कंशंभ्यां बभयुस्तितुतयसः

5-2-138 कंशंभ्यां बभयुस्तितुतयसः प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) कम्-शंभ्याम् ब-भ-युस्-ति-तु-त-यसः

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः 'कम्' तथा 'शम्' एताभ्याम् शब्दाभ्याम् 'ब', 'भ', 'युस्', 'ति', 'तु', 'त', 'यस्' - एते प्रत्ययाः भवन्ति ।

Kashika

Up

कम् शमिति मकारान्तावुदकसुखयोर्वाचकौ, ताभ्यां ब भ युस् ति तु त यस् इत्येते सप्त प्रत्यया भवन्ति मत्वर्थे। कम्बः। शम्बः। कम्भः। शम्भः। कंयुः। शंयुः। कन्तिः। शन्तिः। कन्तुः। शन्तुः। कन्तः। शन्तः। कंयः। शंयः। सकारः पदसंज्ञार्थः, तेनानुस्वारपरसवर्णौ सिद्धौ भवतः। संज्ञायां हि असत्यां कम्यः शम्य इति स्यात् ॥

Siddhanta Kaumudi

Up

कंशमिति मान्तौ । कमित्युदकसुखयोः । शमिति सुखे । आभ्यां सप्त प्रत्ययाः स्युः । युस्थसोः सकारः पदत्वार्थः । कंबः । कंभः । कंयुः । कंतिः । कंतुः । कंतः । कंयः । शंबः । शंभः । शंयुः । शंतिः । शंतुः । शंतः । शंयः । अनुस्वारस्य वैकल्पिकः परसवर्णः । वकारयकारपरस्यानुनीसिकौ वयौ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादरूपेण 'कम्' तथा 'शम्' (उभावपि मकारान्तशब्दौ) एताभ्याम् शब्दाभ्याम् वर्तमानसूत्रेण 'ब', 'भ', 'युस्', 'ति', 'तु', 'त', 'यस्' - एते सप्त-प्रत्ययाः उच्यन्ते । क्रमेण पश्यामः - 1.कम् (मकारान्तशब्दः, 'जल' इत्यर्थः ) । कमस्य अस्मिन् वा अस्ति सः = अ) कम् + ब → कंब, कम्ब । प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन मकारादेशः भवति । आ) कम् + भ → कंब, कम्भ । प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन मकारादेशः भवति । इ) कम् + युस् → कंयु, कय्ँयु । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> 1.4.16 इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । ई) कम् + ति → कंति, कन्ति । प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन नकारादेशः भवति । उ) कम् + तु → कंतु, कन्तु । प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन नकारादेशः भवति । ऊ) कम् + त → कंत, कन्त । प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन नकारादेशः भवति । (ऋ) कम् + यस् → कंय, कय्ँय । अत्र प्रत्यये सकारः इत्संज्ञकः अस्ति, येन अङ्गस्य <<सिति च>> 1.4.16 इति पदसंज्ञा भवति, येन प्रक्रियायाम् <<मोऽनुस्वारः>> 8.3.23 इत्यनेन मकारस्य अनुस्वारः, तस्य च <<वा पदान्तस्य>> 8.4.59 इति विकल्पेन परसवर्णादेशः (य्ँ) भवति । अनेन प्रकारेण 'कम्' शब्दात् सप्त प्रत्ययान् कृत्वा 'कंब / कम्ब', 'कंभ / कम्भ', 'कंयु / कय्ँयु', 'कंति / कन्ति', 'कंतु / कन्तु', 'कंत / कन्त', 'कंय / कय्ँय' - एते चतुर्दश शब्दाः सिद्ध्यन्ति । 2. शम् (मकारान्तशब्दः, सुखम् इत्यर्थः) । अस्मात् शब्दात् अपि एते सप्त प्रत्ययाः विधीयन्ते येन चतुर्दश रूपाणि सिद्ध्यन्ति - 'शंब / शम्ब', 'शंभ / शम्भ', 'शंयु / शय्ँयु', 'शंति / शन्ति', 'शंतु / शन्तु', 'शंत / शन्त', 'शंय / शय्ँय' ।

Balamanorama

Up

<<कंशंभ्यां बभयुस्तितुतयसः>> - कंशंभ्याम् । व, भ, युस्, ति, तु, त, यस्, एषां सप्तानां द्वन्द्वात् प्रथमाबहुवचनम् । सप्त प्रत्ययाः स्युरिति । 'मत्वर्थे' इति शेषः । पदत्वार्थ इति । अन्यथा कमित्यस्माद्युप्रत्यये यप्रत्यये च कृते भत्वात्पदत्वाऽभावादनुस्वारो न स्यादिति भावः । वकारयकारपरस्येति-बहुव्रीहि । वकारपरकस्य यकारपरकस्य चानुस्वारस्येत्यर्थः ।

Padamanjari

Up

कंशमिति मकारान्ताविति।'कशब्दः सुखवार्वायुब्रह्ममस्तकवाचकः' क इत्यकारान्तः कशब्दो यद्यपि प्रसिद्धः, मकारान्तोऽपि क्वचिदस्तीति प्रदर्शनार्थम्'मकारान्तौ' इत्युक्तम्। उदकसुखयोर्वाचकाविति। न यथासंख्यम्, किं तर्हि ? यथासम्भवम्। कमित्युदकसुखयोर्वाचकम्, शमिति सुखस्य। ठल्पाच्तरम्ऽ इति सुखस्य पूर्वनिपातः प्राप्तः न कृतः सूत्रकारेणैव; तत्र व्यभिचरितत्वात्। उदाहरणेष्वलनुस्वारपरसवर्णौ, तत्र यकारवकारयोः सानुनासिकौ यकारवकारौ ॥