7-3-100 अदः सर्वेषाम् सार्वधातुके हलि अपृक्ते अङ्
अदः अङ्गात् अपृक्ते सार्वधातुके अट् सर्वेषाम्
अद्-धातोः अङ्गात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य सर्वेषामाचार्याणाम् मतेन अट्-आगमः भवति ।
A सार्वधातुक-अपृक्त-प्रत्यय that follows the verb अद् gets an अट् आगम.
<<अद भक्षणे>> अस्मादुत्तरस्यापृक्तस्य सार्वधातुकस्याडागमो भवति सर्वेषामाचार्याणां मतेन। आदत्। आदः। अपृक्तस्येत्येव — अत्ति । अत्सि॥
अदः परस्यापृक्तसार्वधातुकस्य अडागमः स्यात्सर्वमतेन । आदत् । आत्ताम् । आदन् । आदः । आत्तम् । आत्त । आदम् । आद्व । आद्म । अद्यात् । अद्याताम् । अद्युः । अद्यास्ताम् । अद्यासुः ॥
अदः परस्यापृक्तसार्वधातुकस्य अट् स्यात्सर्वमतेन। आदत्। आत्ताम्। आदन्। आदः। आत्तम्। आत्त। आदम्। आद्व। आद्म। अद्यात्। अद्याताम्। अद्युः। अद्यात्। अद्यास्ताम्। अद्यासुः॥
अदँ भक्षणे इति अदादिगणस्य प्रथमः धातुः । अस्मात् परस्य सार्वधातुक-अपृक्त-प्रत्ययस्य नित्यं अट्-आगमः भवति । यथा - अद्-धातोः लङ्लकारस्य प्रथमपुरुषैकवचनस्य 'आदत्' इत्यस्य रूपसिद्धिः इयम् - अद् + लङ् [<<अनद्यतने लङ्>> 3.2.111 इति लङ्] → आट् + अद् + ल् [<<आडजादीनाम्>> 6.4.72 इति लङ्लकारे परे अजादि-अङ्गस्य आडागमः] → आ + अद् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति प्रथमपुरुष-एकवचनस्य विवक्षायाम् परस्मैपदिभ्यः धातुभ्यः तिप्-प्रत्ययः] → आ + अद् + शप् + ति [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्] → आ + अद् + ति [<<अदिप्रभृतिभ्यः शपः>> 2.4.72 इति शप्-प्रत्ययस्य लुक् ।] → आद् + ति [ <<आटश्च>> 6.1.90 इति वृद्धि-एकादेशः] → आद् + त् [<<इतश्च>> 3.4.100 इति इकारलोपः] → आद् + अट् + त् [<<अदः सर्वेषाम्>> 7.3.100 इत्यनेन अपृक्त-त्-प्रत्ययस्य अट्-आगमः ।] → आदत् [<<हलन्त्यम्>> 1.3.3 इति टकारस्य इत्संज्ञा । <<तस्य लोपः>> 1.3.9 इति तस्य लोपः। वर्णमेलनम् ।] एवमेव अद्-धातोः लङ्लकारस्य मध्यमपुरूषस्य 'आदः' अस्य रूपसिद्धौ अपि अस्य सूत्रस्य प्रयोगः क्रियते । ज्ञातव्यम् - पूर्वस्मिन् सूत्रे अडागमः केवलं गार्ग्य-गालवयोः मतेन उक्तः अस्ति । अत्र सः नित्यं भवति (विकल्पेन न) इति स्पष्टीकर्तुम् 'सर्वेषाम्' इति अस्मिन् सूत्रे उक्तमस्ति ।
<<अदः सर्वेषाम्>> - अदः सर्वेषाम् । 'अद' इति पञ्चमी ।तस्मादित्युत्तरस्ये॑ति परिभाषया परस्येति लभ्यते । 'गुणोऽपृक्ते' इत्यतः 'अपृक्ते' इति, 'तुरुस्तुशम्यमः' इत्यतः 'सार्वधातुके' इति चानुवर्तते । सप्तमीद्वयं च षष्ठ्या विपरिणम्यते ।अह् गाग्र्यगालवयो॑रित्तोऽडित्यनुवर्तते ।गाग्र्यगालवयो॑रित्स्यानुवृत्तिनिवृत्तयेसर्वेषा॑मिति । तदाह — अदः परस्येत्यादिना । टित्त्वादाद्यवयः । तदाह — आददिति । आत्तामिति । अपृक्तग्रहणान्नाऽडागम इति भावः । विधिलिङि रूपमाह — अद्यादिति । शपो लुकि अतः परत्वाऽभावात् 'अतो येयः' इति नेति भावः ।मिपः अमि यासुटि सलोपे सवर्णदीर्घे -अद्याम् । अद्याव अद्याम । आशीर्लिङि अद्यादिति सिद्धवत्कृत्याह — अद्यास्तामिति । लुङि अद् स् त् इति स्थिते —
सर्वेषांग्रहणं नित्यार्थम्, अन्यथा गार्ग्यगालवग्रहणमिह विकल्पार्थ सम्भाव्येत ॥