कुत्सिते

5-3-74 कुत्सिते प्रत्ययः परः च आद्युदात्तः च तद्धिताः कः

Sampurna sutra

Up

index: 5.3.74 sutra: कुत्सिते


कुत्सिते प्रातिपदिकात् तिङः च कः

Neelesh Sanskrit Brief

Up

index: 5.3.74 sutra: कुत्सिते


'कुत्सितः' इत्यस्य विशेषणरूपेण विहितात् प्रातिपदिकात् तिङन्तात् च स्वार्थे क-प्रत्ययः तस्य अपवादः वा विधीयते ।

Kashika

Up

index: 5.3.74 sutra: कुत्सिते


कुत्सितो गर्हितो, निन्दितः। प्रकृत्यर्थविशेषणं च एतत्। कुत्सितस्वोपाधिकेऽर्थे वर्तमानात् प्रातिपदिकात् स्वार्थे यथाविहितं प्रत्ययो भवति। कुत्सितोऽश्वः अश्वकः। उष्ट्रकः। गर्दभकः। उच्चकैः। नीचकैः। सर्वके। विश्वके। पचतकि। जल्पतकि।

Siddhanta Kaumudi

Up

index: 5.3.74 sutra: कुत्सिते


कुत्सितोऽश्वोऽश्वकः ॥

Laghu Siddhanta Kaumudi

Up

index: 5.3.74 sutra: कुत्सिते


कुत्सितोऽश्वोऽश्वकः॥

Neelesh Sanskrit Detailed

Up

index: 5.3.74 sutra: कुत्सिते


'कुत्सितः' (निन्दितः / bad / spoiled / inappropriate ) इत्यनेन यस्य पदार्थस्य निर्देशः भवति, तस्मात् प्रातिपदिकात् स्वार्थे 'क' इति प्रत्ययः (उत तस्य अपवादः) विधीयते । यथा -

  1. कुत्सितः अश्वः = अश्व + क → अश्वकः । कार्ये असमीचीनः यः अश्वः (a horse that is useless for work) तस्य निर्देशार्थम् 'अश्वक' शब्दः प्रयुज्यते ।

  2. कुत्सितः गर्दभः = गर्दभ + क → गर्दभक ।

  3. कुत्सितः उष्ट्रः = उष्ट्र + क → उष्ट्रक ।

अव्ययानाम्, सर्वनामशब्दानाम्, तथा च तिङन्तानाम् विषये अपि अस्य सूत्रस्य प्रसक्तिः विद्यते, परन्तु एतेभ्यः परस्य क-प्रत्ययस्य अपवादरूपेण अव्ययसर्वनाम्नामकच् प्राक् टेः 5.3.71 इति अकच्-प्रत्ययः विधीयते, सः च अङ्गस्य टि-संज्ञकात् पूर्वमागच्छति । उदाहरणानि एतानि -

  1. कुत्सितः उच्चैः (inappropriate height) = उच्च् + अकच् + ऐस् → उच्चकैः ।

  2. कुत्सितः शनैः (inappropriate slow speed) = शन् + अकच् + ऐस् → शनकैः ।

  3. कुत्सिताः सर्वे (inappropriate all) = सर्व् + अकच् + जस् → सर्वके ।

  4. कुत्सितम् पचति (someone cooks something inappropriate) = पचतकि । अयम् शब्दः क्रियापदरूपेणैव प्रयुज्यते । यथा - 'रामः पचतकि' । 'रामः कुत्सितम् पचति' इत्याशयः ।

ज्ञातव्यम् - अज्ञाते 5.3.73 इत्यनेन सूत्रेण 'अज्ञातः' अस्मिन् अर्थेऽपि एते एव सर्वे शब्दाः सिद्ध्यन्ति । अतः सन्दर्भं दृष्ट्वैव अर्थस्य निर्णयः कर्तव्यः ।

Padamanjari

Up

index: 5.3.74 sutra: कुत्सिते


प्रकृत्यर्थविशेषणं चैतदिति। प्रकृत्यर्थस्यैतद्विशेषणम्, न तूपलक्षणमित्यर्थः। उपलक्षणत्वे हि यः कुत्सितस्तत्र वर्तमानादिति विज्ञायमाने इदं घृतकम्, इदं तैलकमित्यत्रेदंशब्दादपि प्राप्नोति। विशेषणत्वे त्वङ्गीकृतकुत्सात्प्रत्ययः, न त्वनुपातकुत्सात्; कुत्सिसमानाधिकरणात्। प्रत्ययार्थत्वे तु'प्रकृतिप्रत्ययौ प्रत्ययार्थं सह ब्रूतस्तयोः प्रत्ययार्थः प्रधानम्' इति प्रकृत्यर्थस्य विशेषषणत्वं कुत्सितस्य विशेष्यत्वं प्राप्नोति, विपर्ययश्च लोके गम्यते। तस्मात्प्रकृत्यर्थविशेषणमिति सुष्ठूअक्तम्। अश्वक इति। योऽश्व एव सन् तत्साध्यां क्रियां सुष्ठुअ न करोति स एवमुच्यते। स्वार्थिकेपु हि यत्र प्रवृत्तिनिमितस्य विशेषणासम्भवः, तत्राभिधेयसहचरितधर्मान्तराश्रयः प्रत्ययो भवतीत्युक्तम्। एवं च देवदतकः, डित्थक इत्यपि भवति यस्तत्साध्यामर्थं सम्यङ् नानुतिष्टति। सम्भवे त्विहापि शब्दोपातमर्माश्रयैव कुत्सा, तद्यथा - पटुअकः पण्डितक इति स्वार्थे कुत्सा;'प्राप्य गाण्कडीवधन्वानं विद्धि कौरवकान् स्त्रियः' इति लिङ्गकुत्सा, कौरवकानिति किमेतेऽर्जुनसंनिधौ पुमांस इत्यर्थः; क्वचित्सङ्खयाकुत्सा, यथा - इदमेकमेव शनकमिति, शनभरणे यद्दुःखं तदेकस्यैव भरण इति शतत्वरूपेण कुत्सा। सर्वथाङ्गीकृतकुत्सात्प्रत्यय। अथेह कथं प्रत्ययः - कुत्सितक इति ? कथञ्च न स्यात् ? स्वशब्देनोपातत्वात् कुत्सायाः ? अनुकम्पादावर्थान्तरे भविप्यति। अथ वा - कुत्सितस्य यत्कुत्सनं तत्र प्रत्ययः। कुत्सितत्वं यदा कुत्स्यते - नास्य सम्यक्कुत्सितत्वमिति, तदेत्यर्थः। यथा - प्रकर्पस्य प्रकर्पे प्रकृष्टतम इति तमप्प्रत्ययो भवति तद्वदत्रापि। एतेनानुकम्पितशब्दादनुकम्पायां प्रत्ययो व्याख्यातः ॥