1-2-19 निष्ठा शीङ्स्विदिमिदक्ष्विदिधृषः कित् न सेट्
न सेडिति वर्तते। शीङ् स्विदि मिदि क्ष्विदि धृष् इत्येतेभ्यः परो निष्ठाप्रत्ययः सेण् न किद् भवति। शयितः, शयितवान्। प्रस्वेदितः, प्रस्वेदितवान्। प्रमेदितः, प्रमेदितवान्। प्रक्ष्वेदितः, प्रक्ष्वेदितवान्। प्रधर्षितः, प्रधर्षितवान्। सेड् इत्येव — स्विन्नः, स्विन्नवान्। स्विदादीनाम् <<आदितश्च>> (७.२.१६) इति निष्ठायामिट् प्रतिषिध्यते। <<विभाषा भावादिकर्मणोः>> (७.२.१७) इति पक्षेऽभ्यनुज्ञायते, स विषयः कित्त्वप्रतिषेधस्य॥
एभ्यः सेण्निष्ठा किन्न स्यात् । शयितः । शयितवान् । अनुबन्धनिर्देशो यङ्लुङ्निवृत्त्यर्थः । शेश्यितः । शेश्यितवान् ।<!आदिकर्मणि निष्ठा वक्तव्या !> (वार्तिकम्) ॥
<<निष्ठा शीङ्स्विदिमिदिक्ष्विदिधृषः>> - निष्ठा शीङ् ।न क्त्वा से॑डित्यतो न सेडित्यनुवर्तते ।असंयोगा॑दित्यतः किदिति च । तदाह — एभ्यः सेडिति । शीङिति ङकारस्य फलमाह — अनुबन्धेति । यङ् लुकि॒श्तिपा शपे॑ति निषेधार्थ इत्यर्थः । सेश्यितवानिति । अत्र कित्त्वनिषेधाऽभावात्कित्त्वान्न गुण इति भावः । आदिकर्मणि निष्ठा वक्तव्येति । दीर्घकालव्यासक्तायाः कटाद्युत्पादनक्रियाया आरम्भकालविशिष्टोंऽश आदिकर्म । तत्र विद्यमानाद्धातोर्निष्ठा वक्तव्येत्यर्थः । तत्र आद्येषु क्रियाक्षणेषु भूतेष्वपि क्रियाया भूतत्वाऽभावाद्भूते विहिता निष्ठा न प्राप्तेत्यारम्भः ।
ऽ ञिष्विदा स्नेहनमोचनयोःऽ इत्यस्य भौवादिकस्य ञिद्धातोर्ग्रहणम्, न तु ऽष्विदा गात्रप्रक्षरणेऽ इति दैवादिकस्य; ञिद्भिः साहचर्यात्, अस्य चाञित्वात् । ऽञिक्ष्विदा स्नेहनमोचनयोःऽ इति दैवादिकस्य ग्रहणम्, न तु ऽञिक्ष्विदा अव्यक्ते शब्देऽ इत्यस्य भौवादिकस्य; मिदिना साहचर्यात्,ऽञिधृषा प्रागल्भ्येऽ । शयितवानिति । ऽअत्वसन्तस्यऽ इति दीर्घः । प्रकृतिग्रहणे यङ्लुगन्तस्यापि ग्रहणं भवति, स एव धातुर्द्विरुच्यत इति कृत्वा तत्रापवादः स्मर्यते । श्तिपा शपाऽनुबन्धेन निर्द्दिष्ट्ंअ यद्गणेन च । यत्रैकाज्ग्रहणं किञ्चित्पञ्चैतानि न यङ्लुकि ॥ इति । तदहि शीङेऽनबन्धनिर्देशो यङ्लुङ्निवृत्यर्थः, शेश्यितः, शेश्यितवान् - ऽएरनेकाचःऽ इति यण् ॥