1-3-10 यथा सङ्ख्यम् अनुदेशः समानाम् धातवः
समानामनुदेशः यथासङ्ख्यम्
यत्र द्वयोः गणयोः मध्ये कस्यचन सम्बन्धस्य विधानम् क्रियते तत्र तयोः सङ्ख्या समाना अस्ति चेत् सः सम्बन्धः तयोः सदस्येषु यथासङ्ख्यम् विधीयते ।
When a certain relation is given between two groups having same number of elements, then the relation is considered to exist only between the correspondingly positioned members of the two groups.
संख्याशब्देनात्र क्रमो लक्ष्यते। यथासंख्यं यथाक्रममनुदेशो भवति। अनुदिश्यत इत्यनुदेशः। पश्चादुच्चार्यत इत्यर्थः। समानां समसंख्यानां समं परिपठितानाम् उद्देशिनामनुदेशिनां च यथाक्रममुद्देशिभिरनुदेशिनः संबध्यन्ते। <<तूदीशलातुरवर्मतीकूचवाराड् ढक्छण्ढञ्यकः>>(४. ३.९४)। प्रथमात् प्रथमः, द्वितीयाद् द्वितीय इत्यादि। तौदेयः। शालातुरीयः। वार्मतेयः। कौचवार्यः। समानामिति किम्? <<लक्षणेत्थंभूताख्यानभागवीप्सासु प्रतिपर्यनवः १.४.९०। लक्षणादयश्चत्वारोऽर्थाः, प्रत्यादयस्त्रयः। सर्वेषां सर्वत्र कर्मप्रवचनीयसंज्ञा भवति। इह कस्माद् न भवति — ‘वेशोयशआदेर्भगाद् यल्>> ४.४.१३१,<<ख च>> ४.४.१३२ इति? स्वरितेन लिङ्गेन यथासंख्यम्, यत्र नेष्यते तत्र स्वरितत्वं न प्रतिज्ञायते। <<स्वरितेनाधिकारः>> १.३.११ इति स्वरितग्रहणं पूर्वेणापि संबध्यते॥
समसम्बन्धी विधिर्यथासङ्ख्यं स्यात् । कियूँह्यः । किंह्यः । किब्ँह्वलयति । किंह्वलयति । किल्ँह्लादयति । किंह्लादयति ॥
समसंबन्धी विधिर्यथासंख्यं स्यात्। हरये। विष्णवे। नायकः। पावकः॥
यदि सूत्रे द्वयोः समसङ्ख्यकयोः गणयोः निर्देशं कृत्वा तयोः मध्ये कश्चन सम्बन्धः प्रस्थापितः दृश्यते, तर्हि सः सम्बन्धः तयोः सदस्येषु क्रमेण भवति । इत्युक्ते, प्रथमगणस्य यः प्रथमसदस्यः, तस्य द्वितीयगणस्य प्रथमसदस्येन सह सम्बन्धः भवति; एवमेव प्रथमगणस्य द्वितीयसदस्यस्य द्वितीयगणस्य द्वितीयसदस्येन सह भवति; इत्यादिक्रमेण प्रथमगणस्य अन्तिमसदस्यस्य द्वितीयगणस्य अपि अन्तिमसदस्येन सह एव सम्बन्धः भवति — इत्थं सः सम्बन्धः सदस्यानां क्रमम् अनुसृत्य विधीयते — इति अस्य सूत्रस्य अर्थः । अस्मिन् सूत्रे
<<यथासङ्ख्यमनुदेशः समानाम्>> - यथासङ्ख्यम् । साम्यमिह सङ्ख्यातो विवक्षितम् । अनुदेशः=विधानम् । समानामिति यदि कर्मणि षष्ठी स्यात्तर्हि स्थान्यादिभिः समसङ्ख्यानां यत्र विधानं, यथा 'एचोऽयवायाव' इत्यादौ तत्रैव यथासङ्ख्य प्रवृत्तिः स्यात्,समूलाकृतजीवेषु हन्कृञ्ग्रहः॑ इत्यत्र न स्यात्, तत्र विधेयस्य णमुल एकत्वात् । अतःसमाना॑मिति सम्बन्धसामान्ये षष्ठी । एवञ्च समूलाद्युपपदानां हनादिधातूनां च समसङ्ख्यानामुपादानेन एकस्य प्रत्ययस्य विधिरपि समसङ्ख्याकसम्बन्धी विधिरेवेति तत्रापि यथासङ्ख्यप्रवृत्तिनिर्बाधा । तदाह — समसम्बन्धीति । यथासङ्ख्यमिति । सङ्ख्याशब्देनात्र प्रथमत्वद्वितीयत्वादिरूपाः सङ्ख्याघटितधर्मा विवक्षिताः, ताननतिक्रम्य यथासङ्ख्यम् । ततश्च 'एचोऽयवायाव' इत्यादिषु प्रथमस्य स्थानिनः प्रथम आदेशः, द्वितीयस्य द्वितीय इत्येवमक्रमेण स्थान्यादेशतन्निमित्तादीनां समसङ्ख्याकानां क्रमेणाऽन्वयः प्रतिपत्तव्य इति फलितम् । प्रकृ-ते च यपरके हकारे परे मकारस्य यकारः, वपरके वकारः, लपरके लकार इति सिध्यति । किय्#ँ ह्र इति । मस्य यत्वे रूपम् । 'ह्र' इत्यव्ययम्, पूर्वेद्युरित्यर्थः । यत्वाभावे मोऽनुस्वारः । किव्#ँ ह्वलयतीति । मस्य वत्वम् । ह्वल चलने, णिच् । किल्#ँ ह्लादयतीति । मस्य लत्वम्॥ 'ह्लादी सुखे च' णिच् ।
सङ्ख्याशब्देनान्न क्रमो लक्ष्यत इति। कथम्? अव्यभिचारात् । यत्रैक एवोद्देश्यनुद्देशी च, यथा'मुद्रादण्' इति, न तत्र नियमप्रसङ्ग इत्यनेकत्वसङ्ख्याया एवेह ग्रहणम्। सा च क्रमं न व्यभिचरति;युगपदनेकस्य शब्दस्योच्चारयितुमशक्यत्वात्। मुख्ये त्वर्थेऽयमर्थः स्यात्समानां समसङ्ख्यानामुद्देशिनां या सङ्ख्या चतुरादिलक्षणा तया उद्देश्यः त्वादेवास्यार्थस्य सिद्धत्वाद्। अतः क्रमपर एव सङ्ख्याशब्द इति । यथाक्रमग्रहणं तु न कृतम्, सङ्ख्याद्वारकं साम्यं यथा विज्ञायेत;अन्यथा स्थानप्रयत्ना दिकृतमपि समत्वं प्रतीयेत। ननु च क्रियमाणमपि सङ्ख्याग्रहणं क्रमपरमिति कथमतः संख्यासाम्यप्रतिपतिः? सत्यम्; क्रमे शब्दः पर्यवस्यति, मुख्योऽप्यर्थः प्रतीयते।स हि प्रतीतो लाक्षणिकं गमयति; तस्मात् संख्याग्रहणसामर्थ्यात् तद्द्वारकमेव साम्यं गृह्यते। यथासंख्यमिति।'यथा' साहश्येऽ इति वीप्सायामव्ययीभावः। अनुदेशो भवतीति । सम्बन्धी भवतीति द्रष्टव्यम् । तथा च वभ्यति-अनुदेशिनः सम्बध्यन्ते इति। अनुदिश्यत इत्यनुदेश इति । अकर्तरि च कारके संज्ञायाम् इत्यसंज्ञायापि कर्मपि घञ्। अनुशब्दः पश्चादर्थे, द्दशिरुच्चाक्रिय इत्याह-पश्चच्चार्यत इत्यर्थ इति । यदुक्तं संख्याद्वारकं साम्यं गृह्यते इति तद्दर्शयति-समानां समसंख्यानाम्। अस्यैव विवरणम्-समंपठितानामिति । उद्देशिनामिति। कञ्चिद्धर्मं विधातुं प्रसिद्धवच्छब्दपरामर्शयोग्येन रूपेण उपादानमुद्देशः, तद्वन्त उद्देशिनः, विधेयतया पश्चादुच्चारणमनुदेशः, तद्वन्तोऽनुदेशिनः। यद्यपि सूत्रे उद्देशिनो न श्रुतास्तथाप्यनुदेशशब्दस्य सम्बन्धिशब्दत्वात् समसंख्यत्वस्य च प्रतियोग्यपेक्षत्वात् त एव गम्यन्ते। उद्देशिनामनुदेशिनां चेति यथाक्रममित्येतदपेक्षया षष्ठयौ। यथाक्रममिति। पूर्ववदव्ययीभावस्तृतीयान्तं चैतत्। तदयमत्रार्थः- समसंख्यानामुद्देशिनामनुदेशिनां च योयः क्रमःउप्रथमचरमभवस्तेन तेनानुदेशिनः सम्बध्यन्ते, उद्देशिभिः सहेत्यर्थाद् गम्यते । क्वचित् उद्देशिभिरिति पठ।ल्ते। तत्र सहयोगे तृतीया। प्रथमाद् प्रथम इत्यादिना सूत्रार्थमुदाहरणे योजयति। वहन्ति, वर्षन्ति, नदन्तीत्यादौ लोक एव यथासंख्यसम्बन्धस्य द्दष्टत्वान्नार्थ एतेन ? उच्यते;व्युत्क्रमेणापि सम्बन्धो लोके द्दश्यते-कन्याब्रह्मचारिणौ, दण्डकन्दुकहस्ताविति। योग्यतावशादत्र सम्बन्ध इति चेत्; क्रमेणापि सम्बन्धः, तद्वशादेव योग्या हि नद्यो वहने, घनाश्च वर्षणे। अत एवैकस्य धर्मिणि बहुषु धर्मेषु विहितेषु विधानक्रमेणान्यथा वा योग्यतानुरूप एव सम्बन्धो भवति-अमुमुद्वर्तय, स्नापय, भोजय; भोजय, स्नापयौद्वर्तयेति स्यादेतत्-स्वतः प्राप्तिरियं यदुक्तक्रमेण सम्बन्धः। तथा हि, योग्यताविशेषानवधारणे प्रथमप्रतीतयोः सम्बन्धः, बाधकाभावात्। तावता हि द्वयोरपि चरितार्थत्वम्, द्वितीयस्य धर्मिणो धर्मस्य वा प्रतियोग्ययेक्षायां प्रथमश्रुतस्य चरितार्थत्वाद्, अचरितार्थन द्वितीयेन प्रतियोगिनां सम्बन्धः । एवं सर्वत्र तस्मात् स्वतः प्राप्तः प्राप्त्या क्रमसम्बन्धः सिद्धः इति। यद्येवम्, लक्षणेत्थम्भूताख्यान इत्यादौ वैषम्येऽप्येवमेव स्याद्, यावतां साम्यं तावतामादितः क्रमेण सम्बन्धः, परिशिष्टस्य तु सर्वैरनन्तरेण वेत्यतः समानामिति वक्ष्यामीत्यारम्भः। स्वरितेनेति विशेषं वक्ष्यामीति। क्वचिद्धि साम्येऽपि नेष्यते। अथारभ्यमाणेऽप्यस्मिन् परम्सैपदानां णलादयः, लुटः प्रथमस्य डारौरसः,ठेचोऽयवायावऽइत्यत्र कथमस्य प्रवृत्तिः, यावता परस्मैपदादिसंज्ञया युगपदेव संज्ञिनां प्रतीतिः, न क्रमेण? सत्यम्; तिबादिसूत्रे, अक्षरमाम्नाये च तिबादयः क्रमेण प्रतीतिः, स एव क्रमो नियामको भविष्यति। एवं द्वन्द्वेऽपि । पाघ्रेत्यादौ युगपदधिकरणवचनतायां द्वन्द्वेऽपि क्रमस्य प्रतीतेः स एव नियामकः। ननु च तिपो णल्, तसोऽतुस, पः पिबः, जिघ्रः-इत्येवं भिन्नवाक्यतयोपदेशोऽस्तु, एवं हीदं न वक्तव्यं भवति?सत्यम्; एवं तु गौरवं स्यात् तस्य रूपेणानिदशात्, तत्र विभक्तेर्भेदेनोच्चारणाच्च। तथा'विदो लटो वा ' इत्यत्रानन्तर्यान्मसोमेत्येव सम्बध्येत, तदाह - संज्ञासमासनिर्देशात् सर्वप्रसङ्गोऽनुदेशस्य। तत्र यथासंख्यवचनं नियमार्थम्, संज्ञासमासनिर्देशच्च पृथग्विक्तिसंज्ञ्यनुच्चारणार्थः, प्रकरणे च सर्वसम्प्रत्यार्थः इति। तौदेय इत्यादौ'सो' स्याभिजनःऽ इत्यत्रार्थेप्रत्ययः। इहेत्यादि। एकयोगत्वपक्षे चोद्यम्, भिन्नयोगपक्षे तु योगविभागो यथासंख्यनिरासार्थ इति वक्ष्यति। केचितु विभज्य योगं पठन्ति, अन्ये त्वेकमेव। स्वरितेनेत्यादि परिहारः। कथं पुनरयं विशेषो लभ्यत इत्याह - स्वरितेनाधिकार इत्यादि। यद्येवम्, स्वरिते द्दष्टे सन्देहः स्यात्, न ज्ञायते - किमयं यथासंख्यार्थः? आहोस्विदधिकारार्थः?इति। सन्देहमात्रमेतद्, भवति, सर्वसन्देहेषु चेदमुपतिष्ठते -'व्याख्यानतो विशेषप्रतिपतिर्न हि सन्देहादलक्षणम्' इति । तत्र व्याख्यानान्निर्णयो भविष्यति॥