डति च
1-1-25 डति च सङ्ख्या षट्
Sampurna sutra
Up
डति संख्या षट्
Neelesh Sanskrit Brief
Up
'डति' प्रत्ययान्तः संख्यासंज्ञकः शब्दः 'षट्' नाम्ना ज्ञायन्ते ।
Neelesh English Brief
Up
The word ending in the डति प्रत्यय which is referred to as 'संख्या' is also called 'षट्'.
Kashika
Up
डत्यन्ता च या संख्या सा षट्संज्ञा भवति। कति तिष्ठन्ति। कति पश्य॥
Siddhanta Kaumudi
Up
डत्यन्ता सङ्ख्या षट्संज्ञा स्यात् ॥
Laghu Siddhanta Kaumudi
Up
डत्यन्ता संख्या षट्संज्ञा स्यात्॥
Neelesh Sanskrit Detailed
Up
व्याकरणशास्त्रे वर्णानां, शब्दानां च लघुरूपेण निर्देशार्थम् काश्चन संज्ञाः निर्दिष्टाः सन्ति । एतासु अन्यतमा अस्ति 'षट्' इति संज्ञा । 'डति'प्रत्ययान्तशब्दस्य ('कति' इति शब्दस्य) 'षट्' संज्ञा भवति इति अस्य सूत्रस्य आशयः ।
'डति' इति कश्चन तद्धितप्रत्ययः । <<किमः सङ्ख्यापरिमाणे डति च>> 5.2.41 इत्यनेन सूत्रेण 'किम्'शब्दात् डति-प्रत्ययः विधीयते, येन 'कति' इति शब्दः सिद्ध्यति । <<बहुगणवतुडति संख्या>> 1.1.23 इत्यनेन सूत्रेण अस्य शब्दस्य 'संख्या'संज्ञा भवति । अस्यैव शब्दस्य अनेन सूत्रेण 'षट्' इति संज्ञा दीयते । 'कति' इत्यस्य एकस्य शब्दस्यैव 'षट्' संज्ञाविधानार्थम् अयम् सूत्रप्रपञ्चः ।
प्रयोजनम्
षट्-संज्ञायाः प्रयोगं कृत्वा अष्टाध्याय्यां भिन्नाः विधयः पाठिताः सन्ति । यथा, षट्-संज्ञकात् शब्दात् विहितस्य प्रथमाबहुवचनस्य जस्-प्रत्ययस्य 'लुक्' भवति -
कति + जस् [प्रथमाबहुवचनस्य जस्-प्रत्ययः]
--> कति + ० [<<षड्भ्यो लुक्>> 7.1.22 इत्यनेन जस्-प्रत्ययस्य लुक्]
--> कति
प्रयोगः
अष्टाध्याय्यां षट्-संज्ञायाः साक्षात् प्रयोगः पञ्चसु सूत्रेषु कृतः अस्ति ।
1. <<षट्कतिपयचतुरां थुक्>>
5.2.51
2. <<षट्त्रिचतुर्भ्यो हलादिः>>
6.1.179
3. <<षट्चतुर्भ्यश्च>>
7.1.55
4. <<न षट्स्वस्रादिभ्यः>>
4.1.10
5. <<षड्भ्यो लुक्>>
7.1.22
अनुवृत्तिरूपेण तु अन्येषु सूत्रेषु अपि अस्याः प्रयोगः भवितुम् अर्हति ।
<<ष्णान्ता षट्>>
1.1.24 अनेन सूत्रेण केषाञ्चन अन्येषाम् शब्दानाम् अपि 'षट्' इत्येव संज्ञा भवति इति स्मर्तव्यम् ।
उणादिसंज्ञकः डति-प्रत्ययः
संस्कृतव्याकरणे द्वौ डतिप्रत्ययौ स्तः - (1) <<किमः सङ्ख्यापरिमाणे डति च>>
5.2.41 इत्यनेन सूत्रेण 'किम्'शब्दात् विहितः तद्धितसंज्ञकः डति-प्रत्ययः, तथा च (2) <<पातेर्डति>> (४.४७) इत्यनेन उणादिसूत्रेण 'पा'धातोः विहितः उणादिसंज्ञकः (कृत्संज्ञकः) डतिप्रत्ययः । एताभ्याम् तद्धितसंज्ञकस्य डति-प्रत्ययस्य प्रयोगेण प्राप्तः 'कति'शब्दः एव संख्यासंज्ञकः अस्ति, <<पातेर्डति>> (४.४७) इत्यनेन सूत्रेण सिद्धः 'पति' शब्दः न । अतएव अस्मिन् सूत्रे 'संख्या'इत्यस्य अनुवृत्तिः आवश्यकी, येन केवलं 'कति'शब्दस्य एव षट्-संज्ञा भवेत् ।
सूत्रस्य वैयर्थ्यम्
<<बहुगणवतुडति संख्या>>
1.1.25 इत्यस्मिन् सूत्रे 'डति' इति शब्दः विद्यते । <<डति च>>
1.1.25 इत्यत्रापि 'डति' इत्येव शब्दः विद्यते । एतादृशम् 'डति'शब्दस्य द्विवारम् ग्रहणम् अनावश्यकम् अस्ति इति अत्र भाष्यकारः स्पष्टीकरोति । तदित्थम् - <<बहुगणवतुडति संख्या>>
1.1.23 इत्यस्मात् सूत्रात् <<ष्णान्ता षट्>>
1.1.24 इत्यस्मिन् सूत्रे 'डति' इत्यस्य अनुवृत्तिः क्रियते चेत् तत्रैव 'डति'शब्दस्यापि षट्-संज्ञा भवेत् एव, येन <<डति च>>
1.1.25 इति सूत्रमेव अनावश्यकम् भवति । नो चेत्, <<बहुगणवतुडति संख्या>>
1.1.23 इत्यस्य स्थाने 'बहुगणवतु संख्या' इत्येव उक्त्वा अग्रे (प्रकृतसूत्रे) <<डति च>>
1.1.25 इत्यत्र संख्याशब्दस्य षट्-शब्दस्य च अनुवृत्तिं स्वीकृत्य 'डति-प्रत्ययान्तशब्दः संख्यासंज्ञकः षट्-संज्ञकः च भवति' इति अर्थः अपि भवितुम् अर्हति । इत्युक्ते, एकस्मिन् एव स्थले 'डति'ग्रहणं पर्याप्तम् - इति अत्र भाष्यकारस्य आशयः अस्ति ।
Balamanorama
Up
<<डति च>> - डति च ।डती॑त्यविभक्तिको निर्देशः । प्रत्ययत्वात्तदन्तग्रहणम् । पूर्वसूत्रात्संख्ये॑त्यनुवर्तते । 'ष्णान्ता षट्' इत्यतःष॑डिति च । तदाह — डत्यन्तेति । संक्येति किम् । पतिः । अथ षट्संज्ञाकार्यं लुकं वक्ष्यन्नाह-प्रत्ययस्य लुक् । 'अदर्शनं लोप' इत्यतोऽदर्शनमित्यनुवर्तते । प्रत्ययस्याऽदर्शनं लुक्श्लुलुप्संज्ञकं स्यादित्यर्थः प्रतीयते । एवं सति एकस्यैव प्रत्ययाऽदर्शनस्य तिरुआओऽपि संज्ञाः स्युः । ततश्चहन्ती॑त्यत्र शब्लुकि 'श्लौ' इति द्वित्वं स्यात् ।जुहोती॑त्यत्र श्लौ सतिउतो वृद्धिर्लुकि हली॑ति वृद्धिः स्यात् ।
Padamanjari
Up
डत्यन्ता च या संख्येति । अनेन संख्याग्रहणानुवृत्तिं दर्शयति । असत्यां ह्यनुवृतौ पातेर्डतिः पतयः-अत्रापि स्यात् । अथेह संख्याग्रहणानुवृतावपि कस्मादेवात्र न भवति, सामान्येन हि डतेः संख्यासंज्ञा विहिता ? उच्यते; संख्यासंज्ञायां हि वतुना साहचर्यातद्धितस्य डतेर्ग्रहणम्, न त्वौणादिकस्य ॥