7-2-47 इट् निष्ठायाम् आर्धधातुकस्य इट् वलादेः वा निरः कुषः
निरः कुषो निष्ठायामिडागमो भवति। निष्कुषितः। निष्कुषितवान्। इड्ग्रहणं नित्यार्थम्। आरम्भो हि <<यस्य विभाषा>> ७.२.१५ इत्यस्य बाधकः, अन्यथा हि विकल्पार्थ एव स्याद्। अत्रैव नित्यमिडागमः, उत्तरत्र विकल्प एवेति॥
निरः कुषो निष्ठाया इट् स्यात् । यस्य विभाषा <{SK3025}> इति निषेधे प्राप्ते पुनर्विधिः । निष्कुषितः ॥
<<इण्निष्ठायाम्>> - इण्निष्ठायाम् । 'निरः कुषः' इति सूत्रमनुवर्तते । तदाह — निर इति । ननुआर्धधातुकस्ये॑डित्येव सिद्धे किमर्थमिदं सूत्रमित्यत आह — यस्येति । कुषधातोस्तृजादौ 'निरः कुषः' इति पूर्वसूत्रेण वेट्कत्वात्यस्य विभाषे॑ति प्राप्तस्येण्निषेधस्य बाधनार्थं पुनरिह विधानमित्यर्थः । इडित्यनुवर्तमाने पुनरिड्ग्रहणं तुस्वरतिसूती॑त्यतो वाग्रहणानुवृत्तिनिवृत्तये ।
इडिति वर्तमाने पुनरिड्ग्रहणं किमर्थम् इत्यत आह - इड्ग्रहण नित्यार्थमिति । नन्वारम्भसामर्थ्यादेव नित्यमिड् भविष्यति, विकल्पस्य पूर्वोणेव सिद्धत्वात् इत्यत आह - आरम्भो हीति । यदि तर्हि नित्यार्थमिडग्रहणं क्रियते, उतरत्रापि नित्य एव विधिः स्यात् इत्यत ताअह - आत्रैवेति ॥