3-4-107 सुट् तिथोः प्रत्ययः परः च आद्युदात्तः च धातोः लस्य लिङः
लिङः तिथोः सुट्
लिङ्लकारस्य प्रत्ययेषु उपस्थितस्य तकारस्य थकारस्य च सुट्-आगमः भवति ।
In case of लिङ्लकार, the तकार and थकार present in the प्रत्ययाः get the 'सुट्' आगम.
लिङ इत्येव। लिङ्संबन्धिनोस्तकारथकारयोः सुडागमो भवति। तकारथकारावागमिनौ, लिङ् तद्विशेषणम्। सीयुटस्तु लिङेवागमी। तेन भिन्नविषयत्वात् सुटा बाधनं न भवति। तकार इकार उच्चारणार्थः। कृषीष्ट, कृषीयास्ताम्। कृषीष्ठाः, कृषीयास्थाम्॥
लिङस्तकारथकारयोः सुट् स्यात् । सुटा यासुट् न बाध्यते । लिङो यासुट् तकारथकारयोः सुडिति विषयभेदात् ॥
लिङस्तथोः सुट्। यलोपः। आर्धधातुकत्वात्सलोपो न। एधिषीष्ट। एधिषीयास्ताम्। एधिषीरन्। एधिषीष्ठाः। एधिषीयास्थाम्। एधिषीध्वम्। एधिषीय। एधिषीवहि। एधिषीमहि। ऐधिष्ट। ऐधिषाताम्॥
लिङ्लकारस्य परस्मैपदस्य आत्मनेपदस्य च प्रत्ययेषु यः तकारः / थकारः दृश्यते, तस्य अनेन सूत्रेण सुट्-आगमः भवति । अतः अस्य सूत्रस्य प्रसक्तिः - तिप् तस्, थस्, थ, त, आताम्, थास्, आथाम् एतेषां विषये अस्ति । परस्मैपदस्य प्रत्ययानां विषये <<यासुट् परस्मैपदेषूदात्तो ङिच्च>> 3.4.103 इत्यनेन यासुट्-आगमः अपि विधीयते । अतः परस्मैपदस्य तिप्/तस्/थस्/थ - एतेषां विषये द्वौ आगमौ दृश्येते - 'यासुट्' तथा 'सुट्' । एतयोः यासुट्-आगमः सुट्-आगमात् पूर्वमागच्छति । तथैव, आत्मनेपदस्य प्रत्ययानां विषये <<लिङस्सीयुट्>> 3.4.102 इत्यनेन सीयुट्-आगमः अपि विधीयते । अतः आत्मनेपदस्य त, आताम्, थास्, आथाम् एतेषां विषये अपि द्वौ आगमौ दृश्येते - 'सीयुट्', तथा 'सुट्' । एतयोः सीयुट्-आगमः सुट्-आगमात् पूर्वमागच्छति । एतत् स्मर्तव्यम् यत् अयमागमः 'प्रत्ययस्य' आगमः नास्ति, केवलं प्रत्ययस्थतकारथकारयोः आगमः अस्ति । अतः टित्वात् <<आद्यन्तौ टकितौ>> 1.1.46 इत्यनेन अयम् तकारात् / थकारात् पूर्वमागच्छति, प्रत्ययात् पूर्वम् न । उदाहरणानि अधः दत्तानि सन्ति । प्रक्रियायामत्र केवलं मुख्यानि सोपानानि दर्शितानि सन्ति, सम्पूर्णा प्रक्रिया न दर्श्यते इति ज्ञातव्यम् । (अ) विधिलिङ्लकारस्य परस्मैपदस्य उदाहरणानि - 1) पठ् + शप् + यासुट् + सुट् + तिप् [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → पठ् + अ + यास् + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → पठ् + अ + इय् + त् [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः । <<अतो येयः>> 7.2.80 इति या-इत्यस्य इय्-आदेशः] → पठेत् [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः, <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] → पठेत् 2) पठ् + शप् + यासुट् + सुट् + तस् / थस् / थ [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → पठ् + अ + यास् + स् + ताम् / तम् / त [<<तस्थस्थमिपां तान्तन्तामः>> 3.4.101 → पठ् + अ + इय् + ताम् / तम् / त [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः । <<अतो येयः>> 7.2.80 इति या-इत्यस्य इय्-आदेशः] → पठेताम् / पठेतम् / पठेत [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः, <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] (आ) विधिलिङ्लकारस्य आत्मनेपदस्य उदाहरणानि - 1) लभ् + शप् + सीयुट् + सुट् + त [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → लभ् + अ + ईय् + त [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → लभेत [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः, <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 2) लभ् + शप् + सीयुट् + आताम् / आथाम् → लभ् + अ + सीय् + आ स् ताम् / आ स् थाम् [<<सुट् तिथोः>> 3.4.107 इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।] → लभ् + अ + ईय् + आताम् / आथाम् [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → लभेयाताम् / लभेयाथाम् [ <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः] 3) लभ् + शप् + सीयुट् + सुट् + थास् [<<सुट् तिथोः>> 3.4.107 इति थकारस्य सुट्-आगमः] → लभ् + अ + ईय् + थास् [<<लिङः सलोपोऽनन्त्यस्य>> 7.2.79 इति सकारलोपः] → लभेथाः [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः, <<आद्गुणः>> 6.1.87 इति गुण-एकादेशः, विसर्गनिर्माणम्] (इ) आशीर्लिङ्लकारस्य परस्मैपदस्य उदाहरणानि - 1) पठ् + यासुट् + सुट् + तिप् [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → पठ् + यास् + स् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → पठ्यात् [द्वयोः सकारयोः <<स्कोः संयोगाद्योरन्ते च>> 8.2.29 इति लोपः] 2) पठ् + यासुट् + सुट् + तस् / थस् / थ [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → पठ् + यास् + स् + ताम् / तम् / त [<<तस्थस्थमिपां तान्तन्तामः>> 3.4.101 → पठ्यास्ताम् / पठ्यास्तम् / पठ्यास्त [<<झलो झलि>> 8.2.26 इति सकारलोपः] (ई) आशीर्लिङ्लकारस्य आत्मनेपदस्य उदाहरणानि - 1) लभ् + सीयुट् + सुट् + त [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → लभ् + सी + स् + त [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → लप्सीष्ट [<<आदेशप्रत्यययोः>> 8.3.59 इति सकारस्य षकारः । <<ष्टुना ष्टुः>> 8.4.41 इति तकारस्य टकारः । <<खरि च>> 8.4.55 इति भकारस्य पकारः] 2) लभ् + सीयुट् + आताम् / आथाम् → लभ् + सीय् + आ स् ताम् / आ स् थाम् [<<सुट् तिथोः>> 3.4.107 इति तकारथकारयोः सुट्-आगमः । अयमागमः प्रत्ययात् पूर्वम् न आगच्छति, अपितु तकारात् / थकारात् पूर्वमागच्छति ।] → लप्सीयास्ताम् / लप्सीयास्थाम् <<खरि च>> 8.4.55 इति भकारस्य पकारः] 3) लभ् + सीयुट् + सुट् + थास् [<<सुट् तिथोः>> 3.4.107 इति तकारस्य सुट्-आगमः] → लभ् + सी + स् + थास् [<<लोपो व्योर्वलि>> 6.1.66 इति यकारलोपः] → लप्सीष्ठाः [<<आदेशप्रत्यययोः>> 8.3.59 इति सकारस्य षकारः । <<ष्टुना ष्टुः>> 8.4.41 इति थकारस्य ठकारः । <<खरि च>> 8.4.55 इति भकारस्य पकारः]
<<सुट् तिथोः>> - तथा च प्रकृते भव यास् त इति स्थिते — सुट्तिथोः । लिङः सीयुडित्यतो लिङ इत्यनुवर्तते । तिश्च थ् चेति द्वन्द्वात्षष्ठीद्विवचनम् । इकार उच्चारणार्थः । तदाह — लिङस्तकारेति । सुटि टकार इत्, उकार उच्चारणार्थः । भव यास् स् त् इति स्थितम् । नन्विह परेण सुटा यासुटः कथं न बाधः । भवेयुरित्यादौ परस्मैपदेषु यासुड्विधेश्चरितार्थत्वादित्याशङ्क्य निराकरोति — सुटा यासुण्न बाध्यत इति । तत्कुतः इत्यत आह — लिङो यासुडिति । लिङः सीयुट् यासुडागमश्च, लिङादेशैकदेशस्य तकारस्य सुडागम इति विषयभेदादित्यर्थः । तथा च यौगपद्याऽसम्भवाऽभावाद्विप्रतिषेधाऽभावान्न पेरणापि सुटा यासुटो बाध इति भावः ।
'तिथोः' इति सप्तमी वा स्यात् ? षष्ठी वा ? आद्ये पक्षे'यस्मिन्विधिस्तदादावल्ग्रहणे' इति तकारथकारोदेर्लिङदेशस्य सुटा भाव्यमिति कृषीष्ट कृषीष्ठा इत्यत्रैव स्यात्, कृषीयास्तां कृषीयास्थामित्यत्र न स्यात्; सुटा च सीयुटो बाधः स्यात्, उभयोरपि लिङादेशभक्तत्वादिति द्वितीयं पक्षमाश्रित्याह - लिङ्सम्बन्धिनोस्तकारथकारयोरिति । एतदेव स्पष्टयति - तकारथकाराविति । लिङ् तद्विशेषणमिति । लिङ्शब्देन तदादेशा उच्यन्ते । एवं लिङ्संबन्धिनोरित्यत्रापि कृषीष्टेति । विध्यादौ लिङ् सार्विधातुकत्वात्'लिङ्ः सलोपः' इति लोपेन सुटः श्रवणाभावादाशिषु लिणेóवोदाहृतः ॥