6-1-22 स्फायः स्फी निष्ठायाम् सम्प्रसारणं
<<स्फायी ओप्यायी वृद्धौ>> इत्यस्य धातोर्निष्ठायां परतः स्फीत्ययमादेशो भवति। स्फीतः। स्फीतवान्। निष्ठायामिति किम् ? स्फातिः। स्फातीभवतीत्येतदपि क्तिन्नन्तस्यैव रूपम्, न निष्ठान्तस्य। निष्ठायामित्येतदधिक्रियते <<लिड्यङोश्च>> ६.१.२९ इति प्रागेतस्मात् सूत्रात्॥
स्फीतः ॥
<<स्फायः स्फी निष्ठायाम्>> - स्फायः स्फी । 'स्फायी वृद्धौ' अस्य स्फीभावः स्यान्निष्ठायां परत इत्यर्थः ।