नेट्यलिटि रधेः

7-1-62 न इट् अलिटि रधेः इदितः नुम् अचि

Sampurna sutra

Up

रधेः अलिटि इटि अचि नुम् न

Neelesh Sanskrit Brief

Up

रध्- धातोः इडागमे कृते नुमागमः न भवति । परन्तु लिट्-लकारस्य विषये तु इडागमे कृते अपि नुमागमः भवति ।

Neelesh English Brief

Up

For the verb root रध्, there is no नुमागम if an इडागम is done. However, in case of लिट्-लकार, नुमागम happens in-spite of इडागम.

Kashika

Up

इडादावलिटि प्रत्यये परे रधेर्नुमागमो न भवति। रधिता। रधितुम्। रधितव्यम्। इटीति किम्? रन्धनम्। रन्धकः। अलिटीति किम्? ररन्धिव। ररन्धिम। नुमि कृते संयोगान्तत्वाद् <<असंयोगाल्लिट् कित्>> १.२.५ इति कित्त्वं नास्तीति नलोपो न भवति। अथ क्वसौ कथं भवतिव्यम्? रेधिवानिति। कथम्? एत्वाभ्यासलोपयोः कृतयोरिडागमः क्रियते, ततो नुमागमः, तस्यौपदेशिककित्त्वाश्रयो लोपः। अथेटि लिटीत्येवं नियमः कस्माद् न क्रियते, लिट्येवेटि नान्यत्रेति? विपरीतमप्यवधारणं संभाव्येत, इट्येव लिटि नान्यत्रेति। तथा हि सति ररन्धेत्यत्र न स्यात्, रधितेत्यत्र च स्यादेव॥

Siddhanta Kaumudi

Up

निड्वर्जे इटि रधेर्नुम्न स्यात् । रधिता । रद्धा । रधिष्यति । रत्स्यति । अङि नुम् । अनिदिताम् - <{SK415}> इति नलोपः । अरधत् ।{$ {!1194 णश!} अदर्शने$} । नश्यति । ननाश । नेशतुः । नेशिथ ॥

Laghu Siddhanta Kaumudi

Up

Neelesh Sanskrit Detailed

Up

<<रधिजभोरचि>> 7.1.62 इत्यनेन रधँ (हिंसासंराध्योः, दिवादिः <{4.90}>) इति धातोः अजादिप्रत्यये परे नुमागमः विधीयते । यत्र प्रक्रियायाम् प्रत्ययः स्वयं अजादिः नास्ति, परन्तु प्रत्ययस्य इडागमः भवति, तत्रापि एतादृशः नुमागमः अवश्यं सम्भवति, यतः <<यदागमास्तद्गुणीभूतास्तद्ग्रहणेन गृह्यन्ते>> अनया परिभाषया प्रत्ययग्रहणेन इडागमस्य अपि ग्रहणं भवति । अस्यां स्थितौ वर्तमानसूत्रेण (लिट्-लकारं विहाय अन्यत्र सर्वत्र) अयं नुमागमः निषिध्यते । उदाहरणानि एतानि - 1. रध्-धातोः तव्यत्-प्रत्ययान्तरूपम् - रधँ (हिंसासंराध्योः, <{4.90}>) → रध् + तव्यत् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति तव्यत्-प्रत्ययः] → रध् + इट् + तव्य [<<रधादिभ्यश्च>> 7.2.45 इति वैकल्पिकः इडागमः] → रध् + इ + तव्य [<<रधिजभोरचि>> 7.1.61 इत्यनेन नुमागमे प्राप्ते <<नेट्यलिटि रधेः>> 7.1.62 इति निषेधः ।] → रधितव्य इडागमाभावे 'रद्धव्यम्' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपे तु अजादिप्रत्ययस्य अभावात् नुमागमस्य प्रसक्तिः एव न विद्यते । 2. रध्-धातोः लृट्-लकारस्य प्रथमैकवचनम् - रधँ (हिंसासंराध्योः, <{4.90}>) → रध् + लृट् [<<लृट् शेषे च>> 3.3.13 इति लृट्-लकारः] → रध् + स्य + लृट् [<<स्यतासी लृलुटोः>> 3.1.33 इति विकरणप्रत्ययः 'स्य'] → रध् + इट् + स्य + लृट् [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः] → रध् + इ + स्य + लृट् [<<रधादिभ्यश्च>> 7.2.45 इति वैकल्पिकः इडागमः । इडागमस्य पक्षे <<रधिजभोरचि>> 7.1.61 इत्यनेन नुमागमे प्राप्ते <<नेट्यलिटि रधेः>> 7.1.62 इति निषेधः ।] → रध् + इ + स्य + तिप् [<<तिप्तस्..>> 3.4.78 इति प्रथमपुरुषैकवचनस्य प्रत्ययः तिप्] → रधिष्यति [<<आदेशप्रत्यययोः>> 8.3.59 इति षत्वम्] इडागमाभावे 'रत्स्यति' इति अपि रूपं सिद्ध्यति । अस्मिन् रूपेे नुमागमस्य प्रसक्तिः एव न विद्यते । 3. लिट्-लकारस्य विषये तु इडागमे कृतेऽपि वर्तमानसूत्रेण नुमागमः नैव निषिध्यते, अतः अत्र नुमागमः अवश्यं करणीयः - रधँ (हिंसासंराध्योः, <{4.90}>) रध् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्] → रध् + रध् + लिट् [<<लिटिधातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] → र रध् + लिट् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य धकारलोपः] → र रध् + सिप् [<<तिप्तस्झि...>> 3.4.78 इति मध्यमपुरुषैकवचनस्य सिप्-प्रत्ययः] → र रध् + थल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति सिप्-प्रत्ययस्य थल्-आदेशः] → र रध् + इट् + थल् [<<रधादिभ्यश्च>> 7.2.45 इति वैकल्पिकः इडागमः । अत्र <<नेट्यलिटि रधेः>> 7.1.62 इति निषेधः नैव प्राप्नोति, सूत्रे 'अलिटि' इति निषेधात् ।] → र र नुम् ध् इ + थल् [<<रधिजभोरचि>> 7.1.61 इत्यनेन नुमागमः] → ररंधिथ [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः] → ररन्धिथ [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः नकारः] इडागमाभावे 'ररद्ध' इत्यत्र तु नुमागमस्य प्रसक्तिः एव नास्ति, यतः प्रत्ययस्थः थकारः अच् नास्ति । सूत्ररचनाविशेषाः 1. अत्र सूत्रे 'इटि अलिटि' इत्यत्र <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया तदादिविधिः कृतः अस्ति । अतः 'इडागमः यस्य आदौ विद्यते तादृशः लिट्-भिन्नः प्रत्ययः' इति अर्थः अत्र सिद्ध्यति । 2. 'अलिटि' इत्यत्र प्रसज्यप्रतिषेधपक्षः स्वीकरणीयः । यदि अत्र पर्युदासपक्षः स्वीक्रियते, तर्हि 'लिट्भिन्ने परन्तु तत्सदृशे (लकारप्रत्यये) परे इडागमे कृते नुमागमः न भवति' इति अर्थः जायेत , येन 'तृच्', 'तव्यत्' आदीनां विषये इडागमे कृते अपि अनिष्टः नुमागमः सम्भवेत् । प्रसज्यप्रतिषेधपक्षे तु 'लिटि इडागमे कृते नुमागमनिषेधः न भवति' इत्येव अर्थः सिद्ध्यति, येन अन्यत्र सर्वत्र इडागमे कृते नुमागमनिषेधः अवश्यं ज्ञाप्यते । शास्त्रविशेषाः लिट्-लकारस्य आदेशरूपेण विहितस्य क्वसुँ-प्रत्ययस्य विषये प्रक्रिया एतादृशी अस्ति - रधँ (हिंसासंराध्योः, <{4.90}>) → रध् + लिट् [<<छन्दसि लिट्>> 3.2.105 इति लिट्] → रध् + क्वसुँ [<<क्वसुश्च>> 3.2.107 इति क्वसुँ-आदेशः] → रध् रध् + वस् [<<लिटिधातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्] --> र रध् + वस् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य धकारलोपः] --> रेध् + वस् [<<अत एकहल्मध्येऽनादेशादेर्लिटि>> 6.4.120 इति एत्व-अभ्यासलोपौ । अत्र अजादिः प्रत्ययः नास्ति अतः अत्र नुमागमस्य प्रसक्तिरेव नास्ति ।] --> रेध् + इट् + वस् [<<वस्वेकाजाद्घसाम्>> 7.2.67 इति एकाच्-अङ्गात् विहितस्य वसुँ-प्रत्ययस्य इडागमः] --> रे न् ध् + इ + वस् [<<रधिजभोरचि>> 7.1.61 इति अजादिप्रत्यये परे नुमागमः । अत्र यद्यपि इडागमः अस्ति, तथापि अयं लिट्-लकारस्य विषयः, अतः <<नेट्यलिटि रधेः>> 7.1.62 इति निषेधः अत्र न प्रवर्तते ] --> रे ध् + इ + वस् [क्वसुँ-प्रत्ययस्य औपदेशिक-कित्त्वात् <<अनिदितां हल उपधायाः क्ङिति>> 6.4.24 इति उपधानकारलोपः] --> रेधिवस् शास्त्रसंवादः छात्रः - 'न इटि अलिटि रधेः' इति इदम् सूत्रम् । अत्र सूत्रे 'न' इत्यनेन एकः निषेधः उच्यते, 'अलिटि' इत्यनेन अपरः निषेधः उच्यते । एतादृशस्य द्विवारं कृतस्य निषेधस्य स्थाने 'इटि लिटि रधेः' इत्येव सरलं सूत्रम् स्थापनीयम् इति मे प्रतिभाति । आचार्यः - 'इटि लिटि रधेः' इत्यस्य कः अर्थः भवेत्? छात्रः - रध्-धातोः विषये इडागमे कृते <<रधिजभोरचि>> 7.1.61 इत्यनेनैव नुमागमे सिद्धे, 'इटि लिटि रधेः' इति वचनम् नियमार्थम् । रध्-धातोः इडागमे परे नुमागमः भवति चेत् लिट्-लकारस्य विषये एव, नान्यत्र इत्यर्थः । आचार्यः - परन्तु 'इटि लिटि रधेः' इत्यस्य कश्चन अन्यः अर्थः अपि सम्भवति । छात्रः - कः सः ? आचार्यः - 'इडागमे कृते एव लिट्-लकारस्य विषये नुमागमः, अन्यत्र तु इडागमे कृते अकृते अपि नुमागमः' इति । अयं तु अनुचितः अर्थः । नुमागमः केवलम् अजादिप्रत्यये परे एव इष्यते, अन्यत्र न । छात्रः - तर्हि तद्वारणाय 'एव' इति पदं स्थापयामः - 'इटि लिटि एव रधेः' इति । सन्धिं कृत्वा 'लिट्येवेटि रधेः' इति सूत्रम् । आचार्यः - तर्हि 'नेट्यलिटि रधेः' इति मूलसूत्रमेव स्यात्, यतः 'लिट्येवेटि रधेः' इत्यनेन न हि अल्पाक्षरत्वं किञ्चन लभ्यते । छात्रः - आम् । सत्यम् ।

Balamanorama

Up

<<नेट्यलिटि रधेः>> - नेटलिटि रधेः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — लिड्वर्जे इटीति । अङित्विति । पुषाद्यङि कृते सतीत्यर्थः । अरधदिति ।मो अहं द्विषतेऽरधम् ।॑ णश अदर्शने इति । णोपदेशोऽयं सेट् ।रधादिभ्यश्चे॑ति वट् । तत्र इट्पक्षे आह — नेशिथेति ।थलि च सेटी॑त्येत्त्वाभ्यासलोपाविति भावः । इडभावपक्षे ननश्- थ इति स्थिते —

Padamanjari

Up

नुमि कृते इत्यादि । ननु चेटि सत्यजादित्वान्नुमा भवितव्यम्, प्रागेव चेटः कित्वं प्राप्नोति न च अलिटि इत्यस्य वैयर्थ्यम्, थल्यर्थवत्वान् एवं हि धातोरित्यनुवृतेरुपदेश एव नुम् भवति । अचीत्येषा तु विपयसप्तमी । अथेति । येषां छान्दसः क्वसुस्तेषामेष विचारो नास्ति, च्छन्दसि दृष्टानुविधानात् । एत्वाभ्यासलोपयोः कृतयोरिति । वस्वेकाजाद्घसाम् इत्यत्र कृतद्विर्वचनानामेकाचां ग्रहणादेव मुक्तम् । तत्र नुमागम इति । अचीति वचनात् । तस्येत्यादि । यद्यपि ररन्धिवेत्यादिवत् क्वसावप्यातिदेशिकं कित्वं नास्ति, तथाप्यौपदेशिकं कित्वमाश्रित्य नलोपो भवतीत्यर्थः । अथेत्यादि । एवं सति नेटॡइटि इति द्वावपि प्रतिषेधौ न वक्तव्यौ भवत इति भावः । विपरीतमावधारणं सम्भाव्येतेति । एवकारे तु क्रियमाणे न लाघ्रवे विशेषः ॥