रधिजभोरचि
7-1-61 रधिजभोः अचि इदितः नुम्
Sampurna sutra
Up
रधि-जभोः अचि नुम्
Neelesh Sanskrit Brief
Up
रध्-धातोः जभ्-धातोः च अजादिप्रत्यये परे नुमागमः भवति ।
Neelesh English Brief
Up
The verb roots रध् and जभ् get a नुमागम when followed by an अजादि प्रत्यय.
Kashika
Up
रधि जभि इत्येतयोरजादौ प्रत्यये नुमागमो भवति। रन्धयति। रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वात्। अचीति किम्? रद्धा। जभ्यम्॥
Siddhanta Kaumudi
Up
एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे ।{$ {!390 शल्भ!} कत्थने$} । शशल्भे ।{$ {!391 वल्भ!} भोजने$} । दन्त्योष्ठ्यादिः । ववल्भे ।{$ {!392 गल्भ!} धाष्टर्थे$} । गल्भते ।{$ {!393 श्रम्भु!} प्रमादे$} । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते ।{$ {!394 ष्टुभु!} स्तम्भे$} । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ परस्मौपदिनः ॥{$ {!395 गुपू!} रक्षणे$} ॥
Laghu Siddhanta Kaumudi
Up
Neelesh Sanskrit Detailed
Up
रधँ (हिंसासंराध्योः, दिवादिः, <{4.90}>), तथा च जभीँ (गात्रविनामे, भ्वादिः, <{1.453}>) एतयोः धात्वोः अजादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि -
1. रध् धातोः अनीयर्-प्रत्ययान्तरूपम् -
रधँ (हिंसासंराध्योः)
→ रध् + अनीयर् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति तव्यत्-प्रत्ययः]
→ रन् ध् + अनीय [<<रधिजभोरचि>> 7.1.61 इति नुमागमः । <<मिदचोऽन्त्यात्परः>> 1.1.47 इति अयम् अन्त्यात् अचः परः विधीयते ।]
→ रं ध् + अनीय [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ रन्धनीय [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
2. रध्-धातोः लिट्-लकारस्य प्रथमपुरुषैकवचनस्य प्रक्रिया इयम् -
रध् + लिट् [<<परोक्षे लिट्>> 3.2.115 इति लिट्]
→ रध् + रध् + लिट् [<<लिटिधातोरनभ्यासस्य>> 6.1.8 इति द्वित्वम्]
→ र रध् + लिट् [<<हलादि शेषः>> 7.4.60 इति अभ्यासस्य धकारलोपः]
→ र रध् + तिप् [<<तिप्तस्झि...>> 3.4.78 इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ र रध् + णल् [<<परस्मैपदानां णलतुसुस्थलथुसणल्वमाः>> 3.4.82 इति तिप्-प्रत्ययस्य णल्-आदेशः]
→ र र नुम् ध् + अ [<<रधिजभोरचि>> 7.1.61 इत्यनेन नुमागमः]
→ ररंध [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ ररन्ध [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इतो परसवर्णः नकारः]
ज्ञातव्यम् - रध्-धातोः सार्वधातुक-लकाराणाम् रुपेषु 'श्यन्' इति हलादिविकरणप्रत्ययः विधीयते, अतः तेषु रूपेषु अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव अत्र लिट्लकारस्य उदाहरणम् प्रदर्शितम् अस्ति ।
2. जभ्-धातोः तव्यत्-प्रत्यये परे रूपम् -
जभ् + तव्यत् [<<तव्यत्तव्यानीयरः>> 3.1.96 इति तव्यत्-प्रत्ययः]
→ जभ् + इट् + तव्य [<<आर्धधातुकस्य इड्वलादेः>> 7.2.35 इति इडागमः]
→ जन् भ् + इ + तव्य [<<यदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्ते>> अनया परिभाषया इट्-आगमः प्रत्ययस्यैव अवयवरूपेण कार्यम् करोति । अतः अत्र 'इतव्य' इति अजादिप्रत्ययः अस्ति । अतः <<रधिजभोरचि>> 7.1.61 इति नुमागमः भवति ।]
→ जंभितव्य [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ जम्भितव्य [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
3. जभ् धातोः लट्-लकारस्य प्रथमपुरुषैकवचनम् -
जभ् + लट् [<<वर्तमाने लट्>> 3.2.123 इति लट्]
→ जभ् + त [<<तिप्तस्..>> 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ जभ् + शप् + त [<<कर्तरि शप्>> 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ जन् भ् + अ + त [<<रधिजभोरचि>> 7.1.61 इति नुमागमः]
→ जन् भ् + अ + ते [<<टित आत्मनेपदानां टेरे>> 3.4.79 इति एकारः]
→ जं भ ते [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
→ जम्भते [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
सूत्रविशेषाः
1. अत्र 'रधिजभोः' इत्यत्र 'रधि' तथा 'जभि' इति निर्देशौ <!इक्श्तिपौ धातुनिर्देशे!> इति वार्त्तिकमनुसृत्य इक्-प्रत्ययेन सह कृतौ स्तः ।
2. अत्र 'रधि' इत्यनेन रधिँ (भाषायाम्, चुरादिः <{10.326}>) तथा च 'जभि' इत्यनेन जभिँ (नाशने, चुरादिः, <{10.241}>) एतयोः ग्रहणं नैव क्रियते, यतः तयोः विषये <<इदितो नुम् धातोः>>
7.1.58 इत्यनेन नित्यमेव नुम् विधीयते ।
3. <<यस्मिन् विधिः तदादौ अल्ग्रहणे>> अनया परिभाषया 'झलि' इत्यस्य अर्थः 'झलादौ' इति क्रियते ।
बाध्यबाधकभावः
1. रध्-धातुः <<रधादिभ्यश्च>>
7.2.45 इत्यनेन वेट् अस्ति । अतः अस्मात् धातोः विहितस्य वलादि-आर्धधातुकप्रत्ययस्य विकल्पेन इडागमः भवति । इडागमस्य उपस्थितौ अपि वर्तमानसूत्रेण नुमागमे प्राप्ते <<नेट्यलिटि रधेः>>
7.1.62 इत्यनेन लिट्-लकारम् विहाय अन्यत्र सर्वत्र सः निषिध्यते ।
2. रध्-धातोः अजादौ णिति ञिति प्रत्यये परे वस्तुतः परत्वात् <<अत उपधायाः>>
7.2.116 इति उपधावृद्धिः सम्भवति । परन्तु वर्तमानसूत्रे निर्दिष्टः नुमागमः वृद्धेः अपेक्षया नित्यकार्यम् अस्ति, अतः <<परान्नित्यं बलवत्>> इत्यनया परिभाषया अयं नुमागमः वृद्धिकार्यं बाधते -
रध् + ण्वुल् [<<ण्वुल्तृचौ>> 3.1.133 ]
--> रध् + अक [<<युवोरनाकौ>> 7.1.1 ]
--> र न् ध् + अक [<<अत उपधायाः>> 7.2.116 इत्यनेन प्राप्तं वृद्धिकार्यं नित्यत्वात् बाधित्वा <<रधिजभोरचि>> 7.1.61 इति नुमागमः भवति]
--> रंधक [<<नश्चापदान्तस्य झलि>> 8.3.24 इति अनुस्वारः]
--> रन्धक [<<अनुस्वारस्य ययि परसवर्णः>> 8.4.58 इति परसवर्णः मकारः]
Balamanorama
Up
<<रधिजभोरचि>> - रधिजभोः ।रध हिंसाया॑मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — एतयोरिति । अनिदित्त्वान्नुम्विधिः । जम्भत इति । शपि नुम् ।जम्भिते॑त्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदेशोऽयम् । विष्टोभत इति ।उपसर्गात्सुनोती॑ति षत्वम् । व्यष्टोभिष्टेति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्,ण इति । ऊदिदयम् ।
Padamanjari
Up
रध हिंसासंराध्योः जभ जृभी गात्रविनामे, इहास्य नुमोऽवकाशः - रन्धनम्, ररन्धतुरित्यादि, अत उपधायाः वृद्धेरवकाशः - पाचकः, पाठकः, रन्धकैत्यादावुभयप्रसङ्गे परत्वाद्वद्धिः प्राप्नोति तत्राह - परापि सतीति । वृद्धिस्तु नुमि कृते न प्राप्नोति, अकारस्यानुपधात्वादित्यनित्या । रद्धेति । रधादिभ्यश्चेति पक्षे इडभावः झपस्तथोर्धोऽधः इति तकारस्य धत्वम् । इह जभेरचि रधेलिटि च नेटि - इति सूत्रन्यासः कर्तव्यः तथा तु न कृतमित्येव ॥