ऊर्णाया युस्

5-2-123 ऊर्णायाः युस् प्रत्ययः परः च आद्युदात्तः च तद्धिताः समर्थानां प्रथमात् वा तत् अस्य अस्ति अस्मिन् इति मतुप्

Sampurna sutra

Up

'तत् अस्य, अस्मिन् अस्तीति' (इति) ऊर्णायाः युस्

Neelesh Sanskrit Brief

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः प्रथमासमर्थात् 'ऊर्णा' शब्दात् युस्-प्रत्ययः भवति ।

Kashika

Up

ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्वर्थे। सकारः पदसंज्ञार्थः। ऊर्णास्य विद्यत ऊ र्णा॒युः (मा०सं० १३.५०)। केचिच्छन्दोग्रहणमनुवर्तयन्ति॥

Siddhanta Kaumudi

Up

सित्वात्पदत्वम् । ऊर्णायुः । अत्र छन्दसीति केचिदनुवर्तयन्ति । युक्तं चैतत् । अन्यथाहिअहंशुभमोः - <{SK1946}>इत्यत्रैवोर्णाग्रहणं कुर्यात् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

'अस्य अस्ति' तथा 'अस्मिन् अस्ति' एतयोः अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः <<तदस्यास्त्यस्मिन्निति मतुँप्>> 5.2.94 इत्यनेन औत्सर्गिकरूपेण मतुँप्-प्रत्ययः भवति । अस्य अपवादस्वरूपेण 'ऊर्णा' (wool) शब्दात् 'युस्' इति प्रत्ययः वर्तमानसूत्रेण दीयते । यथा - ऊर्णा अस्य अस्ति सः = ऊर्णा + युस् → ऊर्णायु । [युस्-प्रत्यये परे <<यचि भम्>> 1.4.18 इत्यनेन अङ्गस्य भसंज्ञायां प्राप्तायाम् <<सिति च>> 1.4.16 इत्यनेन अङ्गस्य पदसंज्ञा भवति, अतः <<यस्येति च>> 6.4.148 इत्यनेन अङ्गस्य आकारस्य लोपः न जायते ।] उर्णा अस्य अस्ति सः ऊर्णायुः (sheep) । विशेषः - केचन पण्डिताः अस्मिन् सूत्रे पूर्वसूत्रात् 'छन्दसि' इति अनुवृत्तिं स्वीकुर्वन्ति । एतेषाम् मतेन 'ऊर्णायु' इति शब्दः वेदेषु एव प्रयुज्यते, भाषायां तु 'ऊर्णवान्' इत्येव साधुरूपम् । एतत् प्रायः समीचीनमेव, यतः यदि अत्र 'छन्दसि' न आवश्यकम् मन्यते चेत् वर्तमानसूत्रस्य भिन्नरूपेण निर्माणमेव भवितुम् न अर्हति, अपितु अस्मिन्नेव प्रकरणे <<अहंशुभमोर्युस्>> 5.2.140 इत्यत्र यः युस्-प्रत्ययः पाठ्यते, तत्रैव 'ऊर्णा' शब्दस्यापि ग्रहणं भवितुमर्हति । अतः वर्तमानसूत्रस्य विशेषरूपेण निर्माणमेव अस्य ज्ञापकम् यत् अत्र 'छन्दसि' इति अनुवृत्तिः इष्यते ।

Balamanorama

Up

<<ऊर्णाया युस्>> - ऊर्णाया युस् । ऊर्णायुशब्देयस्येति चे॑ति लोपमाशङ्क्याह — सित्त्वादिति । अनुवर्तयन्तीति ।बहुलं छन्दसीत्यस्मा॑दिति शेषः ।

Padamanjari

Up

ऊर्णायुरिति।क पदत्वाद्यस्येतिलोपो न भवति ॥