4-2-115 भवतः ठक्छसौ प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा प्राक् दीव्यतः अण् वृद्धात्
वृद्धादित्येव। भवच्छब्दाद् वृद्धात् ठक्छसित्येतौ प्रत्ययौ भवतः शैषिकौ। छस्यापवादौ। सकारः पदसंज्ञार्थः। भवतस्त्यदादित्वाद् वृद्धसंज्ञा। भावत्कः। भवदीयः। अवृद्धात् तु भवतः शतुरणेव भवति। भावतः॥
वृद्धाद्भवत एतौ स्तः । भावत्कः । जश्त्वम् । भवदीयः । वृद्धादित्यनुवृत्तेः शत्रन्तादणेव । भावतः ॥
ठक्च्छस् इत्येताविति । सित्करणादवसीयते - च्छसोऽयं निर्देशः, न शस इति, शसि हि स्वादिपदत्वेनैव सिद्धम् । सकारः पदसंज्ञार्थ इति । तेन भवदीय इत्यत्र जश्त्वं भवति । भावत्क इति । ठिसुसुक्तान्तात्कःऽ प्रक्रियालाघवार्थं ककि विधातव्ये ठग्विधानं स्त्रियां ङीबर्थम् - भावत्की । अवृद्धातु भवतीति । शत्रन्तात् । क्वचितु भवतः शतुरित्येव पाठः ॥