7-2-80 अतः या इयः सार्वधातुके
index: 7.2.80 sutra: अतो येयः
अतः लिङः याः इयः सार्वधातुके
index: 7.2.80 sutra: अतो येयः
अवर्णात् परस्य सार्वधातुक-लिङ्लकारस्य प्रत्ययस्य 'या' इत्यस्य इय्-आदेशः भवति ।
index: 7.2.80 sutra: अतो येयः
'या' present in the प्रत्यय of सार्वधातुक-लिङ्लकार is converted to एय् when it follows an अकार.
index: 7.2.80 sutra: अतो येयः
अकारान्तातङ्गादुत्तरस्य या इत्येतस्य सार्वधातुकस्य इयित्ययमादेशो भवति, पचेत्, पचेताम्, पचेयुः इति। अत्र उस्यपदान्तात् 6.1.96 इति पररूपं बाधितम्। अतः इति किम्? चिनुयात्। सुनुयात्। तपरकरणम् किम्? यायात्। सार्वधातुक इत्येव, चिकीर्ष्यात्। ननु च अतो लोपः 6.4.48 इत्यनेन अत्र भवितव्यम्, पचेदित्यत्र अपि हि तर्हि अतो दीर्घो यञि 7.3.101 इति दीर्घत्वेन भवितव्यम्, तदनेन अवश्यं विध्यन्तरं बाधितव्यम्, स यथैव दीर्घस्य बाधकः एवमतो लोपस्य अपि बाधकः स्यात्? स्यादेतदेवं यदि दीर्घः सार्वधातुके विधीयते। अथ तु तिङि विधीयते, तदा येन नाप्राप्तिन्यायेन दीर्घस्यैव बाधकः स्यान् न पुनरतो लोपस्य। येयः इत्यविभक्तिको निर्देशः। यः इति वा षष्ठीनिर्देशे यलोपस्य असिद्धत्वमनाश्रित्य आद्गुणः कृतः, सौत्रत्वान् निर्देशस्य इति। केचितत्र अतो यासियः इति सूत्रं पथन्ति। तेषां सकारान्तः स्थानी, षष्ठीसमासश्च।
index: 7.2.80 sutra: अतो येयः
अतः परस्य सार्वधातुकावयवस्य या इत्यस्य इय् स्यात् । गुणः । यलोपः । भवेत् । सार्वधातुके किम् । चिकीर्ष्यात् । मध्येऽपवादन्यायेन हि अतो लोप एव बाध्येत । भवेदित्यादौ तु परत्वाद्दीर्घः स्यात् । भवेताम् ॥
index: 7.2.80 sutra: अतो येयः
अतः परस्य सार्वधातुकावयवस्य यास् इत्यस्य इय्। गुणः॥
index: 7.2.80 sutra: अतो येयः
सार्वधातुक-लिङ्लकारस्य प्रत्यये यासुट् परस्मैपदेषूदात्तो ङिच्च 3.4.103 इत्यनेन यासुट्-आगमः भवति । अस्य आगमस्य 'या' इत्यस्य अनेन सूत्रेण इय्-आदेशः विधीयते । अयमादेशः तदा एव भवति यदा अयम् 'या' इति अवर्णात् परः आगच्छति । यथा, पठ्-धातोः विधिलिङ्लकारस्य प्रथमपुरुष-एकवचनस्य रूपसिद्धिः इयम् -
पठ् + लिङ् [विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् 3.3.161 इति लिङ्लकारः]
→ पठ् + तिप् [तिप्तस्.. 3.4.78 इत्यनेन तिप्-प्रत्ययः]
→ पठ् + शप् + ति [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ पठ् + अ + यासुट् + ति [यासुट् परस्मैपदेषु उदात्तः ङिच्च 3.4.103 इति यासुट्-आगमः]
→ पठ् + अ + यास् + सुट् + ति [सुट् तिथोः 3.4.107 इति सुट्-आगमः]
→ पठ् + अ + या + ति [लिङःसलोपोऽनन्त्यस्य 7.2.79 इति द्वयोः सकारयोः लोपः]
→ पठ् + अ + इय् + ति [अतो येयः 7.2.80 इति अकारात् परस्य 'या'-इत्यस्य इय्-आदेशः]
→ पठ् + अ + इय् + त् [इतश्च 3.4.100 इति इकारलोपः]
→ पठ् + अ + इ + त् [लोपो व्योर्वलि 6.1.66 इति यकारलोपः]
→ पठ् + ए + त् [आद्गुणः 6.1.87 इति गुणः]
→ पठेत्
ज्ञातव्यम् -
अस्मिन् सूत्रे 'इयः' इति उक्तमस्ति, परन्तु अत्र यकारात् परः विद्यमानः अकारः केवलमुच्चारणार्थः एव अस्ति, अतः 'इय्' इत्येव आदेशरूपेण आगच्छति ।
'पठ् + अ + या + ति' अस्यामवस्थायाम् अतो दीर्घो यञि 7.3.101 इत्यस्य अपि प्रसक्तिः अस्ति । परन्तु वर्तमानसूत्रमपवादत्वात् या-इत्यस्य इय्-आदेशं कारयति । (अत्र नित्यंअतो दीर्घो यञि 7.3.101 इत्यस्यैव प्रयोगं कुर्मश्चेत् वर्तमानसूत्रस्य अवकाशः एव विनश्येत् । अतः अत्र वर्तमानसूत्रम् अतो दीर्घो यञि 7.3.101 इत्यस्य अपवादरूपेण कार्यं करोति ।)
index: 7.2.80 sutra: अतो येयः
अतो येयः - तथा च भव या त् इति स्थिते — अतो येयः । 'या' इति लुप्तषष्ठीकं पदम् । 'अत इति' पञ्चमी । परस्येत्यध्याहार्यम् । 'इय' इत्यत्राऽकार उच्चारणार्थः । 'रुदादिभ्य' इत्यस्मात् 'सार्वधातुक' इत्यनुवृत्तमवयवषष्ठआ विपरिणम्यते । तदाह — अतः परस्येत्यादिना । भव इय् त् इति स्थितम् । गुण इति ।आद्गुण इत्येनेने॑ति शेषः । भवेय् त् इति स्थितम् । यलोप इति ।लोपो व्योरित्यनेने॑ति शेषः । भवेदिति.यलोपात्प्राग्घल्ङ्यादिलोपः संयोगान्तलोपश्च न शङ्क्यः, अन्तरङ्गत्वेन यलोपस्य पूर्वं प्रवृत्तेः, संयोगान्तलोपस्य त्रैपादिकत्वेनाऽसिद्धत्वाच्चेति भावः । सार्वधातुके किमिति । 'रुदादिभ्य' इत्यतः सार्वधातुक इत्यनुवृत्तिलभ्यं । सार्वधातुकावयवस्येति किमर्थमित्यर्थः । भूयादित्यादावाशीर्लिङि आर्धधातुकेऽतः परत्वाऽभावादेव इयादेशाऽभावसिद्धेः सार्वधातुकग्रहणानुवृत्तिव्र्यर्थेत्याशयः । चिकीष्र्यादिति । कृञ्धातोः सन्नन्तादाशीर्लिङि तिबादौ चिकीर्ष — यादिति स्थिते 'अतो लोप' इत्यकारलोपे चिकीष्र्यादिति रूपम् । तत्र 'अतो येय' इत्यत्र सार्वधातुकग्रहणाननुवृत्तौ चिकीर्ष — यादिति स्थिते 'अतो येय' इति इयादेशे आद्गुणे यलोपे चिकीर्षेदिति स्यात् । सार्वधातुकग्रहणानुवृत्तो तु न दोषः, आशीर्लिङादेशस्य तिङो लिङाशिषीत्यार्धधातुकताया वक्ष्यमाणत्वादिति भावः । ननु आशिषि लिङि चिकीर्ष -यादिति स्थिते नित्यत्वादतो लोप इत्यकारलोपे सति अतः परत्वाऽभावादेव 'आतो येय' इत्यस्याऽप्रवृत्तेस्तत्र सार्वधातुकग्रहणानुवृत्तिव्र्यर्थैवेत्यत आह — मध्येऽपवादन्यायेन ह्रतो लोप एव बाध्येनेति । षष्ठस्य चतुर्थपादे अतो लोप इति सूत्रं, सप्तमस्य द्वितीयपादे अतो येय इति सूत्रं, सप्तमस्य चतुर्थपादे तु अतो दीर्घो यञीति सूत्रमिति स्थितिः । तत्र आशीर्लिङ आर्धधातुके चिकीर्ष — यादित्यत्राऽल्लोपप्राप्त्या, विधिलिङि तु भव यादित्यत्र अतो दीर्घप्राप्त्या च इयादेशस्य निरवकाशत्वेन बाध्यसामान्यचिन्तामाश्रित्यापवादतया तेन अन्यतरस्मिन् बाध्ये सति,मद्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरा॑निति न्यायेनातो लोप एव बाधमर्हति न तु अतो दीर्घ इत्यर्थः । एवं चार्धधातुके भव — यादिति स्थिते इयादेशं परत्वाद्बाधित्वाअतो दीर्घो यञी॑ति यञादौ सार्वधातुके परे अतो विधीयमानो दीर्घः स्यात् । ततश्च अतः परत्वाऽभावादियादेशो न स्यादित्यव्याप्तिः स्यादित्यर्थः । न च इयादेशस्य निरवकाशत्वाद्दीर्घबाधकत्वं शङ्क्यम् । चिकीष्र्यादित्यार्धधातुके दीर्घप्राप्त्ययोगे इयादेशस्य सावकाशत्वादिति भावः । भवेतामिति । तसस्तामादेशे शपि गुणे अवादेशे यासुडागमे सुटि सकारद्वयलोपे या इत्यस्य इयादेशे आद्गुणे यलोपः ।
index: 7.2.80 sutra: अतो येयः
सार्वधातुके इति प्रकृतमर्थात् षष्ठ।ल्न्तं सम्पद्यते, तदाह - अकारान्तादङ्गादुतरस्य सार्वधातुकस्येति । अवयवसम्बन्धे चैषा षष्ठी, सार्वधातुकस्यावयवस्य याशब्दस्येत्यर्थः । इय् इत्ययमिति । सूत्रे त्वाकार उच्चारणार्थः । पचेदिति । इयादेशे कृते शवकारेण सहाद्गुणः, वलादिषु वलि लोपः । यकारस्य च श्रवणम् - पचेयुः, पचेयमित्यादौ । पचेयुरित्यत्रेत्यादि । पररूपस्यावकाशः चिनुयुः, सुनुयुः, इयादेशस्य तु पचेदित्यादि, पचेयुरित्यत्रोभयप्रसङ्गे परत्वादियादेशः । यदि पूर्वमेव पररूपं स्यात्, याशब्दाभावादियादेशो न स्यात् । एवमतो लोपस्यापि बाधकः स्यादिति । एतच्च मध्येऽपवादाः इति न्यायमनाश्रित्योक्तम् । तदाश्रयणे त्वतो लोपस्यैव बाधकः स्यात् । दीर्घस्तु परत्वात्स्यादेव । स्वादेतदेवमित्यादि । दीर्घविधौ तुरुस्तुशम्यम्ः सार्वधातुके इति प्रकृतम्, मूसुवोस्तिङ् ईति च । एयोय इत्यविभक्तिको निर्देश इति । येयः इत्यस्मिन्समुदाये या इत्युविभक्तिको निर्देश इत्यर्थः । य इति वेति । याशब्दात्षष्ठी, आतो धातोः इत्याकारलोपः । केचितु - अतो यास् इति सकारान्तानुकरणं पठन्ति ॥