लृट् शेषे च

3-3-13 लृट् शेषे च प्रत्ययः परः च आद्युदात्तः च धातोः कृत् भविष्यति क्रियायां क्रियार्थायाम्

Sampurna sutra

Up

भविष्यति क्रियायाम् क्रियार्थायाम् , शेषे च लृट् ।

Neelesh Sanskrit Brief

Up

भविष्यकालं द्योतयितुम् क्रियार्थायाम् क्रियायाम्, तद्भिन्नायाम् च क्रियायाम् लृट्-लकारः भवति ।

Neelesh English Brief

Up

When a helper action is done for doing a main action in future (For example, 'going to school for studying'), the लृट्लकार can be used to denote the main action ('studying' in this example). In addition, the लृट्लकार can also be used to indicate a general action to be done in future, even when no helper action is indicated.

Kashika

Up

भविष्यतीत्येव। शेषः क्रियार्थोपपदादन्यः। शेषे शुद्धे भविष्यति काले, चकारात् क्रियायां चोपपदे क्रियार्थायां धातोर्लृट प्रत्ययो भवति। करिष्यामीति व्रजति। हरिष्यामीति व्रजति। शेषे खल्वपि — करिष्यति। हरिष्यति॥

Siddhanta Kaumudi

Up

भविष्यदर्थाद्धातोर्लृट् स्यात्क्रियार्थायां क्रियायामसत्यां सत्यां च । स्यः इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥

Laghu Siddhanta Kaumudi

Up

भविष्यदर्थाद्धातोर्लृट् क्रियार्थायां क्रियायां सत्यामसत्यां वा । स्यः । इट् । भविष्यति । भविष्यतः । भविष्यन्ति । भविष्यसि । भविष्यथः । भविष्यथ । भविष्यामि । भविष्यावः । भविष्यामः ॥

Neelesh Sanskrit Detailed

Up

अनेन सूत्रेण 'लृट्' लकारस्य विधानं क्रियते । अयम् लकारप्रत्ययः 'भविष्यति' इति कालम् निर्देष्टुम् द्वयोः अवस्थयोः प्रयुज्यते - 1. क्रियायाम् क्रियार्थायाम्, तथा च 2. तद्भिन्नायाम् क्रियायाम् (इत्युक्ते, शेषे) कः अर्थः? क्रमेण पश्यामः - 1. यत्र एकां क्रियां कर्तुम् द्वितीया क्रिया क्रियते, तत्र या क्रिया मुख्या अस्ति तस्याः निर्देशं कर्तुम् लृट्लकारः प्रयुज्यते । यथा, यदि रामः पठनक्रियार्थम् शालाम् गच्छति, तर्हि अत्र 'पठनक्रिया' मुख्या अस्ति, तथा गमनक्रिया 'क्रियार्था क्रिया' अस्ति । (पठन-क्रियार्थम् गमनक्रिया कृता, अतः इदम् नाम ।) अस्याम् स्थितौ मुख्यक्रियायाः निर्देशः लृट्लकारेण क्रियते । यथा - 'रामः पठिष्यतीति शालां गच्छति' । (<<तुमुन्ण्वुलौ क्रियायां क्रियार्थायाम्>>3.3.10 इत्यनेन अस्यां स्थितौ तुमुन् तथा ण्वुल् प्रत्ययौ अपि भवितुमर्हतः , अतः एतदेव वाक्यम् 'रामः पठितुम् शालां गच्छति' उत 'रामः पाठकः शालां गच्छति' अनयोः प्रकारयोः अपि वक्तुं शक्यते ।) अन्यानि उदाहरणानि - अ) सः विजेष्यते इति युद्ध्यति । (सः विजेतुम् युद्ध्यति इत्यर्थः । मुख्यक्रिया = विजनम् । क्रियार्थाक्रिया = योधनम् ) आ) कृष्णं द्रक्ष्यतीति अर्जुनः याति । (कृष्णं द्रष्टुमर्जुनः याति इत्यर्थः । मुख्यक्रिया = दर्शनम् । क्रियार्थाक्रिया = यानम् ) इ) वयं क्रीडिष्यामः इति गच्छामः । (वयं क्रीडितुम् गच्छामः इत्यर्थः । मुख्यक्रिया = क्रीडनम् । क्रियार्थाक्रिया = गमनम् ।) 2. 'शेषे' - इत्युक्ते, या क्रिया इदानीम् न आरब्धा, या च 'क्रियायाम् क्रियार्थायाम्' इत्यनेन अपि न निर्दिश्यते, ताम् दर्शयितुम् लृट्-लकारस्य प्रयोगः भवति । यथा - रामः सायं वनम् गमिष्यति । युवाम् कदा कार्यम् करिष्यथः? । वयम् व्याकरणम् पठिष्यामः । ज्ञातव्यम् - 1. 'क्रियायाम् क्रियार्थायाम्' इति सति-सप्तमी अस्ति । 'क्रियार्थायाम् सत्याम् क्रियायाम् लृट् भवति' इति अन्वयः । इत्युक्ते, यत्र क्रियार्था-क्रिया उपस्थिता अस्ति, तत्र मुख्यक्रिया लृट्-लकारेण दर्श्यते । 2. अनेन सूत्रेण अद्यतन/अनद्यतन-भविष्यकालार्थम् लृट्-प्रत्ययः एव विधीयते । परन्तु <<अनद्यतने लुट्>> 3.3.15 इत्यनेन अनद्यतन-भविष्यकालार्थमपवादत्वेन लृट्-लकारस्य विधानम् कृतमस्ति । अतः क्रियार्था क्रिया नास्ति चेत् अनद्यतन-भविष्यकालार्थम् लुट्-लकारः एव प्रयोक्तव्यः । यथा - सः श्वः गन्ता । अन्यत्र सर्वत्र लृट्-लकारस्य प्रयोगः भवितुमर्हति । यथा - सः अद्य श्वः वा गमिष्यति ।

Balamanorama

Up

<<लृट् शेषे च>> - लृट् शेषे च ।तुमुन्ण्वुलौ क्रियायां क्रियार्थाया॑मिति प्रागुक्तं,ततोऽन्यः शेष इत्याह -असत्यामिति । चार्थमाह — सत्यमिति । हरदत्तस्त्वाह — अस्वरितत्वादेव क्रियार्थायां क्रियायामिति नानुवर्तते । एवं चशेषे चे॑ति सुत्यजमिति । तच्चिन्त्यम् ।शयिष्यत इति स्थीयते॑ इत्यादौ तुमुना लृटो बाधापत्तेः, क्तल्युट्तुमुन्खलर्थेषु वासरूपविधेरभावात् । अत्र च ज्ञापकंप्रैषातिसर्गप्राप्तकालेषु कृत्याश्चे॑त्यत्र लोटा बाधा मा भूदिति पुनः कृत्यविधि॑रित्यादि कृदन्ते वक्ष्यति । इदमपि ज्ञापकमित्यन्यदेतत् । यत्तु प्राचा — भविष्यतीति व्रजती॑त्युदाहृतं, तदापाततः,तुमुन्विषयेऽपि लृड्भवति तुमुना लृण्न बाध्यते॑ इत्येतत्प्रतिपादनाय तस्याऽनुपयोगात्,न हि भविष्यतीत्यत्र कर्तरि तुमुनः प्राप्तिरस्ति,भावे हि सः । समानकर्तृकेष्वेवेति च वक्ष्यते । लृडित्येतावत्सूत्रकरणेऽपिभविष्यतीति व्रजती॑त्ययं सिध्यत्येवेत्यास्तां तावत् । स्य इडिति । लृटस्तिपिस्यतासी लृलुटो॑रिति स्यप्रत्ययः । तस्य वलाद्यार्धधातुकत्वादिडागम इत्यर्थः । भविष्यतीति । स्यप्रत्ययस्य इटि ऊकारस्य गुणे अवादेशे प्रत्ययावयवत्वत्सकारस्य षत्वे भविष्यतीति रूपमित्यर्थः । तसादौ भविष्यत इत्याद्यप्येवं योज्यम् । भविष्यामीत्यादौअतो दीर्घो यञी॑ति दीर्घः । इति लृट्प्रक्रिया ।

Padamanjari

Up

शेषः क्रियार्थोपपदादन्य उच्यते इति । क्रिया क्रियार्थोपपदं यस्मिन् भविष्यति काले ततोऽन्यो भविष्यदित्यर्थः । चकारादिति । यदि तहि शेषे चाशेषे च भवति लृडित्येवास्तु, क्रियायां क्रियार्थायामिति निवर्तिष्यते, तेन सर्वत्र भविष्यति ? एवमपि शेष एव स्यात्, अशेषे तु तुमुन्ण्वुलौ बाधकौस्याताम् । वासरूपविधिना लृडपि भविष्यति । तदेतत्'शेषे च' इति वचनं चिन्त्यप्रयोजनम् । करिष्यामीति व्रजतीति । इतिशब्दः परस्परसम्बन्धज्ञापनार्थः ॥