7-1-61 रधिजभोः अचि इदितः नुम्
index: 7.1.61 sutra: रधिजभोरचि
रधि-जभोः अचि नुम्
index: 7.1.61 sutra: रधिजभोरचि
रध्-धातोः जभ्-धातोः च अजादिप्रत्यये परे नुमागमः भवति ।
index: 7.1.61 sutra: रधिजभोरचि
The verb roots रध् and जभ् get a नुमागम when followed by an अजादि प्रत्यय.
index: 7.1.61 sutra: रधिजभोरचि
रधि जभि इत्येतयोः अजादौ प्रत्यये नुमागमो भवति। रन्धयति? रन्धकः। साधुरन्धी। रन्धंरन्धम्। रन्धो वर्तते। जम्भयति। जम्भकः। साधुजम्भी। जम्भंजम्भम्। जम्भो वर्तते। परापि सती वृद्धिर्नुमा बाध्यते, नित्यत्वातचि इति किम्? रद्धा। जभ्यम्।
index: 7.1.61 sutra: रधिजभोरचि
एतयोर्नुमागमः स्यादचि । जम्भते । जजम्भे । जम्भिता । जम्भिष्ट । जृम्भते । जजृम्भे ।{$ {!390 शल्भ!} कत्थने$} । शशल्भे ।{$ {!391 वल्भ!} भोजने$} । दन्त्योष्ठ्यादिः । ववल्भे ।{$ {!392 गल्भ!} धाष्टर्थे$} । गल्भते ।{$ {!393 श्रम्भु!} प्रमादे$} । तालव्यादिर्दन्त्यादिश्च । श्रम्भते । स्रम्भते ।{$ {!394 ष्टुभु!} स्तम्भे$} । स्तोभते । विष्टोभते । तुष्टुभे । व्यष्टोभिष्ट ॥ अथ परस्मौपदिनः ॥{$ {!395 गुपू!} रक्षणे$} ॥
index: 7.1.61 sutra: रधिजभोरचि
रधँ (हिंसासंराध्योः, दिवादिः, <{4.90}>), तथा च जभीँ (गात्रविनामे, भ्वादिः, <{1.453}>) एतयोः धात्वोः अजादि-प्रत्यये परे नुमागमः भवति । उदाहरणानि एतानि -
रधँ (हिंसासंराध्योः)
→ रध् + अनीयर् [तव्यत्तव्यानीयरः 3.1.96 इति तव्यत्-प्रत्ययः]
→ रन् ध् + अनीय [रधिजभोरचि 7.1.61 इति नुमागमः । मिदचोऽन्त्यात्परः 1.1.47 इति अयम् अन्त्यात् अचः परः विधीयते ।]
→ रं ध् + अनीय [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ रन्धनीय [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
रध् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ रध् + रध् + लिट् [लिटिधातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ र रध् + लिट् [हलादि शेषः 7.4.60 इति अभ्यासस्य धकारलोपः]
→ र रध् + तिप् [तिप्तस्झि... 3.4.78 इति मध्यमपुरुषैकवचनस्य तिप्-प्रत्ययः]
→ र रध् + णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तिप्-प्रत्ययस्य णल्-आदेशः]
→ र र नुम् ध् + अ [रधिजभोरचि 7.1.61 इत्यनेन नुमागमः]
→ ररंध [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ ररन्ध [अनुस्वारस्य ययि परसवर्णः 8.4.58 इतो परसवर्णः नकारः]
ज्ञातव्यम् - रध्-धातोः सार्वधातुक-लकाराणाम् रुपेषु 'श्यन्' इति हलादिविकरणप्रत्ययः विधीयते, अतः तेषु रूपेषु अस्य सूत्रस्य प्रसक्तिः नास्ति । अतएव अत्र लिट्लकारस्य उदाहरणम् प्रदर्शितम् अस्ति ।
जभ् + तव्यत् [तव्यत्तव्यानीयरः 3.1.96 इति तव्यत्-प्रत्ययः]
→ जभ् + इट् + तव्य [आर्धधातुकस्य इड्वलादेः 7.2.35 इति इडागमः]
→ जन् भ् + इ + तव्य [<ऽयदागमास्तद्गुणीभूताः तद्ग्रहणेन गृह्यन्तेऽ> अनया परिभाषया इट्-आगमः प्रत्ययस्यैव अवयवरूपेण कार्यम् करोति । अतः अत्र 'इतव्य' इति अजादिप्रत्ययः अस्ति । अतः रधिजभोरचि 7.1.61 इति नुमागमः भवति ।]
→ जंभितव्य [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ जम्भितव्य [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
जभ् + लट् [वर्तमाने लट् 3.2.123 इति लट्]
→ जभ् + त [तिप्तस्.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ जभ् + शप् + त [कर्तरि शप् 3.1.68 इति औत्सर्गिकम् विकरणम् शप्]
→ जन् भ् + अ + त [रधिजभोरचि 7.1.61 इति नुमागमः]
→ जन् भ् + अ + ते [टित आत्मनेपदानां टेरे 3.4.79 इति एकारः]
→ जं भ ते [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
→ जम्भते [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
अत्र 'रधिजभोः' इत्यत्र 'रधि' तथा 'जभि' इति निर्देशौ <!इक्श्तिपौ धातुनिर्देशे!> इति वार्त्तिकमनुसृत्य इक्-प्रत्ययेन सह कृतौ स्तः ।
अत्र 'रधि' इत्यनेन रधिँ (भाषायाम्, चुरादिः <{10.326}>) तथा च 'जभि' इत्यनेन जभिँ (नाशने, चुरादिः, <{10.241}>) एतयोः ग्रहणं नैव क्रियते, यतः तयोः विषये इदितो नुम् धातोः 7.1.58 इत्यनेन नित्यमेव नुम् विधीयते ।
<ऽयस्मिन् विधिः तदादौ अल्ग्रहणेऽ> अनया परिभाषया 'झलि' इत्यस्य अर्थः 'झलादौ' इति क्रियते ।
रध्-धातुः रधादिभ्यश्च 7.2.45 इत्यनेन वेट् अस्ति । अतः अस्मात् धातोः विहितस्य वलादि-आर्धधातुकप्रत्ययस्य विकल्पेन इडागमः भवति । इडागमस्य उपस्थितौ अपि वर्तमानसूत्रेण नुमागमे प्राप्ते नेट्यलिटि रधेः 7.1.62 इत्यनेन लिट्-लकारम् विहाय अन्यत्र सर्वत्र सः निषिध्यते ।
रध्-धातोः अजादौ णिति ञिति प्रत्यये परे वस्तुतः परत्वात् अत उपधायाः 7.2.116 इति उपधावृद्धिः सम्भवति । परन्तु वर्तमानसूत्रे निर्दिष्टः नुमागमः वृद्धेः अपेक्षया नित्यकार्यम् अस्ति, अतः <ऽपरान्नित्यं बलवत्ऽ> इत्यनया परिभाषया अयं नुमागमः वृद्धिकार्यं बाधते -
रध् + ण्वुल् [ण्वुल्तृचौ 3.1.133 ]
--> रध् + अक [युवोरनाकौ 7.1.1 ]
--> र न् ध् + अक [अत उपधायाः 7.2.116 इत्यनेन प्राप्तं वृद्धिकार्यं नित्यत्वात् बाधित्वा रधिजभोरचि 7.1.61 इति नुमागमः भवति]
--> रंधक [नश्चापदान्तस्य झलि 8.3.24 इति अनुस्वारः]
--> रन्धक [अनुस्वारस्य ययि परसवर्णः 8.4.58 इति परसवर्णः मकारः]
index: 7.1.61 sutra: रधिजभोरचि
रधिजभोरचि - रधिजभोः ।रध हिंसाया॑मिति श्यन्विकरणस्य चतुर्थान्तस्य इका निर्देशः ।इदितो नुम् धातो॑रित्यतो नुमित्यनुवर्तते । तदाह — एतयोरिति । अनिदित्त्वान्नुम्विधिः । जम्भत इति । शपि नुम् ।जम्भिते॑त्यादाविटि अच्परकत्वान्नुम् । अचि किम् । रद्धा । जब्धम् । श्रम्भु इति । अकारमध्यः । ष्टुभु स्तम्भ इति । ष्टुत्वेन तकारस्य टः । षोपदेशोऽयम् । विष्टोभत इति ।उपसर्गात्सुनोती॑ति षत्वम् । व्यष्टोभिष्टेति ।प्राक्सितादड्व्यवायेऽपी॑ति षत्वम् । तिपृ इत्यादयः स्तोभत्यन्ता अनुदात्तेतो गताः । गुपू रक्,ण इति । ऊदिदयम् ।
index: 7.1.61 sutra: रधिजभोरचि
रध हिंसासंराध्योः जभ जृभी गात्रविनामे, इहास्य नुमोऽवकाशः - रन्धनम्, ररन्धतुरित्यादि, अत उपधायाः वृद्धेरवकाशः - पाचकः, पाठकः, रन्धकैत्यादावुभयप्रसङ्गे परत्वाद्वद्धिः प्राप्नोति तत्राह - परापि सतीति । वृद्धिस्तु नुमि कृते न प्राप्नोति, अकारस्यानुपधात्वादित्यनित्या । रद्धेति । रधादिभ्यश्चेति पक्षे इडभावः झपस्तथोर्धोऽधः इति तकारस्य धत्वम् । इह जभेरचि रधेलिटि च नेटि - इति सूत्रन्यासः कर्तव्यः तथा तु न कृतमित्येव ॥