6-4-60 निष्ठायाम् अण्यदर्थे असिद्धवत् अत्र आभात् आर्धधातुके दीर्घः क्षियः
ण्यतः कृत्यस्यार्थो भावकर्मणी, ताभ्यामन्यत्र या निष्ठा, तस्यां क्षियो दीर्घो भवति। आक्षीणः। प्रक्षीणः। परिक्षीणः। अकर्मकत्वात् क्षियः कर्तरि क्तः। प्रक्षीणमिदं देवदत्तस्येति <<क्तोऽधिकरणे च ध्रौव्यगतिप्रत्यवसानार्थेभ्यः>>३.४.७६ इत्यधिकरणे क्त ः। अण्यदर्थ इति किम्? अक्षि॑तमसि॒ मा मे॑क्षेष्ठाः (तै०सं० १.६.५.१)। क्षितमिति भावे दीर्घाभावात् <<क्षियो दीर्घात्>> ८.२.४६ इति निष्ठानत्वमपि न भवति॥
ण्यदर्थो भावकर्मणी ततोऽन्यत्र निष्ठायां क्षियो दीर्घः स्यात् ॥
<<निष्ठायामण्यदर्थे>> - निष्ठायामण्यदर्थे । ण्यदर्तो भावकर्मणी इति ।ऋहलो॑रिति ण्यतः कृत्यसंज्ञकस्यतयोरेवे॑ति भावकर्मणोरेव प्रवृत्तेरिति भावः । ततोऽन्यत्रेति । कर्तरीत्यर्थः । क्तवताविति फलितम् । क्षियो दीर्घः स्यादिति । क्षिय इति पूर्वसूत्रमनुवर्तते,युप्लुवोर्दीर्घश्छन्दसी॑त्यतो दीर्घ इति चेति भावः ।
ण्यतः कृत्यस्यार्थो भावकर्मणी इति । यद्यपि भव्यगेयादावाप्लाव्यापात्यशब्दयोः कर्तापि पक्षे ण्यदन्तयोर्वाच्यः, तथापि क्षियः सन्निधानातदीयो ण्यदर्थ एव पर्युदस्यते । प्रक्षीणमिदं देवदतस्येति । अधिकरणवाचिनश्चेति कर्तरि षष्ठी । अधिकरण इति । क्तः प्रत्यय इत्यनुषङ्गः । एवमक्षितमिति भावे इत्यत्रापि ॥