7-1-63 रभेः अशब्लिटोः इदितः नुम् अचि
index: 7.1.63 sutra: रभेरशब्लिटोः
रभेः अ-शप्-लिटोः अचि नुम्
index: 7.1.63 sutra: रभेरशब्लिटोः
रभ्-धातोः शप्-प्रत्ययं लिट्-लकारं च विहाय अन्येषु अजादिप्रत्ययेषु परेषु नुमागमः भवति ।
index: 7.1.63 sutra: रभेरशब्लिटोः
The verb root रभ् which is followed by an अजादि प्रत्यय gets a नुमागम. But this नुमागम is not seen in presence of शप् विकरणप्रत्यय as well as in presence of लिट्-लकार.
index: 7.1.63 sutra: रभेरशब्लिटोः
रभेरङ्गस्य शब्लिड्वर्जितेऽजादौ प्रत्यये परतो नुमागमो भवति। आरम्भयति। आरम्भकः। साध्वारम्भी। आरम्भमारम्भम्। आरम्भो वर्तते। अशब्लिटोः इति किम्? आरभते। आरेभे। अचि इत्येव, आरब्धा।
index: 7.1.63 sutra: रभेरशब्लिटोः
रभेर्नुम् स्यादचि न तु शब्लिटोः ॥
index: 7.1.63 sutra: रभेरशब्लिटोः
रभँ (राभस्ये, भ्वादिः, आत्मनेपदी, प्रायेण आङ्-पूर्वः, <{1.1129}>) इति धातोः अजादिप्रत्यये परे नुमागमः भवति । परन्तु शप्-विकरणप्रत्यये परे, लिट्-लकारस्य विषये च अयं नुमागमः न क्रियते । उदाहरणानि एतानि -
1) रभ्-धातोः घञ्-प्रत्यये परे प्रक्रिया -
रभँ (राभत्स्ये)
→ आ + रभ् + घञ् [भावे 3.3.18 इति घञ्]
→ आ + रभ् + अ [इत्संज्ञालोपः]
→ आ + र नुम् भ् + अ [रभेरशब्लिटोः 7.1.63 इत्यनेन अचि परे रभ्-धातोः नुमागमः। मिदचोऽन्त्यात्परः 1.1.47 इति सः अन्त्यात् अचः परः ।]
→ आ र न् भ् अ [इत्संज्ञालोपः]
→ आरंभ [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ आरम्भ [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः]
2) रभ्-धातोः णिच्-प्रत्यये परे प्रक्रिया -
रभँ (राभत्स्ये)
→ आ + रभ् + णिच् [हेतुमति च 3.1.26 इति णिच्]
→ आ + रभ् + इ [इत्संज्ञालोपः]
→ आ + र नुम् भ् + इ [रभेरशब्लिटोः 7.1.63 इत्यनेन अचि परे रभ्-धातोः नुमागमः। मिदचोऽन्त्यात्परः 1.1.47 इति सः अन्त्यात् अचः परः । अत्र अतः उपधायाः 7.2.116 इत्यनेन परत्वात् प्राप्तम् उपधावृद्धिकार्यम् वर्तमानसूत्रेण नित्यत्वात् बाधते । अतः अत्र नुमागमः एव भवति ।]
→ आ र न् भ् इ [इत्संज्ञालोपः]
→ आरंभि [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ आरम्भि [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः । सनाद्यन्ता धातवः 3.1.32 इति धातुसंज्ञा ।]
3) रभ्-धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -
रभँ (राभत्स्ये)
→ आ + रभ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ आ + रभ् + त [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ आ + रभ् + शप् + त [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप् । शप्-प्रत्ययस्य उपस्थितौ रभेरशब्लिटोः 7.1.63 इत्यस्य प्रसक्तिः नास्ति, अतः नुमागमः न भवति ।]
→ आ + रभ् + अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]
→ आरभते
4) रभ्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनम् -
रभँ (राभत्स्ये)
→ आ + रभ् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ आ + रभ् + रभ् + लिट् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ आ + र + रभ् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य भकारलोपः]
→ आ + र रभ् + त [तिप्तस्झि... 3.4.78 इति प्रथमपुरुषैकवचनस्य त-प्रत्ययः]
→ आ रेभ् + त [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः, धातोः अकारस्य च एकारः]
→ आ + रेभ् + एश् [लिटस्तझयोरेशिरेच् 3.4.81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः । यद्यपि अयम् अजादिः आदेशः, तथापि अयं लिट्-लकारस्य स्थाने विधीयते, अतः अत्र रभेरशब्लिटोः 7.1.63 इति नुमागमः न भवति ।]
→ आरेभे [शकारस्य इत्संज्ञालोपः]
<ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया अत्र 'अचि' इत्यस्य अर्थः 'अजादौ' इति क्रियते ।
'अशब्लिटोः' इति अत्र प्रसज्यप्रतिषेधः अस्ति । यदि अत्र पर्युदासः स्वीक्रियते, 'तर्हि शप्-लिट्-भिन्ने परन्तु तत्सदृशे (= विकरणसंज्ञके लकारसंज्ञके वा) अजादिप्रत्यये परे नुमागमः भवेत्' इति अनुचितः अर्थः सम्भवति, येन घञ्/अनीयर्-आदीनां विषये अनिष्टरूपाणि सिद्ध्येयुः । प्रसज्यप्रतिषेधे तु 'अजादिप्रत्यये परे नुमागमः भवति, शपि लटि च न भवति' इति इष्टः अर्थः सिद्ध्यति ।
index: 7.1.63 sutra: रभेरशब्लिटोः
रभेरशब्लिटोः - रभेरशब्लिटोः ।इदितो नुम्धातोरित्यतो नुमिति ।रधिजभोरची॑त्यतोऽचीति चानुवर्तते । तदाह — रभेर्नुमित्यादि ।
index: 7.1.63 sutra: रभेरशब्लिटोः
रभ राभस्ये, अनुदातेत् ॥