दीर्घादटि समानपादे

8-3-9 दीर्घात् अटि समानपादे पदस्य पूर्वत्र असिद्धम् संहितायाम् रु नः

Sampurna sutra

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


दीर्घात् समानपादे पदस्य नः रुँ ऋक्षु अटि उभयथा

Neelesh Sanskrit Brief

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


वैदिकप्रक्रियायां दीर्घस्वरात् अनन्तरम् पदान्तनकारः, तदनन्तरं च समानपादे एव अट्-वर्णः अस्ति चेत् नकारस्य विकल्पेन रुँत्वम् भवति ।

Neelesh English Brief

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


In the context of वेदाः - If a पदान्त-नकार present after a दीर्घ स्वर is followed by a letter from the अट् प्रत्याहार in the same पाद, then the नकार is optionally converted to रुँ.

Kashika

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


नः इत्यनुवरते। दीर्घादुत्तरस्य पदान्तस्य नकारस्य रुः भवति अटि परतः, तौ चेन् निमित्तनिमित्तिनौ समानपादे भवतः। ऋक्षु इति प्रकृतत्वादृक्पादः इह गृह्यते। परिधींरति। देवाम्̐ अच्छा दीद्यत् महाम्̐ इन्द्रो य ओजसा। दीर्घातिति किम्? अहन्न्नहिम्। अटि इति किम्? इभ्यान् क्षत्रियान्। समनपादे इति किम्? यातुधानानुपस्पृशः। उभयथा इत्येव, आदित्यान् हवामहे।

Siddhanta Kaumudi

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


दीर्घान्नकारस्य रुर्वा स्यादटि तौ चेन्नाटौ एकपादस्थौ स्याताम् । देवां अच्छा सुमती (दे॒वां अच्छा॑ सुम॒ती) । महां इन्द्रो य ओजसा (म॒हां इन्द्रो॒ य ओज॑सा) । उभयथेत्यनुवृत्तेर्नेह । आदित्यान्याचिषामहे (आ॒दित्यान्या॑चिषामहे) ।

Neelesh Sanskrit Detailed

Up

index: 8.3.9 sutra: दीर्घादटि समानपादे


सूत्रपाठे मतुवसो रु सम्बुद्धौ छन्दसि 8.3.1 इत्यस्मात् सूत्रात् आरभ्य कानाम्रेडिते 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् नवमं सूत्रम् । आकारात् परस्य पदान्तनकारस्य समानपादे विद्यमाने अट्-वर्णे परे वैदिकप्रक्रियायां विकल्पेन रुँत्वम् भवति — इति अस्य सूत्रस्य अर्थः ।

अस्मिन् सूत्रे विद्यमानः 'समानपादे' इति शब्दः वैदिक-ऋचाम् पादस्य निर्देशं करोति । इत्युक्ते, यदि वेदमन्त्रस्य कस्मिंश्चित् पादे दीर्घस्वरात् अनन्तरम् पदान्तनकारः विद्यते, तस्मात् अनन्तरम् संहितायाम् तस्मिन्नेव पादे अट्-वर्णः अपि च विद्यते, तर्हि तस्य नकारस्य विकल्पेन ऋत्वम् भवति (इत्युक्ते, केषुचन स्थलेषु रुँत्वम् कृत्वा रूपं सिद्ध्यति, केषुचन अन्येषु स्थलेषु रुँत्वं विना रूपं सिद्ध्यति — इति अत्र आशयः अस्ति । यथा —

  1. देवाँ अच्छा सुमती (ऋग्वेदः 4.1.2) — इत्यत्र देवाँ अच्छा इति प्रयोगः इत्थं सिद्ध्यति —

देवान् + अच्छा

→ देवारुँ + अच्छा [दीर्घादटि समानपादे 8.3.9 इति वैकल्पिकं रुँत्वम् ]

→ देवाँरुँ + अच्छा [आतोऽटि नित्यम् 8.3.3 इति नित्यम् अनुनासिकत्वम् । अत्र अनुनासिकाभावः न विद्यते अतः अत्र अत्रानुनासिकः पूर्वस्य तु वा 8.3.2 इत्यनेन अनुस्वारः अपि न सम्भवति ।

→ देवाँय् + अच्छा [भोभगोअघोअपूर्वस्य योऽशि 8.3.17 इति यकारादेशः]

→ देवाँ अच्छा [लोपः शाकल्यस्य 8.3.19 इति यकारलोपः]

  1. आदित्यान् याचिषामहे (ऋग्वेदः 8.67.1) - अत्र आदित्यान् + याचिषामहे इत्यत्र यद्यपि पदान्तकारात् परः अट्-वर्णः समानपादे विद्यते, तथापि अत्र नकारस्य रुँत्वम् कृतम् नास्ति । अयम् रुँत्वाभावः अपि दीर्घादटि समानपादे 8.3.9 इत्यनेनैव विकल्पेन सिद्ध्यति ।

प्रकृतसूत्रेण रुँत्वे कृते आतोऽटि नित्यम् 8.3.3 इति नित्यम् अनुनासिकत्वम् एव सम्भवति । एवमेव, आतोऽटि नित्यम् 8.3.3 इति सूत्रस्य प्रसक्तिः प्रकृतसूत्रस्य प्रयोगात् अनन्तरम् एव सम्भवति । The रुँ created by the current sutra must always be converted to अनुनासिक using the आतोऽटि नित्यम् 8.3.3 sutra ; and the only use of आतोऽटि नित्यम् 8.3.3 sutra is to convert the रुँ of the current sutra to अनुनासिक.