5-1-106 छन्दसि घस् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा ठञ् तत् अस्य प्राप्तम् ऋतोः
'तत् अस्य प्राप्तम्' (इति) ऋतोः छन्दसि घस्
'अस्य प्राप्तम्' अस्मिन् अर्थे प्रथमासमर्थात् 'ऋतु'शब्दात् वेदेषु घस्-प्रत्ययः कृतः दृश्यते ।
ऋतुशब्दाच् छन्दसि विषये घस् प्रत्ययो भवति तदस्य प्राप्तमित्यस्मिन् विषये। अणोऽपवादः। अ॒यं ते॒ योनि॑र्ऋ॒त्वियः॒ (ऋ०३.२९.१०)॥
ऋतुशब्दात्तदस्य प्राप्तमित्यर्थे । भाग ऋत्वियः ॥
प्रथमासमर्थात् 'ऋतु'शब्दात् 'प्राप्तः' (निकटः आगतः) अस्मिन् अर्थे 'यस्य ऋतुः प्राप्तः' तस्य निर्देशं कर्तुम् वेदेषु घस्-प्रत्ययः कृतः दृश्यते । ऋतु + घस् → ऋतु + इय [<<आयनेयीनीयीयः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति इय-आदेशः] → ऋत्विय [<<सिति च>> 1.4.16 इति अङ्गस्य पदसंज्ञा । <<इको यणचि>> 6.1.77 इति यणादेशः] यथा - तैत्तिरीयब्राह्मणे 2.5.8.1 इत्यत्र 'अयं ते योनिरृत्वियः' इति प्रयोगः दृश्यते ।
ऋत्विय इति।'सिति च' इति पदत्वेन भत्वे निरस्ते ठोर्गुणःऽ न भवति ॥