ब्राह्मणमाणववाडवाद्यन्

4-2-42 ब्राह्मणमाणववडबात् यन् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् तस्य समूहः

Sampurna sutra

Up

तस्य समूहः (इति) ब्राह्मण-माणव-वाडवात् यन्

Neelesh Sanskrit Brief

Up

'तस्य समूहः' अस्मिन् अर्थे 'ब्राह्मण', 'माणव', 'वाडव' शब्देभ्यः यन्-प्रत्ययः भवति ।

Neelesh English Brief

Up

The words ब्राह्मण, माणव, वाडव get the 'यन्' प्रत्यय in the meaning of 'तस्य समूहः'.

Kashika

Up

ब्राह्मणादिभ्यः शब्देभ्यो यन् प्रत्ययो भवति तस्य समूह इत्येतस्मिन् विषये। नकारः स्वरार्थः। ब्राह्मणानां समूहो ब्राह्मण्यम्। माणव्यम्। वाडव्यम्॥ यन्प्रकरणे पृष्ठादुपसंख्यानम्॥ पृष्ठानां समूहः पृष्ठ्यः षडहः॥ अह्नः खः क्रतौ ॥ अह्नां समूहः अहीनः क्रतुः। क्रताविति किम्? आह्नः। खण्डिकादिषु दर्शनादञ् भवति॥ पर्श्वा णस् वक्तव्यः॥ पर्शूनां समूहः पार्श्वम्। पदसंज्ञकत्वाद् गुणो न भवति॥ वातादूलः॥ वातानां समूहो वातूलः॥

Siddhanta Kaumudi

Up

ब्राह्मण्यम् । माणव्यम् । वाडव्यम् ।<!पृष्ठादुपसंख्यानम् !> (वार्तिकम्) ॥ पृष्ठ्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे ब्राह्मण, माणव, वाडव -शब्देभ्यः यन्-प्रत्ययः भवति । यथा - 1. ब्राह्मणानां समूहः = ब्राह्मण + यन् → ब्राह्मण्य । 2. माणवानां (युवकानां) समूहः = माणव + यन् → माणव्य । 3. वाडवानां (अग्नीनाम्) समूहः = वाडव + यन् → वाडव्य । अस्मिन् सूत्रे कानिचन वार्त्तिकानि दीयन्ते - 1.<! पृष्ठात् उपसंख्यानम्!> - 'पृष्ठ' शब्दात् अपि <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे यन्-प्रत्ययः भवति । पृष्ठानां समूहः = पृष्ठ + यन् → पृष्ठ्यम् । 2. <!अह्नः ख क्रतौ!> - 'अहन्' शब्दस्य क्रतौ प्रयोगः भवति चेत् तेषां समूहं दर्शयितुम् 'ख' प्रत्ययः भवति । अह्नाम् समूहः = अहन् + ख → अहन् + ईन (<<आयनेयीनीयियः फढखच्छघां प्रत्ययादीनाम्>> 7.1.2 इति खकारस्य ईन्-आदेशः] → अह् + ईन [<<नस्तद्धिते>> 6.4.144 इति टिसंज्ञकस्य लोपः] → अहीन 3. <!पर्श्वा णस् वक्तव्यः!> - 'पर्शु' (वृक्षस्य भेदनार्थम् प्रयुज्यमाणमायुधम्) शब्दात् <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे णस्-प्रत्ययः भवति । यथा - पर्शूनां समूहः = पर्शु + णस् → पर्शु + अ [इत्संज्ञा, लोपः] → → पार्शु + अ [आदिवृद्धिः] → पार्श्व [अत्र प्रत्ययः 'सित्' अस्ति, अतः अङ्गस्य <<सिति च>> 1.4.16 इति पदसंज्ञा भवति । अतः <<ओर्गुणः>> 6.4.146 इत्यनेन गुणादेशः न विधीयते, अपितु <<इको यणचि>> 6.1.77 इति यणादेशं कृत्वा रूपं सिद्ध्यति ] 4.<! वातात् ऊलः वक्तव्यः!> - 'वात' शब्दात् <<तस्य समूहः>> 4.2.37 अस्मिन् अर्थे ऊल-प्रत्ययः भवति । वातानां समूहः = वात + ऊल → वातूल । ज्ञातव्यम् - 1. 'यन्' प्रत्यये प्रयुक्तः नकारः स्वरार्थः अरस्ति । <<ञ्नित्यादिर्नित्यम्>> 6.1.197 इत्यनेन नित्-प्रत्यये परे प्रकृति-प्रत्यय-समुदायस्य आदिस्वरः नित्यमुदात्तः भवति । 2. 'माणव' अयम् शब्दः 'मनोः अपत्यम्' अस्मिन् अर्थे अण्-प्रत्ययं कृत्वा सिद्ध्यति । 'मनु + अण्' इत्यत्र <!अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः। नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः!> इत्यनेन भाष्योक्तसिद्धान्तेन नकारस्य णकारादेशः भवति ।

Balamanorama

Up

<<ब्राह्मणमाणववाडवाद्यन्>> - ब्राआहृणमाणव । ब्राआहृण्यमित्यादि । ब्राआहृणानां माणवानां बाडबानां च समूह इति विग्रहः । मनोरपत्यं माणवः । अणि नस्य णत्वम् ।अपत्ये कुत्सिते मूढे मनोरौत्सर्गिकः स्मृतः । नकारस्य च मूर्धन्यस्तेनसिध्यति माणवः॑ इतिमनोर्जातावञ्यतौ षुक्च॑ इति सूत्रे भाष्यम् ।पृष्ठादिति । 'यन' इति शेषः । पृष्ठ्यः षडह इति । षष्ण्णामह्नां समाहारः षडहः । समाहारे द्विगुः । 'राजाहः सखिभ्यः' इति टचि टिलोपः । रथन्तरबृहद्रौरूपवैराजशाक्वररैवताख्यानि षट् पृष्ठाख्यस्तोत्राणि । तद्युक्तान्यहानि लक्षणया पृष्ठानि, तेषां समूह इति विग्रहः ।

Padamanjari

Up

नकारः स्वार्थ इति ।'ञ्नित्यादिर्नित्यम्' इत्याद्यौदातत्वं यथा स्यात् । किमर्थं पुनर्ब्राह्मणादिभ्यो यन्विधीयते, न प्रकृतो यञेव विधीयते, न हि वृद्धेषु यञो यनो वा विशेषोऽस्ति - तदेव रूपम्, स एव स्वरः, ठञस्त्वस्वरितत्वादननुवृत्तिः ? ज्ञापनार्थं तु । एतज् ज्ञापयति - अन्येभ्यऽप्ययम् । किं सिद्धं भवति ? पृष्ठादुपसङ्ख्यानं चोदयिष्यति तन्न वक्तव्यं भवति । पृष्ठानां समूह इति । पृष्ठशब्दः स्तुतिविशेषवचनः । पृष्ठयः षडह इति । तद्वति तदुपचारः । णस्वक्तव्य इति । सकारः पदसञ्ज्ञार्थः, तेन पार्श्वमित्यत्र भत्वाभावादोर्गुणो न भवति ॥