श्वीदितो निष्ठायाम्

7-2-14 श्वीदितः निष्ठायाम् न इट् वशि

Kashika

Up

index: 7.2.14 sutra: श्वीदितो निष्ठायाम्


श्वयतेः ईदितशनिष्ठायाम् इडागमो न भवति। शूनः। शूनवान्। ईदितः ओलजी लग्नः। लग्नवान्। ओविजी उद्विग्नः। उद्विग्नवान्। ओदितश्च 8.2.45 इति निष्ठातकारस्य नकारः। दीपी दीप्तः। दीप्तवान्। डीङस्त्वोदितां मध्ये पाठो ज्ञापको निष्ठायामनिट्त्वस्य। स हि नत्वार्थः, नत्वं च निष्ठातोऽनन्तरस्य विधीयते। उड्डीनः। उड्डीनवान्। निष्ठायाम् इत्यधिकारः आर्धधातुकस्येड् वलादेः 7.2.35 इति यावत्।

Siddhanta Kaumudi

Up

index: 7.2.14 sutra: श्वीदितो निष्ठायाम्


श्वयतेरीदितश्च निष्ठाया इण्न । उन्नः । उत्तः । त्राणः । त्रातः । घ्राणः । घ्रातः । ह्रीणः । ह्रीतः ॥

Balamanorama

Up

index: 7.2.14 sutra: श्वीदितो निष्ठायाम्


श्वीदितो निष्ठायाम् - श्वीदितो निष्ठायाम् । इआ, ईदित् अनयोः समाहारद्वन्द्वात्पञ्चमी ।नेड्वशी॑त्यतो नेडित्यनिवर्तते । तदाह -आयतेरिति ।

Padamanjari

Up

index: 7.2.14 sutra: श्वीदितो निष्ठायाम्


श्विग्रहणं किमर्थम्, न सम्प्रसारणे कृते परस्य पूर्वत्वे चोगन्तत्वे सति र्श्युकः किति इत्येव सिद्धम् न सिध्यति, श्वि - त इति स्थिते परत्वादिट् प्राप्नोति । अथापि पूर्वं सम्प्रसारणम् एवमपि र्श्युकः किति इत्यत्र उपदेशे इत्यनुवृतेतरस्य चोपदेशे इदन्तत्वान्न सिध्यति । डीङ् इत्यादि । डीङ्यं स्वादीनां मध्ये पठ।ल्ते, ते च ओदितः, स्वादय ओदितः इति वचनात्, कथमेतज्ज्ञापकम् इत्यत आह - स हीति । निष्ठातः निष्ठातकारस्य । अनन्तरस्य विधीयत इति । इटि सत्यानन्तर्थं विहन्येत । एवञ्च सति श्वयतेरप्यत्र ग्रहणं शक्यमकर्तुम्, तथा ओलस्जीप्रभृतीनामपि उक्तेनैव न्यायेनेडभावस्य सिद्धत्वात् ॥