न लोकाव्ययनिष्ठाखलर्थतृनाम्

2-3-69 न लोकाव्ययनिष्टाखलर्थतृनाम् अनभिहिते षष्ठी शेषे

Kashika

Up

index: 2.3.69 sutra: न लोकाव्ययनिष्ठाखलर्थतृनाम्


कर्तृकर्मणोः कृति 2.3.65 इति प्राप्ता षष्ठी प्रतिषिध्यते। ल उ उक अव्यय निष्ठा खलर्थ तृनित्येतेषां प्रयोगे षष्ठी विभक्तिर्न भवति। ल इति शतृशानचौ, कानच्क्वसू, किकिनौ च गृह्यन्ते। ओदनं पचन्। ओदनं पचमानः। ओदनं पेचानः। ओदनं पेचिवान्। पपिः सोमं ददिर्गाः। उ कटं चिकीर्षुः। ओदनं बुभुक्षुः। कन्यामलङ्करिष्णुः। इष्णुचोऽपि प्रयोगे निषेधः। उक आगामुकं वाराणसीं रक्ष अहुः। उकप्रतिषेधे कमेर्भाषायामप्रतिषेधः। दास्याः कामुकः। अव्यय कटं कृत्वा। ओदनं भुक्त्वा। अव्ययप्रतिषेधे तोसुङ्कसुनोरप्रतिषेधः। व्युष्टायां पुरा सूर्यस्योदेतोरधेयः। पुरा क्रूरस्य विसृपो विरप्शिन्। निष्ठा ओदनं बुक्तवान्। देवदत्तेन कृतम्। खलर्थ ईषत्करः कटो भवता। ईषत्पानः सोमो भवता। तृनिति प्रत्याहारग्रहणम्। लटः शतृशानचावप्रथमा. समानाधिकरणे 3.2.124 इत्यारभ्य आ तृनो नकारात्। तेन शानञ्चानश्शतृतृनामपि प्रतिषेधो भवति। सोमं पवमानः। नडमाघ्नानः। अधीयन् पारायनम्। कर्ता कटान्। वदिता जनापवादान्। द्विषः शतुर्वाव्चनम्। चौरं द्विषन्, चौरस्य द्विषन्।

Siddhanta Kaumudi

Up

index: 2.3.69 sutra: न लोकाव्ययनिष्ठाखलर्थतृनाम्


एषां प्रयोगे षष्ठी न स्यात् । लादेशाः । कुर्वन् कुर्वाणो वा सृष्टिं हरिः । उः । हरिं दिदृक्षुः । अलंकरिष्णुर्वा । उक । दैत्यान् घातुको हरिः ॥<!कमेरनिषेधः !> (वार्तिकम्) ॥ लक्ष्म्याः कामुको हरिः । अव्ययम् । जगत् सृष्ट्वा । सुखं कर्तुम् । निष्ठा । विष्णुना हता दैत्याः । दैत्यान् हतवान् विष्णुः । खलर्थः । ईषत्करः प्रपञ्चो हरिणा । तृन्निति प्रत्याहारः शतृशानचाविति तृशब्दादारभ्यातृनो नकारात् । शानन् । सोमं पवमानः । चानश् । आत्मानं मण्डयमानः । शतृ । वेदमधीयन् । तृन् । कर्ता लोकान् ॥<!द्विषः शतुर्वा !> (वार्तिकम्) ॥ मुरस्य मुरं वा द्विषन् ॥ सर्वोऽयं कारकषष्ठ्याः प्रतिषेधः ॥ शेषे षष्ठी तु स्यादेव । ब्राह्मणस्य कुर्वन् । नरकस्य जिष्णुः ॥

Balamanorama

Up

index: 2.3.69 sutra: न लोकाव्ययनिष्ठाखलर्थतृनाम्


न लोकाव्ययनिष्ठाखलर्थतृनाम् - न लोक । एषामिति । ल, उ, उक, अव्यय, निष्ठा, खलर्थ, तृन् एषामित्यर्थः । उ, उक इत्यत्र सवर्णदीर्घे सति ऊकेति भवति । ततो ल-ऊकेत्यत्र आद्गुणे लोकेति भवति । लादेशेति । अविभक्तिकनिर्देशोऽयं लादेशोदाहरणसूचनार्थः । ल इति लडादीनां सामान्येन ग्रहणम् । तेषां च साक्षात्प्रयोगाऽभावात्तदादेशग्रहणमिति भावः । कुर्वन्कुवाणो वेति । लटः शतृशानचौ । इह कर्मणि षष्ठीनिषेधाद्द्वितीया । उ इति । उदाहरणसूचनमिदम् । उ इत्यनेन कृतो विशेषणात्तदन्तविधिः । हरिं दिदृक्षुरिति । दृशेः सन्नन्तात् 'सनाशंसभिक्ष उः' इति उप्रत्ययः कृत् । व्यपदेशिवत्त्वेन उकारान्तोऽयं कृत् । हरिकर्मकदर्शनेच्छावानित्यर्थः । अलङ्करिष्णुर्वेति । हरिमित्यनुषज्यते ।अलं कृञि॑त्यादिना ताच्छील्यादाविष्णुच् । उवर्णस्यैव ग्रहणे त्वत्र निषेधो न स्यात् । उक इति । इदमपि तदुदाहरणसूचनार्थम् । दैत्यान्घातुको हरिरिति ।आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑ इत्यधिकारेलषपतपदस्थाभूवृषहनकमगमशृभ्य उकञि॑ति तच्छीलादिषु हनधातोः कर्तरि उकञ्प्रत्ययः, उपधावृद्धिः । 'हो हन्तेः' इति हस्य घत्वम् । 'हनस्तोऽचिण्णलोः' इति नकारस्य तकारः । घातनशीलः, घातनधर्मा घातनसाधुक#आरी वेत्यर्थः ।कमेरिति । वार्तिकमिदम् । उकान्तकमेर्योगे षष्ठआ निषेधो नास्तीत्यर्थः । लक्ष्म्याः कामुक इति ।लषपते॑त्यादिना उकञ् । अव्ययमिति । उदाहरणसूचमिदम् । जगत्सृष्ट्वेति ।हरिरास्ते॑इति शेषः । 'समानकर्तृकयोः' इति क्त्वाप्रत्ययः । क्त्वातोसुन्कसुनः॑ इति अव्ययत्वम् । सुखं कर्तुमिति ।भक्तस्य हरिः प्रभवती॑ति शेषः ।तुमिन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति तुमुन् । 'कृन्मेजन्तः' इत्यव्ययत्वम् । इह कृदव्ययमेव गृह्रत इति केचित् । वस्तुतस्त्वविशेषादकृदन्तमपीति तत्त्वम् । देवदत्तं हिरुक् । तत्कर्मकं वर्जनमित्यर्थः । निष्ठेति । उदाहरणसूचनमिदम् ।क्तक्तवतू निष्ठा॑ । विष्णुना हता इति । अत्र भूते इति कर्मणि क्तः । कर्तरि षष्ठीनिषेधात्तृतीया दैत्यान्हतवानिति । भूते कर्तरि क्तवतुः । कर्मणि षष्ठीनिषेधाद्द्वितीया । खलर्था इति । उदाहरणसूचनमिदम् । ईषत्कर इति ।ईषद्दुःसुषु कृच्छ्राकृच्छ्रार्थेषु खल् इति कर्मणि खल् । अर्थग्रहणात् 'आतो युच्' इति खलर्थको युजपि गृह्रते । ईषत्पानः सोमो भवता । ननु तृन्नित्यनेन यदि तृनेव गृह्रेत तर्हि 'सोमं पवमान' इत्यादौ निषेधो न स्यादित्यत आह — तृन्निति प्रत्याहार इति । कुत आरभ्य किमन्तानामित्यत आह — तृशब्दादारभ्य तृनो नकारादिति । लटः शतृशानचावित्यत्र शत्रादेशस्य एकदेशस्तृशब्दः, तत आरभ्य 'तृन्' इति सूत्रस्थनकारपर्यन्तानामित्यर्थः ।लटः शतृशानचावप्रथमासमानाधिकरणे,॑ 'सम्बोधने च,' 'तौ ससू'पूङ्यजोः शानन्,ताच्छील्यवयोवचनशक्तिषु चानश॑ ,इङ्धार्योःशत्रकृच्छ्रिणि॑, 'द्विषोऽमित्रे,' 'सुञो यज्ञसंयोगे,'अर्हः प्रशंसायाम्,आ क्वेस्तच्छीलतद्धर्मतत्साधुकारिषु॑, 'तृन्' इति सूत्रक्रमः । अत्र शानन्नादितृन्नन्तानां ग्रहणं, नतु 'लटः शतृ' इति तृशब्दस्यापि शत्रादेशैकदेशस्य, तस्य क्वापि पृथक् प्रयोगानर्हत्वात् । नापि शानचः, लादेशत्वादेव सिद्धे इति स्थितिः । शानन्निति । उदाहरणसूचनमिदम् । सोमं पवमान इति ।पूयङ्यजोः शानन् । आत्मानं मण्डयमान इति । 'मडि भूषायाम्'ताच्छील्यवयोवचन॑इति चानश् । शतृ इति । उदाहरणसूचनमिदम् । वेदमधीयन्निति । 'इङ्धार्योः' इति शतृप्रत्ययः । तृन्निति । उदाहरणसूचनमिदम् । कर्ता लोकानिति । तृन्निति सूत्रेण तच्छीलादिषु तृन्प्रत्ययः शानन्नादितृन्नन्तानां लादेशत्वाऽभावात्प्रत्याहाराश्रयणमिति बोध्यम् । द्विषः शतुर्वेति । शत्रन्तद्विषधातुयोगे षष्ठीनिषेधो वा वक्तव्य इत्यर्थः । मुरस्य मुरं वा द्विषन्निति । द्विषोऽमित्रे ॑ इति शतृप्रत्ययः । तस्य तृन्प्रत्याहारप्रविष्टत्वान्नित्यनिषेधे प्राप्ते विकल्पोऽयम् । सर्वोऽयमिति ।अनन्तरस्ये॑ति न्यायादिति भावः । शेषे षष्ठी त्विति । शब्दबोधे प्रकारवैलक्षण्यं फलमिति भावः । ब्राआहृणस्य कुर्वन्निति ।हरि॑रिति शेषः । लटः शत्रादेशः । मुखतो ब्राआहृणसंबन्धिसृष्टनुकूलव्यापारवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव । नरकस्य जिष्णुरिति ।ग्लाजिस्थश्च ग्स्नुः॑ इति तच्छीलादिषु ग्स्नुप्रत्ययः । नरकसंबन्धिजयवानित्यर्थः । कर्मत्वविवक्षायां तु द्वितीयैव ।

Padamanjari

Up

index: 2.3.69 sutra: न लोकाव्ययनिष्ठाखलर्थतृनाम्


न लोकाव्ययनिष्ठाखलर्थतृनाम्॥ जिघृक्षितरूपविनाशप्रसङ्गात् तृनामित्यत्र णत्वाभावः। उ उकेति। अनेनोकारप्रश्लषं दर्शयति। तत्र लश्चेति पूर्वद्वन्द्वे उकारस्य पूर्वनिपातः स्यात्, परनिपातेऽपि लवुकेति स्यात्; तस्मात्परयोर्द्वन्द्वं कृत्वा पश्चाल्लशब्दस्य द्वन्दः कार्यः, उकारेण च कृतो विशेषणातदन्तविधिः, व्यपदेशिवद्भावात्केवलस्यापि ग्रहणम्। शतृशानचाविति। तेन शानजर्थं तृन्निति प्रत्याहारो नाश्रयणीय इति भावः। किकिनौ चेति। ननु लग्रहणेन लकारास्तदादेशाश्च ग्रहीतुं युक्ताः - कट्ंअ कारयाञ्चकार, ओदनं पाचयति; किकिनोस्त्वयुक्तं ग्रहणम्, अलत्वादलादेशत्वाच्च, नैष दोषः;'किकिनौ लिट् च' इत्यनेन लिट्त्वातिदेशः क्रियते, न लिट्संज्ञा। तत्र'कारयाम्' 'पचानः' इत्यादौ लिटि तदादेशे च द्दष्टः प्रतिषेध किकिनोरपि भविष्यति। उदाहरणेषु सर्वत्र कारकषष्ठयाः प्रतिषेधः। शेषषष्ठी तु भवत्येव - ब्राह्मणस्य कुर्वन्, ओदनस्य पचन्, अपां पेरुरसि, नरकस्य जिष्णवो गुणैः, तानि द्विषद्वीर्यनिराकरिष्णुरिति। आगामुकमिति।'लषपतपद' इतायदिनोकञ्, रक्षांसि वाराणसीं प्रत्यागमनशीलानि भवन्ति, शापादिमोक्षार्थमित्यर्थः। दास्याः कामुक इति। द्वितीया निवृत्यर्थ वचनम्, षष्ठी तु शेषविज्ञानादेव सिद्धा। पुरा सूर्यस्येति।'भावलक्षणे' इत्यादिना तोसुन्। विसृप इति।'सृपितृदोः कसुन्' 'पूङ्यजोः शानन्' 'ताच्छील्यवयोवचनशक्तिषु चानश्' ठिङ्धार्योः शत्रकृच्छ्रिणिऽ इत्येतेषु'ल' इति नानुवर्तत इति स्थापयिष्यते, तेन लग्रहणादसिद्धिरिति मत्वाऽऽह - तृन्निति प्रत्याहारग्रहणमिति। द्विषः शतुर्वा वचनमिति।'द्विषो' मित्रेऽ इति योऽयं शतृप्रत्ययः, तत्प्रयोगे विकल्पेन प्रतिषेधो वक्तव्य इत्यर्थः। प्रत्याख्यानं तु शेषविवक्षायां षष्ठ।ल्न्यत्र द्वितीयेति, सता च समासप्रतिषेधात्समासे कृत्स्वरार्थ कारकषष्ठी विधेयेत्यपि नास्ति॥