6-2-169 निष्ठोपमानात् अन्यतरस्याम् उत्तरपदात् अन्तः बहुव्रीहौ मुखं स्वाङ्गम् अनोः
निष्ठान्तादुपमानवाचिनश्च मुखं स्वाङ्गमुत्तरपदमन्यतरस्यां बहुव्रीहौ समासेऽन्तोदात्तं भवति। प्॒रक्षा॒लि॒त॒मु॒खः, प्॒रक्षा॒लि॒तमु॑खः, प्रक्षा॑लितमुखः। यदैतदुत्तरपदान्तोदात्तत्वं न भवति तदा <<निष्ठोपसर्गपूर्वमन्यतरस्याम्>> ६.२.११० इति पक्षे पूर्वपदान्तोदात्तत्वम्, तदभावपक्षेऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वर इति त्रीण्युदाहरणानि भवन्ति। उपमानात् — सिं॒ह॒मु॒खः, सिं॒हमु॑खः। व्या॒घ्॒रमु॒खः, व्या॒घ्रमु॑खः॥
निष्ठान्तादुपमानवाचिनश्च परं मुखं स्वाङ्गं वान्तोदात्तं बहुव्रीहौ । प्रक्षालितमुखः । पक्षे निष्ठोपसर्ग-<{SK3844}> इति पूर्वपदान्तोदात्तत्वम् । पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरोऽपि भवति । उपमानम् । सिंहमुखः ॥
हिंसेः पचाद्यच्, पःषोदरादित्वादाद्यन्तविपर्ययः - सिंहः । व्याजिघ्रतीति व्याघ्रः । आतश्चोपसर्गे इति कः । पाध्राध्माधेट्दृशः इति शो न भवति, जिघ्रतेः संज्ञायां प्रतिषेधः इति वचनात् ॥ एजातिकालसुखादिभ्योऽनाच्छादनात् क्तोऽकृतिमितप्रतिमन्नाः ॥ 6 - 2- 170 ॥ एननूदाहरणेषु प्रत्युदारहणेषु च नि,ठेति निष्ठान्तं पूर्वं प्रयोक्तव्यं स्यात् इत्यत आह - एतष्विति । प्रत्युदारहणे,त्याइदि । तत्र पुत्रशब्दोऽन्तोदातः । वसेष्ट्रन् - वस्त्रम् , दस्यैव ल्युट् - वसनम् । कुण्डशब्दः नब्विषयस्यानिसन्तस्य इत्याद्यदातः ॥