2-4-73 बहुलं छन्दसि
छन्दसि विषये शपो बहुलं लुग् भवति। अदिप्रभृतिभ्य उक्तस्ततो न भवत्यपि। वृ॒त्रं ह॑॑॑नति (ऋ० ८.८९.३)। अहि॑॑ः॑ शयते (ऋ०१.३२.५)। अन्येभ्यश्च भवति — त्राध्वं॑ नो देवाः(ऋ०२.२९.६)॥
वृत्रं हनति वृत्रहा । अहिः शयत उप पृक्पृथिव्याः (अहिः॑ शयत उप॒ पृक्पृ॑थि॒व्याः) । अत्र लुङ्ग । अदादिभिन्नेऽपि क्वचिल्लुक् । त्राध्वं नो देवाः (त्राध्वं॑ नो दे॒वाः) । जुहोत्यादिभ्यः श्लुः <{SK2489}> ॥