2-2-36 निष्ठा आ कडारात् एका सञ्ज्ञा समासः पूर्वम् बहुव्रीहौ
निष्ठान्तं च बहुव्रीहिसमासे पूर्वं प्रयोक्तव्यम्। कृतकटः। भिक्षितभिक्षः। अवमुक्तोपानत्कः। आहूतसुब्रह्मण्यः। ननु च विशेषणमेवात्र निष्ठा? नैष नियमः, विशेषणविशेष्यभावस्य विवक्षानिबन्धनत्वात् — कटे कृतमनेनेति विग्रहीतव्यम्॥ निष्ठायाः पूर्वनिपाते जातिकालसुखादिभ्यः परवचनम्॥ शार्ङ्गजग्धी। पलाण्डुभक्षिती। मासजातः। संवत्सरजातः। सुखजातः। दुःखजातः। कथं कृतकटः, भुक्तौदनः? प्राप्तस्य चाबाधा व्याख्येया॥ प्रहरणार्थेभ्यश्च परे निष्ठासप्तम्यौ भवत इति वक्तव्यम्॥अस्युद्यतः। दण्डपाणिः। कथमुद्यतगदः, उद्यतासिः? प्राप्तस्य चाबाधा व्याख्येया॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात् । कृतकृत्यः ।<!जातिकालसुखादिभ्यः परा निष्ठा वाच्या !> (वार्तिकम्) ॥ सारङ्गजग्धी । मासजाता । सुखजाता । प्रायिकं चेदम् । कृतकटः । पीतोदकः ॥
निष्ठान्तं बहुव्रीहौ पूर्वं स्यात्। युक्तयोगः॥
निष्ठा॥ अवमुक्तोपानत्क इति। उरः प्रभृतित्वात्कप्। ननु चेत्यादि। यथा चित्रगुरिति। गुणद्रव्यशब्दयोरुपनिपाते गुणशब्दस्य विशेषणत्वम्, क्रियाद्रव्य शब्दयोरपि क्रियाया एव विशेषणत्वम्। ततश्च पूर्वेणैव सिद्धमिति भावः। विवक्षानिबन्धनत्वादिति। यदा कृत किञ्चिदनेनेति निर्ज्ञाते कट इति प्रयुज्यते तदा कटो विशेषणमिति मन्यते। कटे कटेन कृतमिति वा विग्रहीतव्यमिति। एवं विग्रहे कृतस्य विशेषणत्वशङ्कैव नास्तीति भावः। क्वचितु वाशब्दो न पठ।ल्ते, तत्र विवक्षानिबन्धनत्वादित्युक्ते तामेव विवक्षां दर्शयतीति व्याख्येयम्। जातिकालसुखादिभ्यः परवचनमिति। ज्ञापकात्सिद्धम्,'जातिकालसुखादिभ्यो' नाच्छादनाद्ऽ इत्याह, तज्ज्ञापयति - जात्यादिभ्यः परा निष्ठा निपततीति। शार्ङ्गजग्धीति। शार्ङ्ग जग्घमनयेति बहुव्रीहिः।'क्तादल्पाख्यायाम्' ,ठस्वाङ्गपूर्वपदाद्वाऽ इति ङीष्। अत्राहुः - निष्ठाशब्देन या विहिता निष्ठा तस्या ग्रहणम्। तेन सुस्थितम्, चारुहसितमित्यादौ'नपुंसके भावे क्तः' इत्यस्य परनिपात इति॥