व्योर्लघुप्रयत्नतरः शाकटायनस्य

8-3-18 व्योः लघुप्रयत्नतरः शाकटायनस्य पदस्य पूर्वत्र असिद्धम् संहितायाम् भोभगोअघोअपूर्वस्य अशि

Sampurna sutra

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


पदस्य व्योः अशि लघुप्रयत्नतरः शाकटायनस्य

Neelesh Sanskrit Brief

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


शाकटायनस्य मतेन (इत्युक्ते विकल्पेन) पदान्त-वकार-यकारयोः स्थाने संहितायाम् अशि-परे लघूच्चारणौ वकार-यकारौ भवतः ।

Neelesh English Brief

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


In the context of संहिता, according to शाकटायन, the पदान्त-वकार and पदान्त-यकार, when followed by a letter from अश्-प्रत्याहार are converted respectively to लघु-उच्चारण-वकार and लघु-उच्चारण-यकार.

Kashika

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


वकारयकारयोः भोभगोअघोअवर्णपूर्वयोः पदान्तयो लघुप्रयत्नतर आदेशो भवति अशि परतः शाकटायनस्य आचर्यस्य मतेन। भोयत्र, भो अत्र। भगोयत्र, भगो अत्र। अघोयत्र, अभो अत्र। कयास्ते, क आस्ते। अस्मायुद्धर, अस्मा उद्धर। असवादित्यः, असा आदित्यः। द्वावत्र, द्वा अत्र। द्ववानय, द्वा आनय। लघुप्रयत्नतरत्वमुच्चारणे स्थानकरणशैथिल्यम्। स्थानं ताल्वादि। करणं जिह्वामूलादि। तयोरुच्चारणे शैथिल्यं मन्दप्रयत्नता।

Siddhanta Kaumudi

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


पदान्तयोर्वकारयकारयोर्लघूच्चारणौ वयौ वा स्तोऽशि परे । यस्योच्चारणे जिह्वाग्रोपाग्रमध्यमूलानां शैथिल्यं जायते स लघूच्चारणः ॥

Neelesh Sanskrit Detailed

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


अश् = सर्वे स्वराः + मृदुव्यञ्जनानि (वर्गतृतीयचतुर्थपञ्चमाः, अन्तःस्थाः, हकारः) । खर्-प्रत्याहास्थान् वर्णान् विहाय अन्ये सर्वे वर्णाः सर्वे अश्-प्रत्याहारे विद्यन्ते ।

अश्-वर्णे परे शाकटायनस्य मतेन पदान्तयकारस्य लघु-उच्चारण-यकारः तथा च पदान्तवकारस्य लघु-उच्चारण-वकारः भवति इति अस्य सूत्रस्य आशयः ।

लघुप्रयन्ततरः / लघूच्चारणः वर्णः — यस्य वर्णस्य स्पष्टरूपेण उच्चारणम् न भवति, तथा च यस्य वर्णस्य उच्चारणे स्थानस्य (तालुनः/कण्ठस्य/मूर्ध्नः/दन्तानाम्/ओष्ठयोः) तथा च करणस्य (जिह्वामूलस्य / जिह्वामध्यस्य / जिह्वाग्रस्य) शैथिल्यम् (मन्द-प्रयत्नः) जायते, तादृशः वर्णः लघु-उच्चारणवर्णः नाम्ना ज्ञायते । A letter that is pronounced indistinctly and has a shorter duration is called लघु-उच्चारण वर्ण) । एतादृशः लघूच्चारणवर्णः पदान्तयकारस्य पदान्तवकारस्य च स्थाने प्रकृतसूत्रेण विधीयते । स्थानसाधर्म्यात् यकारस्य स्थाने लघूच्चारणयकारः ( य्॔ ), वकारस्य च स्थाने लघूच्चारणवकारः ( व्॔ ) विधीयते इत्याशयः ।

The लघूच्चारणयकारः is shown as य्॔  and the लघूच्चारणवकारः is shown as व्॔  purely as a writing convention to show them separate from the normal यकार and वकार. It should be noted that this is not a standard convention. The script does not have separate marker for writing the लघूच्चारण versions, because these are mostly theoretical concepts these days.

उदाहरणानि एतानि —

  1. भगोस् ईश्वराः इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते ।

भोस् ईश्वराः

→ भगोरुँ ईश्वराः [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ भगोय् ईश्वराः [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]

→ भगोय्॔ ईश्वराः [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]

→ भगोयी॔श्वराः [वर्णमेलनम्]

अत्र भगोय् ईश्वराः अस्यां स्थितौ लघूच्चारणयकारः केवलम् विकल्पेन एव भवति । यत्र लघूच्चारणः यकारः न विधीयते, तत्र तु ओतो गार्ग्यस्य 8.3.20 इत्यनेन नित्यम् एव यकारलोपं कृत्वा भगो ईश्वराः इति अपि सिद्ध्यति ।

  1. देव + जस् + आयान्ति इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते —

देव + जस् + आगच्छन्ति

→ देवास् आगच्छन्ति [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]

→ देवारुँ आगच्छन्ति [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ देवाय् आगच्छन्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]

→ देवाय्॔ आगच्छन्ति [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]

→ देवाया॔गच्छन्ति ।

यत्र लघूच्चारणः यकारः न विधीयते, तत्र देवाय् आगच्छन्ति अस्यां स्थितौ लोपः शाकल्यस्य 8.3.19 इत्यनेन विकल्पेन यकारलोपं कृत्वा देवा आगच्छन्ति इति सिद्ध्यति । तस्य अपि अभावे केवलं वर्णमेलनं कृत्वा देवायागच्छन्ति इत्यपि सिद्ध्यति ।

  1. देव + जस् + यान्ति इत्यत्र सकारस्य रुत्वे, यकारादेशे च तस्य स्थाने विकल्पेन लघूच्चारणः यकारः विधीयते , तस्य च अग्रे नित्यम् लोपः अपि भवति —

देव + जस् + यान्ति

→ देवास् यान्ति [प्रथमयोः पूर्वसवर्णः 6.1.102 इति पूर्वसवर्णदीर्घः आकारः]

→ देवारुँ यान्ति [ससजुषो रुँः 8.2.66 इति पदान्तसकारस्य रुँत्वम् ]

→ देवाय् यान्ति [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति रुँ-इत्यस्य य्-आदेशः]

→ देवाय्॔ यान्ति [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन यकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः यकारः]

→ देवा यान्ति [हलि सर्वेषाम् 8.3.22 इति पदान्ते विद्यमानस्य लघूच्चारणयकारस्य लोपः]

पक्षे देवाय् आगाच्छन्ति अस्यां स्थितौ अपि हलि सर्वेषाम् 8.3.22 इत्यनेन यकारलोपं कृत्वा देवा यान्ति इत्येव सिद्ध्यति ।

  1. द्वौ + एतौ अत्र आवादेशे कृते वकारस्य प्रकृतसूत्रेण विकल्पेन लघूच्चारणः वकारः भवति —

द्वौ एतौ

→ द्वाव् एतौ [एचोऽयवायावः 6.1.78 इति आवादेशः]

→ द्वाव्॔ एतौ [व्योर्लघुप्रयत्नतरः शाकटायनस्य 8.3.18 इत्यनेन विकल्पेन वकारस्य अश्-वर्णे परे लघु-प्रयत्नतरः वकारः]

→ द्वावे॔तौ

लघूच्चारणवर्णस्य अभावे द्वाव् एतौ अस्यां स्थितौ लोपः शाकल्यस्य 8.3.19 इत्यनेन वकारलोपं कृत्वा द्वा एतौ इति सिद्ध्यति । तदभावे केवलं वर्णमेलनं कृत्वा द्वावेतौ इत्यपि सिद्ध्यति ।

Padamanjari

Up

index: 8.3.18 sutra: व्योर्लघुप्रयत्नतरः शाकटायनस्य


अतिशयेन लघुप्रयत्नःउलघुप्रयत्नतरः । वर्णोच्चारणहेतुरात्मधर्मः उ प्रयत्नः । उदाहरणेष्वान्तर्यतो वकारस्य वकारः, यकारस्य यकारः । किं पुनरिदं लघुप्रयत्नतरत्वम् ? इत्याह - लघुप्रयत्नतरत्वमिति । स्थानमुताल्वादि, जिह्वाया अग्रोपाग्रमध्यमूलानिउकरणानि, प्रयत्नस्य लघुत्वे तानि शिथिलानिउलघूनि भवन्ति ॥