ङीप् → एणी । पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते एता इत्यपि सिद्ध्यति । 3. श्येत (शुक्लवर्णः) + ङीप् → श्येणी । पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते श्येता इत्यपि सिद्ध्यति । 4. रोहित (रक्तवर्णः) + ङीप् → रोहिणी । पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते रोहिता इत्यपि सिद्ध्यति । 5. लोहित (रक्तवर्णः) + ङीप् → लोहिनी । पक्षे <<अजाद्यतष्टाप्>> 4.1.4 इति टाप्-प्रत्यये कृते लोहिता इत्यपि सिद्ध्यति । अमरकोशे अवदात इति शब्दः शुक्लवर्णः इत्यस्मिन् अर्थे दत्तः अस्ति । वस्तुतस्तु; <<दैप्>> (शोधने) अस्माद् धातोः क्त-प्रत्यये कृते अयं शब्दः सिद्ध्यति; अतः अयं शब्दः वर्णवाची नास्ति अपितु 'विशुद्धम्' (polished / spotless / clean / purified / pure) इत्यस्मिन् अर्थे प्रयुज्यते । केवलम् अर्थसाधर्म्याद् एव अयं शब्दः कोशे शुक्लशब्दस्य पर्यायरूपेण दत्तः अस्ति । अतः अस्य शब्दस्य विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च स्त्रीत्वं द्योतयितुम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्यये कृते अवदाता इत्येव शब्दः सिद्ध्यति । दलकृत्यम् 1. 'वर्णवाचकशब्दात्' इति किमर्थम् ? प्रकृत, प्ररुत इत्यादिषु शब्देषु अन्तिमः स्वरः अनुदात्तः अस्ति, तथा च उपधायाम् तकारः अपि विद्यते । परन्तु एतौ वर्णवाचकशब्दौ न, अतः एतयोः विषये प्रकृतसूत्रस्य प्रसक्तिः नास्ति । एताभ्याम् स्त्रीत्वं द्योतयितुम् टाप्-प्रत्ययः एव भवति । प्रकृत + टाप् → प्रकृता । प्ररुत + टाप् → प्ररुता । 2. 'अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ? शिति इति शुक्लवर्णवाचकशब्दस्य अन्ते अनुदात्तः स्वरः अस्ति परन्तु सः अकारः नास्ति । अतः अस्मात् स्त्रीत्वं द्योतयितुम् प्रकृतसूत्रस्य प्रयोगः नैव भवति । शिति इति शब्दः तादृशः एव स्त्रीलिङ्गे अपि प्रयुज्यते । 3. 'अनुदात्त-अदन्तवर्णवाचकशब्दात्' इति किमर्थम् ? श्वेत, पीत, रक्त — एतादृशेषु शब्देषु अन्ते विद्यमानः अकारः <<घृतादीनां च>> (2.10) इति फिट्-सूत्रेण उदात्तः भवति । अतः एतेषां विषये प्रकृतसूत्रं नैव प्रवर्तते; अतश्च एतेभ्यः स्त्रीत्वं द्योतयितुम् टाप्-प्रत्यये कृते श्वेता, पीता, रक्ता इति शब्दाः सिद्ध्यन्ति । वार्त्तिकद्वयम् <!1. पिशङ्गादुपसङ्ख्यानम् !> पिशङ्ग इति कपिलवर्णवाचकः शब्दः । अयं तकारोपधः अपि नास्ति; अनुदात्तान्तः अपि नास्ति (अयं शब्दः मध्योदात्तः अस्ति; अतश्च अस्य अन्तिमः स्वरः स्वरितसंज्ञकः अस्ति) । अतः अस्य शब्दस्य विषये वस्तुतः प्रकृतसूत्रं नैव प्रवर्तते; अपि तु <<अन्यतो ङीष्>> 4.1.40 इत्यनेन ङीष्-प्रत्ययस्य प्राप्तिः अस्ति । परन्तु तां विकल्पेन बाधित्वा अस्य शब्दस्य विषये प्रकृतसूत्रेण ङीप्-प्रत्ययः अपि भवति — इति अस्य वार्त्तिकस्य आशयः । अतः पिशङ्ग + ङीप् → पिशङ्गी इति सिद्ध्यति । अस्मिन् शब्दे तकारः नास्ति अतः तत्र तकारस्य नकारादेशः अपि नैव सम्भवति; परन्तु ङीप्-प्रत्ययः अवश्यं सम्भवति इति विशेषः । पक्षे <<अन्यतो ङीष्>> 4.1.40 इत्यनेन ङीष्-प्रत्यये कृते पिशङ्ग + ङीष् → पिशङ्गी इति शब्दः अपि सिद्ध्यति । ङीप्-प्रत्ययस्य; ङीष्-प्रत्ययस्य च योजनेन यद्यपि समानौ एव शब्दौ सिद्ध्यतः; तथापि ङीप्-प्रत्ययस्य ईकारः अनुदात्तः अस्ति; ङीष्-प्रत्ययस्य ईकारः तु उदात्तः अस्ति — अतः तयोः उच्चारणे स्वरभेदः अवश्यं विद्यते । <!2. असितपलितयोः प्रतिषेधः; तयोश्चछन्दसि क्नमित्येके !> असित (कृष्णवर्णः), तथा च पलित (जरया प्राप्तः शुक्लवर्णः , white color of hairs, caused due to old age) एतौ शब्दौ वर्णवाचकौ, तकारोपधौ, अकारान्तौ, अनुदात्तान्तौ च स्तः अतः एतयोः विषये प्रकृतसूत्रेण ङीप्-प्रत्यये; तकारस्य नकारादेशे च प्राप्ते अनेन वार्त्तिकेन सः निषिध्यते । अतः एताभ्यां शब्दाभ्याम् केवलम् <<अजाद्यतष्टाप्>> 4.1.4 इत्यनेन टाप्-प्रत्ययः भवति येन असिता, पलिता इति शब्दौ सिद्ध्यतः । केचन पण्डिताः तु वैदिकसन्दर्भे तकारस्य क्न इति आदेशं कृत्वा ततः <<अन्यतो ङीष्>> 4.1.40 इति ङीष्-प्रत्ययविधानम् अपि कुर्वन्ति; येन असित + ङीष् → असिक्नी तथा च पलित + ङीष् → पलिक्नी इति शब्दौ सिद्ध्यतः । एतयोः प्रयोगः वेदेषु कृतः अस्ति । यथा असिक्नी इति शब्दः ऋग्वेदे 7.5.3 इत्यत्र आयन्नसिक्नीरसमना जहतीर्भोजनानि इति प्रयुक्तः दृश्यते । एवमेव पलिक्नी इति शब्दः ऋग्वेदे 5.2.4 इत्यत्र पलिक्नीरिद्युवतयो भवन्ति इति प्रयुक्तः अस्ति । क्न-आदेशस्य विषये काशिकाकारेण <!भाषायामपीष्यते!> इति किञ्चन वाक्यम् पाठितम् अस्ति । परन्तु इदं वाक्यं भाष्ये न दृश्यते; अतः कैयटेन अस्य वाक्यस्य खण्डनम् एव कृतम् अस्ति ।

Balamanorama

Up

<<वर्णादनुदात्तात्तोपधात्तो नः>> - वर्णादनु । वेति ङीबिति चानुवर्तते । अनुदात्तादिति वर्णादित्यस्य विशेषणं, तदन्तविधिः तोपदादित्यपि वर्णादित्यत्रान्वेति, तकार उपधा यस्येति विग्रहः । तकारादकार उच्चारणार्थः ।वर्णा॑दित्यस्यस्वं रूपं शब्दस्ये॑ति वर्णशब्दादिति नार्थः, तोपधत्वाऽसंभवात् । किं तु वर्णवाचिनः शब्दादित्यर्थो विवक्षितः । वर्णादित्येतत्प्रातिपदिकादित्यस्य विशेषणम्, तदन्तविधिः । 'त' इति षष्ठी, तकारस्येत्यर्थः । 'न' इत्यत्र नकारादकार उच्चारणार्थः । नकार इत्यर्थः । तदाह — वर्णवाचीत्यादिना । तदन्तादनुपसर्जनादिति । अनुपसर्जनादित्यनुवृत्तं वर्णान्तेऽन्वेति, नतु वर्णादित्यत्रेति भावः । एनी एतेति । ओतेत्यर्थः । एतशब्दान्ङीप्, तकारस्य नकारश्च । ङीबभावे टाबेव । नत्वं तु न भवति, ङीपा संनियोगशिष्टत्वात् । एतशब्दः ओतपर्याय इति कल्पसूत्रव्याख्यातारो धूर्तस्वामिभवस्वामिरूद्रदत्तभृतयो याज्ञिकाः । रोहिणी रोहितेति । रोहितशब्दो रक्तवर्णपर्यायः । ङीपि णत्वे-रोहिणीति । तदभावे टाप् । अनुदात्तान्तत्वं गमयितुमाह — वर्णानामिति । तान्तेत्यत्र तकारादकार उच्चारणार्थः । त, ण, ति, नि, त् इत्यन्तानां आदिरुदात्त इत्यर्थः । एतः, शोण, श#इतिः , पृश्निः, पृषत् इति क्मेणोदाहरणानि । प्रकृते एतशब्दे एकारस्य, रोहितशब्दे ओकारस्य चोदात्तत्वेअनुदात्तं पदमेकवर्जम् इति शिष्टस्वरेण अवशिष्टानामनुदात्तत्वादन्तानुदात्तत्वमित्यर्थः । ननुअनुपसर्जना॑दित्यनुवृत्तस्य श्रुतवर्णविशेषणत्वमेव युक्तं, नतु तदन्तविधिलभ्यवर्णान्तविशेषणत्वमित्यत आह — त्र्येण्येति । त्रीणि एतानि ओतानि अवयवसंस्थानानि यस्या इति बहुव्रीहौ त्र्येतशब्दः । तत्र एतशब्दस्य वर्णवाचिन उपसर्जनत्वान्ङीब्नत्वे न स्याताम् । अनुपसर्जनादित्यस्य वर्णान्तविशेषणत्वे तु त्र्येतशब्दस्यानुपसर्जनत्वान्न दोष इति भावः । शलल्येति । शल्यकाख्यामृगविशेषस्य अङ्गरुहा सूची शललीति याज्ञिकप्रसिद्धिः । गृह्रमिति । गृह्यन्ते संगृह्यन्ते औपासनाग्निसाध्यकर्णाण्यत्रेति व्युत्पत्त्या आपस्तम्बाआलायनादिप्रणीतकल्पसूत्रविशेष उच्यते । त्र्येण्येति णत्वनमार्षम् । यजुर्वेदे तुत्रि एण्या शलल्या निवर्तयेते॑ति पठितम् । तत्र त्रीणि एतानि ओतानि यस्या इति विग्रहः । यणभावो णत्वं च आर्षमिति वेदभाष्ये भट्टभास्करः । ननु 'वर्णानां तणति' इति ओतशब्दस्याद्युदात्तत्वाच्छिष्टस्वरेणानुदात्तान्तत्वमेवेत्यत आह — घृतादीनाभिति । अत इत्येवेति ।अजाद्यतष्टा॑वित्यस्मादत इत्यनुवर्तते एवेत्यर्थः । शितिः स्त्रीति । 'शिती धवलमेचक्तौ' इत्यमरः । पिशङ्गीति । 'लघावन्ते' इति पिशङ्गशब्दस्य मध्योदात्ततया शिष्टस्वरेणानुदात्तान्तत्वेऽपि तोपधत्वाभावादप्राप्तो ङीबुपसङ्ख्यायते ।अन्यतो ङी॑षिति वक्ष्यमाणङीषोऽपवादः । स्वरे विशेषः ।असितेति । वार्तिकमेतत् । असितशब्दस्य कृष्णवाचकतया पलितशब्दस्य स्वेतवाचकतया चवर्णादनुदात्ता॑दिति प्राप्ते ङीब्नत्वे निषिध्येते । छन्दसि क्नमेके इति । इदमपि वार्तिकम् । असितपलितयोस्तकारस्य ङीप्संनियोगेन क्नादेशमन्ये आचार्या इच्छन्तीत्यर्थः । असिक्नीति । असितशब्दान्ङीप्, तकारस्य क्नादेशे पररूपेयस्येति चे॑त्यकारलोपः । क्न् इति नकारान्त एवादेश इत्यन्ये । एवं पलिक्नीत्यपि ।पलितं जरसा शौक्ल्य॑मित्यमरः । ननु 'अवदातः सितो गौरः' इति कोशादवदातशब्दस्य वर्णवाचित्वा॒ल्लघावन्ते॑ इति मध्योदात्ततयाऽनुदात्तान्तत्वात्तोपधत्वाच्चवर्णादनुदात्ता॑दिति ङीब्नत्वे स्यातामित्यत आह — अवदातशब्दस्त्विति ।अवदातः सिते पीते शुद्धे॑ इति कोशात् 'दैप् शोधने' इत्यस्मात्तप्रत्ययेऽवदातशब्दस्य व्युत्पत्तेश्चेति भावः । एतच्चपुंयोगादाख्याया॑मिति सूत्रे भाष्ये स्पष्टम् । 'अवदातः सितो गौरः' इति कोशस्तु शुद्धत्वसाधम्र्याद्बोध्यः ।

Padamanjari

Up