आतोऽटि नित्यम्

8-3-3 आतः अटि नित्यम् पदस्य पूर्वत्र असिद्धम् संहितायाम् रु अत्र अनुनासिकः पूर्वस्य

Sampurna sutra

Up

अत्र पदस्य रोः पूर्वस्य आतः अटि नित्यमनुनासिकः

Neelesh Sanskrit Brief

Up

अस्य रुँत्वप्रकरणस्य सूत्रैः सिद्धः यः पदान्त रुँ-शब्दः, तस्मात् परः अट्-प्रत्याहारस्य वर्णः विद्यते चेत्, रुँ-इत्यस्मात् पूर्वम् विद्यमानस्य आकारस्य नित्यम् अनुनासिकादेशः भवति ।

Neelesh English Brief

Up

In this रूत्वप्रकरण, The रुँ that gets constructed at end of a पद causes an अनुनासिक of the आकार just preceding it.

Kashika

Up

अटि परतो रोः पूर्वस्याकारस्य स्थाने नित्यमनुनासिकादेशो भवति। <<दीर्घादटि समानपादे>>८.३.९ इति रुत्वं वक्ष्यति, ततः पूर्वस्यातोऽनुनासिकविकल्पे प्राप्ते नित्यार्थं वचनम्। म॒हाँ अ॑सि (ऋ०३.४६.२)। म॒हाँ इन्द्रो॒ य ओज॑सा (ऋ० ८.६.१)। दे॒वाँ अच्छा॒ दीद्य॑त् (ऋ० ३.१.१)। केचिदनुस्वारमधीयते, सच्छान्दसो व्यत्ययो द्रष्टव्यः। आत इति किम्? ये वा॒ वन॒स्पती॒ँ१रनु॑ (मा०सं० १३.७)। अटीति किम् ? भवांश्चरति। भवांश्छादयति। नित्यग्रहणं विस्पष्टार्थम्॥

Siddhanta Kaumudi

Up

अटि परतो रोः पूर्वस्यातः स्थाने नित्यमनुनासिकः । महाँ इन्द्रः (म॒हाँ इन्द्रः॑) । तैत्तिरीयास्तु अनुस्वारमधीयते । तत्र छान्दसो व्यत्यय इति प्राञ्चः । एवं च सूत्रस्य फलं चिन्त्यम् ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

सूत्रपाठे <<मतुवसो रु सम्बुद्धौ छन्दसि>> 8.3.1 इत्यस्मात् सूत्रात् आरभ्य <<कानाम्रेडिते>> 8.3.12 इति सूत्रम् यावत् द्वादशेषु सूत्रेषु 'रुँ' इति आदेशविधानम् क्रियते । अस्य रुत्वप्रकरणस्य इदम् तृतीयम् सूत्रम् । पदान्ते विद्यमानात् रुँत्वात् अनन्तरम् अट्-प्रत्याहारस्य वर्णः अस्ति चेत् तस्मात् रुँत्वात् पूर्वम् विद्यमानस्य आकारस्य <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति सूत्रेण विकल्पेन अनुनासिकादेशे प्राप्ते प्रकृतसूत्रेण तस्य नित्यम् विधानम् क्रियते । अट् = सर्वे स्वराः, य्, व्, र्, ह् । अट्-प्रत्याहारे लकारः नास्ति । यथा — महान् असि (ऋग्वेदे 3.46.2) → महारुँ असि [<<दीर्घादटि समानपादे>> 8.3.9 इत्यनेन सूत्रेण रुँत्वम्] → महाँरुँ असि [रुँत्वात् अनन्तरम् अट्-वर्णः (अकारः) अस्ति, रुँत्वम् पदान्ते विद्यते, तथा च रुँत्वात् पूर्वम् आकारः अपि अस्ति । अतः आकारस्य <<आतोऽटि नित्यम्>> 8.3.3 इति अनुनासिकादेशः भवति ] →‌महाँय् असि [<<भोभगोअघोअपूर्वस्य योऽशि>> 8.3.17 इति यकारादेशः] → महाँ असि [<<लोपः शाकल्यस्य>> 8.3.19 इति लोपः] अस्मिन् अधिकारे विद्यमानेन सूत्रेण प्राप्तस्य रुँत्वस्य विषये एव इदं सूत्रम् प्रयुज्यते । अतः 'विश्वपा सुँ अत्र' ईत्यादिषु स्थलेषु रुत्वे जाते प्रकृतसूत्रस्य प्रसक्तिः न विद्यते ।वस्तुतस्तु अस्मिन् रुत्वप्रकरणे अटि परे केवलम् <<दीर्घादटि समानपादे>> 8.3.9 इत्यनेनैव सूत्रेण रुँत्वम् सम्भवति, अतः प्रकृतसूत्रस्य प्रयोगः अपि <<दीर्घादटि समानपादे>> 8.3.9 इत्यस्मात् अनन्तरम् एव सम्भवति । <<दीर्घादटि समानपादे>> 8.3.9 इति सूत्रम् तु केवलं वैदिकप्रयोगानां विषये एव प्रवर्तते, अतः प्रकृतसूत्रस्य प्रयोगः अपि केवलम् वैदिकरूपाणाम् सिद्ध्यर्थम् एव भवति । सूत्रस्य फलम् चिन्त्यम् यद्यपि अनेन सूत्रेण आकारस्य अनुनासिकादेशः नित्यम् (compulsory) विधीयते, तथापि वेदेषु अनुनासिकादेशस्य स्थाने अनुस्वारस्य प्रयोगं कृत्वा प्रयोगाः कृताः दृश्यन्ते । यथा, देवां ऋतुभिः कल्पयाति (कृष्णयजुर्वेदः 1.1.14) इत्यत्र देवारुँ ऋतुभिः इति स्थिते आकारस्य प्रकृतसूत्रेण अनुनासिकादेशः नैव क्रियते, अपितु <<अनुनासिकात् परोऽनुस्वारः>> 8.3.4 इति अग्रिमसूत्रेण अनुस्वारागमः कृतः दृश्यते । इत्युक्ते, प्रकृतसूत्रस्य प्रयोगः विकल्पेनैव भवति इति आशयः । परन्तु विकल्पविधानं तु <<अत्रानुनासिकः पूर्वस्य तु वा>> 8.3.2 इति पूर्वसूत्रेणैव क्रियते । अतः यदि वैकल्पिकम् एव विधानम् इष्यते, तर्हि प्रकृतसूत्रम् नैव आवश्यकम् इति निष्कर्षः सिद्ध्यति । अतः एव सिद्धान्तकौमुद्याम् सूत्रस्य फलं चिन्त्यम् इति निर्देशः कृतः वर्तते । काशिकाकारः तु अत्र छान्दसः व्यत्ययः (वैदिकवाङ्मये विद्यमानः कश्चन अपवादः) इति निर्देशेन एतान् प्रयोगान्, सूत्रम् अपि च समर्थयति ।

Balamanorama

Up

Padamanjari

Up

केचिदिति । तैतिरीयाः । अनुस्वारमधीयत इति । शुद्धा दाकारात्परम् । नित्यग्रहणमनर्थकम्, अरम्भसामर्थ्यादेव नित्यो विधिः सिद्धः ? अस्त्यारम्भे प्रयोजनम् नियमो यथा स्यात् - आत एवाटि, अन्येषां तु नेति । कैमर्थ्यान्नियमो भवति विधेयं नास्तीति कृत्वा, इह चास्ति विधेयम्, किम् ? नित्योऽनुनासिकः ॥