रधादिभ्यश्च

7-2-45 रधादिभ्यः च आर्धधातुकस्य इट् वलादेः वा

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

<<रध हिंसासंराद्ध्योः>> इत्येवमादिभ्योऽष्टाभ्य उत्तरस्य वलादेरार्धधातुकस्य वेडागमो भवति। रद्ध, रधिता। नंष्टा, नशिता। त्रप्ता, तर्प्ता, तर्पिता। द्रप्ता, दर्प्ता, दर्पिता। द्रोग्धा, द्रोढा, द्रोहिता। मोग्धा, मोढा, मोहिता। स्नोग्धा, स्नोढा, स्नोहिता। स्नेग्धा, स्नेढा, स्नेहिता। क्रादिनियमाद् लिटि रधादिभ्यः परत्वाद् विकल्पं केचिदिच्छन्ति। अपरे पुनराहुः — पूर्वविधेरिण्निषेधविधानसामर्थ्याद् बलीयस्त्वं प्रतिषेधनियमस्येति नित्यमिटा भवितव्यम्। ररन्धिव, ररन्धिमेति भवति॥

Siddhanta Kaumudi

Up

रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात् । ररन्धिथ-ररद्ध । ररन्धिव-रेध्व ॥

Laghu Siddhanta Kaumudi

Up

रध् नश् तृप् दृप् द्रुह् मुह् ष्णुह् ष्णिह् एभ्यो वलाद्यार्धधातुकस्य वेट् स्यात्। नेशिथ॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<रधादिभ्यश्च>> - रधादिभ्यश्च ।आर्धधातुकस्येड्वलादे॑रित्यनुवर्तते,स्वरतिसूती॑त्यतो वेति चेत्यभिप्रेत्य शेषं पूरयति — वलाद्यार्धधातुकस्य वेडिति ।आर्धधातुकस्ये॑ति नित्ये प्राप्ते विकल्पोऽयम् । लुटि तासि इटिरधिजभोरची॑ति नुमि प्राप्ते —

Padamanjari

Up

रधिर्नशिस्तृपिदृपी द्रुहिर्मुहि ष्णुहिष्णिही । रधादयोऽमी पठिता दिवादिष्वष्ट कृष्टिभिः ॥ नेष्टेति । मस्जिनशोर्झल इति नुम् । तृपिदृप्योः - अनुदातस्य चर्दुपधस्य इति पक्षे अमागमः । द्रोढेअत्यादौ वा द्रुहमुहष्णुरष्णिहाम् इति धत्वढत्वे । क्रादिनियमादिति । ननु च प्रतिषेधस्यासौ नियमः, न च रधादौ कस्यचित्प्रत्ययाश्रयः प्रकृत्याश्रयो वा प्रतिषेधः प्राप्नोति, ययोरपि प्राप्नोति तृपिदृप्योः, तयोरपि प्रतिषेधे लिट।ल्नेन व्यावर्तितेऽप्ययं विकल्पः स्यादेव, विकल्पस्यानियतत्वात् एवं मन्यते - यावान्कश्चिदिडभावः प्रतिषेधनिबन्धनो विकल्पनिबन्धनो वा, तस्य सर्वस्य क्रादिसूत्रेण नियमः इति । एवं चोतरग्रन्थे प्रतिषेधनियमस्येति अभावनियमस्थेत्येवार्थो द्रष्टव्यः । अपर इति । ननु चास्तु प्रतिषेधस्य प्राबल्यम्, किमायातम् नियमस्य प्रतिषेधविषयत्वान्नियमस्यापि प्राबल्यमित्यदोषः । नित्यमिटा भवितव्यमिति । प्रतिषेधाधिकारेण क्रादीनामेव लिटि इण्न भवति तैति नियमे विज्ञायमाने धात्वन्तरेषु यावान् कश्चित्प्रतिषेधः स सर्वो मा भूत्, विकल्पस्तु कस्मान्न स्यादिति ॥