ह्लादो निष्ठायाम्

6-4-95 ह्लादेः निष्ठायाम् असिद्धवत् अत्र आभात् अचि उपधायाः ह्रस्वः

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

ह्लादोऽङ्गस्योपधाया ह्रस्वो भवति निष्ठायां परतः। प्रह्लन्नः। प्रह्लन्नवान्। निष्ठायामिति किम्? प्रह्लादयति। ह्लाद इति योगविभागः क्रियते, क्ति न्यपि यथा स्यात् प्र्रह्लत्तिरिति॥

Siddhanta Kaumudi

Up

ह्रस्वः स्यात् । प्रह्लन्नः ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<ह्लादो निष्ठायाम्>> - ह्लादो निष्ठायाम् । ह्रस्वः स्यादिति । सेषपूरणमिदम् । 'खचि ह्रस्वः' इत्यतस्तदनुवृत्तेरिति भावः । प्रह्लन्न इति ।ह्लादी सुखे॑ । क्तः । 'श्वीदितः' इति नेट् ।रदाभ्यांट मिति नत्वम् ।

Padamanjari

Up

ह्लादी सुखे च, ईदित्वान्निष्ठायामनिट् । क्वचित्पठ।ल्तेह्लाद इति योगविभागः क्रियते, क्तिन्यपि यथा स्यात् प्रल्हतिरिति । माष्ये तु नैतद्दृष्टम् ॥