निष्ठोपसर्गपूर्वमन्यतरस्याम्

6-2-110 निष्ठा उपसर्गपूर्वम् अन्यतरस्याम् अन्तः बहुव्रीहौ

Kashika

Up

index: 6.2.110 sutra: निष्ठोपसर्गपूर्वमन्यतरस्याम्


बहुव्रीहौ समासे निष्ठान्तमुपसर्गपूर्वं पूर्वपदमनतरस्यामनतोदात्तं भवति। प्रधौतमुखः, प्रधौतमुखः प्रधौतमुखः। प्रक्षालितपादः, प्रक्षालितपादः। यदि मुखशब्दः स्वाङ्गवाची तदा पक्षे मुखं स्वाङ्गम् 6.2.167 इत्येतद् भवति, न चेत् पूर्वपदप्रकृतिस्वरत्वेन गतिरनन्तरः 6.2.49 इत्येतद् भवति। निष्ठा इति किम्? प्रसेचकमुखः। उपसर्गपूर्वम् इति किम्? शुष्कमुखः।

Siddhanta Kaumudi

Up

index: 6.2.110 sutra: निष्ठोपसर्गपूर्वमन्यतरस्याम्


निष्ठान्तं पूर्वपदमन्तोदात्तं वा । प्रधौतपादः । निष्ठा किम् । प्रसेवकमुखः । उपसर्गपूर्वं किम् । शुष्कमुखः ।

Padamanjari

Up

index: 6.2.110 sutra: निष्ठोपसर्गपूर्वमन्यतरस्याम्


प्रक्षालितपाद इति । क्षल शौचकर्मणि चुरादिः, धावु गातिशुद्ध्योः, च्छवोः, शूठ इत्युठ, एत्येधत्युठसु इति वृद्धिः, प्रक्षालितप्रधौतशब्दौ गतिस्वरेणाद्यौदातौ । मुखं स्वाङ्गमित्येतद्भवतीति । विकल्पितमुतरपदान्तोदातत्वम्, तेन स्वाङ्गवाचिनि मुखशब्दे स्वरत्रयं भवति - अनेन पूर्वपदान्तोदातत्वम्, मुखं स्वाङ्गम् इत्येतत्, उभाभ्यां मुक्ते पूर्वपदप्रकृतिभावेन गतिरनन्तरः इत्याद्यौदातत्वं च । न चेदिति । स्वाङ्वा चीति सम्बध्यते, यदि मुखशब्दः स्वाङ्गवाची न भवतीत्येर्थः । प्रसेचकशब्दः कुदुतरपदप्रकृतिस्वरेण मध्योदातः, शुष्कशब्दः शुष्कधुष्टौ इत्याद्यौदातः ॥