निष्ठायां सेटि

6-4-52 निष्ठायां सेटि असिद्धवत् अत्र आभात् नलोपः आर्धधातुके लोपः णेः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

निष्ठायां सेटि परतो णेर्लोपो भवति। कारितम्। हारितम्। गणितम्। लक्षितम्। सेटीति किम्? संज्ञपितः पशुः। सेड्ग्रह्णसामर्थ्यादिह पूर्वेणापि न भवति। <<सनीवन्तर्ध०>> ७.२.४९ इति ज्ञपेरिटि विकल्पिते <<यस्य विभाषा>> ७.२.१५ इति निष्ठायां प्रतिषेधः। अथ पुनरेकाच इति तत्रानुवर्तते। तदा नित्यमत्र भवितव्यमेवेडागमेनेति सेड्ग्रहणमनर्थकम्? तत् क्रियते कालावधारणार्थम्, इडागमे कृते णिलोपो यथा स्यात्। अकृते हि तत्र णिलोपे सति कारितमित्यत्र <<एकाच उपदेशेऽनुदात्तात्>>७.२.१० इतीटः प्रतिषेधः प्रसज्येत॥

Siddhanta Kaumudi

Up

णेर्लोपः स्यात् । भावितः । भावितवान् । श्वीदितः - <{SK3039}> इति नेट् । संप्रसारणम् । शूनः । दीप्तः । गुहू, गूढः । वनु, वतः । तनु, ततः । पतेः सनि वेट्कत्वादिडभावे प्राप्ते द्वितीयाश्रित - <{SK686}> इति सूत्रे वेट्कत्वात्सिद्धे कृन्तत्यादीनामीदित्त्वेनानित्यत्वज्ञापनाद्वा । तेन धावितमिभराजधियेत्यादि । यस्य विभाषा <{SK3025}> इत्यत्रैकाच इत्येव । दरिद्रतः ॥

Laghu Siddhanta Kaumudi

Up

णेर्लोपः। भावितः। भावितवान्। दृह हिंसायाम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<निष्ठायां सेटि>> - निष्ठायां सेटि । णेर्लोपः स्यादिति । सेषपूरणमिदम् ।णेरनिटी॑त्यतो णेरिति, 'आतो लोपः' इत्स्माल्लोप इति चानुवर्तते इति भावः । 'अनिटी' ति निषेधादप्राप्ते आरम्भः ।टु ओ इआ गतिवृद्ध्योः॑ अस्मात् क्ते आह श्वीदित इति नेडिति । संप्रसारणमिति । यजादित्वादिति भावः । संप्रासरणे सति पूर्वरूपे 'हलः' इति दीर्घेओदितश्चे॑ति निष्ठानत्वे रूपमाह — शून इति । यद्यपि मूलेओदितश्चे॑त्यत्र उच्छून इत्युदाहृतमेव, तथापि विशेषविवक्षया पुनरिहोपन्यासः । अत्र अलविधित्वेऽपि 'हल' इत्यारम्भसामाथ्र्यादेव पूर्वरूपस्य संप्रसारणत्वम् । न च नित्यत्वात्संप्रसारणपूर्वरूपयोःश्र्युकः कितीत॑त्येव निषेधसिद्धेः इआग्रहमं व्यर्थमिति वाच्यम्,श्र्युकः किती॑त्यत्र 'एकाच उपदेशे' इत्यत उपदेशे इत्यनुवृत्तेः । तथा च उपेदशे उगन्तत्वाऽभावान्निषेधाऽप्राप्तौ इआग्रहणम् । अत एवस्तीर्त्वे॑त्यादौ उपदेशे उगन्तत्वमादाय इण्निषेधसिद्धिरित्यलम् । ईदित उदाहरति — दीप्तैति । 'दीपी दीप्तौ' दिवादिः । ईदित्त्वान्नेट् । गूढ इति । ऊदित्त्वेन वेट्कत्वात्यस्य विभाषे॑ति नेट् । ढत्वधत्वष्टुत्वढलोपदीर्घाः । वनु वतः । तनु तत इति ।उदितो वे॑ति क्त्वायां वेट्कत्वात्यस्य विभाषे॑ति नेट् ।अनुदात्तोपदेशे॑ति नकालोपः । पतेः सनीति । 'पत्लृ गतौ' अस्यतनिपतिदरिद्राणानुपसङ्ख्यान॑मिति सनि वेटक्त्वात्यस्य विभाषे॑ति निष्ठायामिण्निषेधे प्राप्ते इत्यर्तः । 'पतित' शब्दे इटं साधयितुं युक्त्यन्तरमिति वक्तव्यम्, तत्तु न संभवति । एषांसेऽसिचि कृतचृतछृदतृदनृतः॑ इति सकारादौ वेट्कतयायस्य विभाषे॑त्येव निष्ठायां नित्यमिण्निषेधासिद्धेः । ततश्च एषामीदित्करणात्यस्य विभाषे॑ति इण्निषेधस्य अनित्यत्वं विज्ञायते । एवं च कृतादीनांयस्य विभाषे॑ति इण्निषेधस्याऽभावसंभावनायां 'श्वीदितः' इण्निषेधार्थमीदित्त्वमर्थवत् ।तथा च पतितशब्देयस्य विभाषे॑त्यनित्यत्वान्न भवतीत्यर्थः । तेनेति ।यस्य विभाषे॑त्यस्याऽनित्यत्वज्ञापनेनेत्यर्थः । धावितमिति । 'स्वरतिसूती' धूञो वेट्कत्वेऽपियस्य विभाषे॑ति निष्ठायामिण्निषेधः स्यादित्यत आह — यस्य विभाषेत्यत्रेति ।

Padamanjari

Up

सेटीति किमिति । अनिटि पूर्वेण सिद्धत्वात्सेडर्थमेवेदं सूत्रं भविष्यतीति प्रश्नः । सामर्थ्यात्पूर्वसूत्रप्राप्तेरेव व्यावृत्तिरित्युतरम् । संज्ञापित इति । वा दान्तशान्तपूर्ण इत्यत्र ज्ञपेर्निपातनमाश्रीयते - ज्ञप्तः, ज्ञपित इति । अथ पुनरिति । प्रतिपतृविप्रतिपत्या सन्दिग्धाभिधानम् । कालावधारणार्थमिति । सेड्ग्रहणे क्रियमाणे यदा निष्ठा सेड्भवति तदा लोपो भवति न प्रागिति कालाबधारणं लभ्यते । किं पुनः स्याद्यद्येवमर्थं सेड्ग्रहणं न क्रियेत तत्राह - अकृते हीति । णिलोपे सतीति । नित्यत्वात् । स हि कृतेऽपीटि प्राप्नोत्यकृतेऽपि, इट्पुनरनित्यः, णिलोपे सत्येकाचेति प्रतिषेधात् ।यस्य च निमितं लक्षणान्तरेण विहन्यते न तदनित्यम्, न हि बालिसुग्रीवयोर्युध्यमानयोर्भगवता रामेण बालिनि हते सुग्रीवापेक्षया बालिनो दौर्बल्यं मन्यन्ते शूरमानिनः सत्यम् कार्यगतभावाभावविवक्षायां तु तत्राश्रीयते । इट्प्रतिषेधः प्रसज्येतेति । एकदेशविकृतस्यानन्यत्वात् । एतच्च पूर्वस्मादपि विधौ स्थानिवद्भावमनाश्रित्योक्तम्। भाष्ये तु सूत्रमिदं प्रत्याख्यातम् । सप्तमे णेरध्ययने वृतम् इत्ययं योगस्त्रेधा विभक्तव्यः, क्रमविपर्ययश्चाश्रयणीयः - णेः इत्येको योगः, तत्र निष्ठायां नेडिति वर्तते - ण्यन्तादुतरस्य निष्ठाया इण्न भवति ततः वृतम् - वुतमिति निपात्यते, णिलोपः । किमर्थमिदम् नियमार्थम् - अत्रैव निष्ठायां णेर्लोपो भवति, नान्यत्रेति । क्व मा भूत् कारितम्, हारितम्, कैमर्थक्यान्नियमो भवति, विधेयं नास्तीति कृत्वा । इह चास्ति विधेयम्, किम् गुणाभावः । एवं तर्हि तन्त्रावृत्येकशेषाणामन्यतमाश्रयणादेकस्य नियमार्थत्वमपरस्य गुणनिषेधार्थत्वं भवति, ततोऽध्ययने, वर्तेरध्ययन एव णिलोप इति ॥