8-3-46 अतः कृकमिकंसकुम्भपात्रकुशाकर्णीषु अनव्ययस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् कुप्वोः सः षः समासे अनुत्तरपदस्थस्य
अतः अनव्ययस्य विसर्जनीयस्य समासे कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णीषु सः, अनुत्तरपदस्थस्य
समासस्य विषये - अकारात् परस्य अव्ययभिन्नस्य विसर्गस्य कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी - एतेषु परेषु नित्यम् सकारादेशः भवति । परन्तु पूर्वपदम् स्वयम् कश्चन समासः अस्ति चेत् अयम् सकारादेशः निषिध्यते ।
While doing a समास, if all the following conditions are met - 1. the पूर्वपद ends in a विसर्ग that follows an अकार, 2. the उत्तरपद is either a form of the verb 'कृ', or a form of the verb 'कमि' or is one of these words - कंस/कुम्भ/पात्र/कुशा/कर्णी 3. पू्र्वपद is not an अव्यय 4. पू्र्वपद is not a समास - then the विसर्ग of the पूर्वपद is converted to सकार.
अकारादुत्तरस्यानव्ययविसर्जनीयस्य समासेऽनुत्तरपदस्थस्य नित्यं सकारादेशो भवति कृ कमि कंस कुम्भ पात्र कुशा कर्णी इत्येतेषु परतः। कृ — अयस्कारः। पयस्कारः। कमि — अयस्कामः। पयस्कामः। कंस — अयस्कंसः। पयस्कंसः। कुम्भ — अयस्कुम्भः। पयस्कुम्भः। अयस्कुम्भी, पयस्कुम्भीत्यत्रापि भवति, <<प्रातिपदिकग्रहणे लिङ्गविशिष्टस्यापि ग्रहणं भवति>> इति। पात्र — अयस्पात्रम्। पयस्पात्रम्। अयस्पात्री। पयस्पात्री। कुशा — अयस्कुशा। पयस्कुशा। कर्णी — अयस्कर्णी। पयस्कर्णी। शुनस्कर्ण इत्ययं तु कस्कादिषु ८.३.४८ द्रष्टव्यः। अत इति किम् ? गीःकारः। धूःकारः। तपरकरणं किम्? भाःकरणम्। भास्कर इत्ययं तु कस्कादिषु ८.३.४८ द्रष्टव्यः। अनव्ययस्येति किम्? श्वःकारः। पुनःकारः। समास इत्येव — यशः करोति। पयः करोति। यशः कामयते। अनुत्तरपदस्थस्येत्येव — परमपयःकारः। परमपयःकामः॥
अकारादुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सकारादेशः स्यात्करोत्यादिषु परेषु न तूत्तरपदस्थस्य । अयस्कारः । अयस्कामः । अयस्कंसः । अयस्कुम्भः । अयस्पात्रम् । अयःसहिता कुशा अयस्कुशा । अयस्कर्णी । अतः किम् । गीःकारः । अनव्ययस्य किम् । स्वःकामः । समासे किम् । यशःकरोति । अनुत्तरपदस्थस्य किम् । परमयशःकारः ॥
आदुत्तरस्यानव्ययस्य विसर्गस्य समासे नित्यं सादेशः करोत्यादिषु परेषु। यशस्करी विद्या। श्राद्धकरः। वचनकरः॥
यदि कस्मिंश्चित् अव्यवभिन्ने शब्दे अकारात् परः पदान्ते विसर्गः अस्ति, तर्हि - कृ/कमि/कंस/कुम्भ/पात्र/कुशा/कर्णी एतेषु परेषु समासे कृते अस्य विसर्गस्य सकारादेशः भवति । परन्तु यदि सः विसर्गान्तः शब्दः स्वयम् समस्तपदमस्ति, तर्हि अयम् सकारादेशः न भवति । उदाहरणानि अधः दत्तानि सन्ति । एतेषु उदाहरणेषु 'अयस्' इति अव्ययभिन्नम् पूर्वपदम् स्वीकृत्य उपरिनिर्दिष्टैः शब्दैः समासः कृतः अस्ति । अयस् इत्युक्ते 'लोह' । 1. 'कृ' इत्यनेन कृ-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कारः = अयस्कारः (लोहनिर्माता इत्यर्थः) 2. 'कमिँ' इत्यनेन कम्-धातोः किमपि कृदन्तरूपम् स्वीक्रियते । यथा - अयः + कामः = अयस्कामः (लोहचुम्बकम्) । 3. 'कंस' शब्दः = अयः + कंसः = अयस्कंसः (लोहपात्रम्) । 4. 'कुम्भ' शब्दः = अयः + कुम्भः = अयस्कुम्भः (लोहपात्रम्) । 5. 'कुशा' शब्दः = अयः + कुशा = अयस्कुशा (लोहदण्डिका ) । 6. 'कर्णी' शब्दः = अयः + कर्णी = अयस्कर्णी (लोहदण्डिका) । अनेनैव प्रकारेण पयस्कारः, तमस्कान्तः यशस्करमादीनि रूपाणि अपि सिद्ध्यन्ति । परन्तु यदि पूर्वपदम् स्वयम् समस्तपदमस्ति तर्हि अनेन सूत्रेण सत्वम् निषिध्यते । यथा - परमयशः + कारः = परमयशःकारः, परमयश≍कारः । ज्ञातव्यम् - 1. 'कृ' तथा 'कमिँ' एतयोः निर्देशेन तेषाम् कृदन्तरूपस्यैव ग्रहणं भवति, यतः <<सह सुपा>> 2.1.4 इत्यनेन केवलं सुबन्तानामेव समासे प्रयोगः भवति, तिङन्तानाम् न । 2. अस्मिन् सूत्रे 'अतः' इति तपरकरणम् कृतमस्ति । अतः आकारान्तात् परस्य विसर्गस्य अनेन सूत्रेण षत्वम् न भवति । यथा - भाः + करणम् = भाःकरणम्, भा≍करणम् । अत्र <<कुप्वोः≍क≍पौ च>> 8.3.37 इत्यनेन वैकल्पिकः जिह्वामूलीयः भवति । 3. यदि पूर्वपदमव्ययमस्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - श्वः + कारः = श्वःकारः, श्व≍कारः । 4. यदि समासः नास्ति चेत् अनेन सूत्रेण सकारादेशः न भवति । यथा - पयः करोति = पयःकरोति, पय≍करोति । 5. 'कस्कादिगण' नाम कश्चन गणः गणपाठे दत्तः अस्ति । अस्मिन् गणे आचार्यः तेषाम् शब्दानाम् निपातनम् करोति येषु विसर्गस्य सकारः / षकारः कर्तव्यः, परन्तु तदर्थमष्टाध्याय्याम् किमपि सूत्रम् नास्ति । 'अयस्कान्तः' अयम् शब्दः अस्मिन् गणे निर्दिष्टः अस्ति । वस्तुतः वर्तमानसूत्रेण अयः + कान्त' इत्यत्र समासे कृते सत्वम् विधीयते एव । परन्तु अयं शब्दः कस्कादिगणे अस्ति, अतः अस्य शब्दस्य विषये 'सर्वदा' सत्वम् भवतीति ज्ञातव्यम् । इत्युक्ते - समासः भवेत् वा न भवेत् ; पूर्वपदम् स्वयं समस्तपदम् स्यात् वा न स्यात् - सर्वासु स्थितिषु अस्य शब्दस्य विषये षत्वम् भवति इत्यर्थः ।
कृ, कमीति धातुग्रहणम् । इतरेषां स्वरूपग्रहणम् । अयस्कार इति ।'कर्मण्यण्' । अयस्काम इति ।'शीलिकामि' इत्यादिना णप्रत्ययः, अयस्कंसादयः षष्ठीसमासाः । कंसग्रहणमनर्थकम्, कमिग्रहणेनैव सिद्धत्वात्, कंसशब्दो हि'वृतृवदिहनिकमिभ्यः सः' इति कमेरेव व्युत्पाद्यते ? ज्ञापनार्थं तु, एतत् ज्ञापयति - उणादिषु नावश्यं व्युत्पत्तिकार्यं भवतीति । अयस्कुम्भीति । कुम्भशब्दाज्जातिलक्षणो ङीष् । अयस्पात्रीति । पात्रशब्दः ष्ट्रन्प्रत्ययान्तः, षित्वान्ङीष् । अयस्कुशेति । नात्रायोविकारो विवक्षितः, तेन'जानपद' इति सूत्रेण ङीष् न भवति । अयस्कर्णीति । अय इव कर्णी यस्याः सा अयस्कर्णी,'नासिकोदर' इत्यादिना ङीष् । शुनस्कर्ण इत्ययं त्विति । सूत्रे त्वीकारान्तस्य कर्णीशब्दस्य निर्देशादत्राप्रसङ्गः । भाः करणमिति । षष्ठीसमासः । भास्कर इत्ययं त्विति ।'दिवाविभा' इत्यादिना टप्रत्ययः । जयादित्यस्तु तस्मिन्सूत्रेऽवोचद् -'भास्करान्तेति प्रत्ययसन्नियोगेन सत्वं निपात्यते' इति । श्वः कारः, पुनः काम इति । धञन्तेन मयूरव्यंसकादित्वात् समासः ॥