6-4-120 अतः एक हल् मध्ये अनादेशादेः लिटि असिद्धवत् अत्र आभात् क्ङिति एत् अभ्यासलोपः च
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
एकहल्मध्ये अनादेशादेः अङ्गस्य अतः एत् किति लिटि, अभ्यासलोपः च ।
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
अनादेशादेः अङ्गस्य एकहल्मध्ये स्थितस्य अकारस्य लिट्-लकारस्य कित्-प्रत्यये परे एकारादेशः भवति, तथा अभ्यासस्य लोपः भवति ।
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
When followed by a कित्-प्रत्यय of लिट्-लकार, The अकारः of an अङ्गम् is converted to एकार, and the अभ्यास is removed; provided that there is no संयोग before as well as after this अकार, and that the first letter of the अङ्गम् is not changed due to any आदेश.
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
लिटि परत आदेशः आदिर्यस्य अङ्गस्य न अस्ति तस्य एकहल्मध्ये असहाययोर्हलोर्मध्ये योऽकारस् तस्य एकारादेशो भवति, अभ्यासलोपः च लिटि क्ङिति परतः। रेणतुः। रेणुः। येमतुः। येमुः। पेचतुः। पेचुः। देमतुः। देमुः। अतः इति किम्? दिदिवतुः। दिदिवुः। तपरकरणं किम्? ररासे, ररासाते, ररासिरे। एकहल्मध्ये इति किम्? शश्रमतुः। शश्रमुः। तत्सरतुः। तत्सरुः। अनादेशादेः इति किम्? चकणतुः। चकणुः। जगणतुः। जगणुः। बभणतुः। बभणुः। लिटः आदेशविशेषणं किम्? इह अपि यथा स्यात्, नेमतुः। नेमुः। सेहे, सेहाते, सेहिरे। अनैमित्तिके नत्वसत्वे, तदादिर्लिटि आदेशादिर्न भवति। इह अभ्यासजश्त्वचर्त्वयोरसिद्धत्वं नास्ति, तेन तदादिरप्यादेशादिर्भवति। तथा च फलिभजोरेत्वं विधीयते। रूपाभेदे चादेशादिर्न अश्रीयते इति शसिदद्योः प्रतिषेधवचनं ज्ञापकम्। अन्यथा हि पेचतुः, पेचुः, देमतुः, देमुः इत्येवमादीनामपि प्रकृतिजश्चरादीनाम् एत्वं न स्यात्। क्ङिति इत्येव, अहं पपच। अहं पपठ। दम्भेरेत्वं वक्तव्यम्। देभतुः। देभुः। नलोपस्य असिद्धत्वान् न प्राप्नोति। नशिमन्योरलिट्येत्वं वक्तव्यम्। अनेशम्। मेनका। अनेशम् इति नशेः लुङि पुषादित्वादङ्। मेनका इति मनेः आशिषि च 3.1.150 इति वुन्। क्षिपकादिषु प्रक्षेपादित्वं न क्रियते। छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम्। व्येमानम्। अमेर्विपूर्वस्य चानशि मुक् न क्रियते। लिङिपेचिरन्। पचेरनित्येतस्य छान्दसं ह्रस्वत्वम्। यजिवप्योश्च। आयेजे। आवेपे। लङि इटि छन्दस्यपि दृश्यते 6.4.73 इति अनजादेरपि इडागमः।
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
लिण्न्मित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्याकारस्य एकारः स्यादभ्यासलोपश्च किति लिटि ॥
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
लिण्निमित्तादेशादिकं न भवति यदङ्गं तदवयवस्यासंयुक्तहल्मध्यस्थस्यात एत्वमभ्यासलोपश्च किति लिटि। नेदतुः। नेदुः॥
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
एतत् सूत्रम् किञ्चित् क्लिष्टमस्ति, अतः क्रमेण पश्यामः ।
अस्य सूत्रस्य प्रसक्तिः केवलं लिट्-लकारस्य विषये अस्ति, अतः 'लिटि' इति निर्दिष्टमस्ति ।
लिट्-लकारस्यापि केवलं कित्-प्रत्यये परे एव अस्य सूत्रस्य प्रसक्तिः अस्ति, अतः 'किति लिटि' इत्युक्तमस्ति ।
लिट्-लकारस्य के के प्रत्ययाः कित्-संज्ञकाः सन्ति? वस्तुतः लिट्-लकारस्य एकस्मिन् अपि प्रत्यये ककारः इत्संज्ञकः नास्ति । परन्तु असंयोगाल्लिट् कित् 1.2.5 इत्यनेन यः लिट्-लकारस्य अपित्- प्रत्ययः संयोगात् परः नास्ति, तस्य कित्-अतिदेशः भवति । एतादृशानां प्रत्ययानां विषये अस्य सूत्रस्य प्रसक्तिः अस्ति ।
अनेन सूत्रेण कार्यद्वयमुक्तमस्ति - अङ्गस्य अकारस्य एकारादेशः, तथा अभ्यासस्य लोपः ।
एतत् कार्यम् कदा भवति? यदा स्थानिभूतः अयमकारः 'एकहल्-मध्ये' स्थितः अस्ति । किम् नाम 'एकहल्-मध्ये' ? यदि अकारात् परम् केवलं एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति), तथा अकारात् पूर्वमपि एकः एव हल्-वर्णः अस्ति (संयोगः नास्ति) तर्हि सः अकारः 'एकहल्मध्ये' स्थितः अस्ति इत्युच्यते । एतादृशस्य अकारस्यैव अनेन सूत्रेण एकारादेशः भवति । यदि अकारात् परः पूर्वः वा संयोगः अस्ति, तर्हि तादृशस्य अकारस्य अनेन सूत्रेण एकारादेशः न भवति ।
अस्मिन् सूत्रे 'अङ्गस्य' इत्यस्यापि एकम् विशेषणम् प्रयुक्तमस्ति - अनादेशादिः । इत्युक्ते, अङ्गस्य आदिवर्णस्य कोऽपि आदेशः न क्रियते चेदेव अस्य सूत्रस्य प्रयोगः करणीयः, अन्यथा न ।
अतः सारांशरूपेण अस्य सूत्रस्य अर्थः अयम् भवति - लिट्-लकारस्य कित्-प्रत्यये परे अङ्गस्य अकारस्य एकारादेशः तथा अभ्यासस्य लोपः भवति, यदि सः अकारः संयोगात् पूर्वम्, संयोगात् परम् च नास्ति, तथा यदि तस्य अङ्गस्य प्रथमवर्णस्य कोऽपि आदेशः न भवति ।
कानिचन उदाहरणानि पश्यामः -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7.4.60 इति चकारस्य लोपः]
→ प पच् + त [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषैकवचनस्य विवक्षायाम् 'त' प्रत्ययः]
→ प पच् + एश् [लिटस्तझयोरेशिरेच् 3.4.81 इत्यनेन त-प्रत्ययस्य एश्-आदेशः ।'एश्' प्रत्ययात् पूर्वम् संयोगः नास्ति, अतः असंयोगाल्लिट् कित् 1.2.5 इत्यनेन 'एश्' अयमपित्-प्रत्ययः कित्-वत् भवति ]
अत्र अङ्गे विद्यमानः पच्-इत्यस्य अकारः संयोगात् पूर्वमपि नास्ति, अनन्तरमपि नास्ति । तथा च, अभ्यासस्य प्रथमवर्णस्य अत्र कोऽपि आदेशः अपि अग्रे न विधीयते । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120 इति अभ्यासस्य लोपः भवति, तथा च धातोः अकारस्य च एकारः जायते -
→ पेचे [अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120]
अ) पच्-धातोः लिट्-लकारस्य परस्मैपदस्य उत्तमपुरुषैकवचनस्य रूपसिद्धिः इयम् -
पच् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ पच् पच् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ प पच् + लिट् [हलादि शेषः 7.4.60 इति चकारलोपः]
→ प पच् + मिप् [तिप्तस्झि... 3.4.78 इति मिप्-प्रत्ययः]
→ प पच् णल् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति मिप्-इत्यस्य णल्-आदेशः]
अत्र यद्यपि अङ्गस्य अकारः 'एकहल्मध्ये' अस्ति, तथा च अङ्गमपि 'अनादेशादिः' अस्ति, तथापि प्रत्ययः (मिप्) पित्-अस्ति, अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् 1.2.5 इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120] इत्यस्य प्रसक्तिः नास्ति ।
→ प पाच्/पच् + अ [णलुत्तमो वा 7.1.91 इति वैकल्पिकम् णित्वम् । णित्वे अतः उपधायाः 7.2.116 इति अङ्गस्य उपधा-अकारस्य वृद्धिः आकारः]
→ पपाच / पपच
आ) वन्द्-धातोः लिट्-लकारस्य प्रथमपुरुषबहुवचनस्य रूपसिद्धिः इयम् -
वन्द् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ वन्द् वन्द् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ व वन्द् + लिट् [हलादि शेषः 7.4.60 इति चकारस्य लोपः]
→ व वन्द् + झ [तिप्तस्झि.. 3.4.78 इत्यनेन आत्मनेपदस्य प्रथमपुरुषबहुवचनस्य विवक्षायाम् 'झ' प्रत्ययः]
→ व वन्द् + इरेच् [लिटस्तझयोरेशिरेच् 3.4.81 इत्यनेन झ-प्रत्ययस्य इरेच्-आदेशः ।]
अत्र प्रत्ययात् पूर्वम् संयोगः अस्ति (न् + द्), अतः अत्र प्रत्ययस्य असंयोगाल्लिट् कित् 1.2.5 इत्यनेन कित्-वत् भावः न भवति । अतः अत्र अत एकहल्मध्येऽनादेशादेर्लिटि 6.4.120] इत्यस्य प्रसक्तिः नास्ति ।
→ ववन्दिरे
श्रम् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ श्रम् + श्रम् + लिट् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ श + श्रम् + लिट् [हलादि शेषः 7.4.60 इति रेफमकारयोः लोपः]
→ श श्रम् + तस् [तिप्तस्झि.. 3.4.78 इत्यनेन प्रथमपुरुषद्विवचनस्य विवक्षायाम् 'तस्' प्रत्ययः]
→ श श्रम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति तस्-इत्यस्य अतुस्-आदेशः]
अत्र अङ्गस्य अकारः 'एकहल्मध्ये' नास्ति (यतः अकारात् पूर्वम् 'श् + र्' अयं संयोगः अस्ति) अतः अत्र अस्य सूत्रस्य प्रसक्तिः नास्ति ।
→ शश्रमतुः [विसर्गनिर्माणम्]
गम् + लिट् [परोक्षे लिट् 3.2.115 इति लिट्]
→ गम् गम् + ल् [लिटि धातोरनभ्यासस्य 6.1.8 इति द्वित्वम्]
→ ग गम् + ल् [हलादि शेषः 7.4.60 इति मकारलोपः]
→ ज गम् + ल् [कुहोश्चुः 7.4.62 इति गकारस्य जकारः]
→ ज गम् + तस् [तिप्तस्... 3.4.78 इति तस् । असंयोगात् लिट् कित् 1.2.5 इत्यनेन असंयोगात् परस्य लिट्-लकारस्य अपित्-प्रत्ययस्य कित्-अतिदेशः]
→ ज गम् + अतुस् [परस्मैपदानां णलतुसुस्थलथुसणल्वमाः 3.4.82 इति अतुस्-आदेशः]
अत्र यद्यपि अकारात् पूर्वम् परम् च संयोगः नास्ति, अग्रे लिट्-लकारस्य कित्-प्रत्ययः च अस्ति, तथाप्यत्र अभ्यासस्य प्रथमवर्णस्य आदेशः कृतः अस्ति, अतः अत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति ।
→ ज ग् म् + अतुस् [गमहनजनखनघसां लोपः क्ङित्यनङि 6.4.98 इत्यनेन अजादि-कित्-प्रत्यये परे उपधा-अकारस्य लोपः]
→ जग्मतुः [ससजुषोः रुँः 8.2.66 इति रुँत्वम्, खरवसानयोर्विसर्जनीयः 8.3.15 इति विसर्गः]
ज्ञातव्यम् - अनेन सूत्रेण उक्तः एकारादेशः मूलधातोः अकारस्यैव भवति, अभ्यासस्य अकारस्य न, यतः प्रत्ययविधानम् धातोः कृतमस्ति, अतः मूलधातुः एव अङ्गसंज्ञां प्राप्नोति, अभ्यासः न ।
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
अत एकहल्मध्येऽनादेशादेर्लिटि - तस्य लटि एधिवद्रूपाणि सिद्धवत्कृत्य लिटस्तादेशे तस्यैशि द्वित्वे दध् दध् ए इति स्थिते । अत एकहलमध्ये । आदेश आदिर्यस्येति बहुव्रीहिः । अङ्गस्येत्यधिकृतमन्यपदार्थः । लिटीति निमित्तसप्तमी अनादेशादेरित्यस्यैकदेशे आदेशेऽन्वेति । लिटि परे निमित्ते य आदेशः स आदिर्यस्य न भवति तथाविधस्याङ्गस्येति लभ्यते । अङ्गस्येत्यवयवषष्ठी । तथा च तथाविधाङ्गावयवस्याऽत इति लभ्यते । एकशब्दोऽसहायवाची ।एके मुख्यान्यकेवलाः॑ इत्यमरः । एकौ असंयुक्तौ हलौ एकहलौ, तयोर्मध्यः,तत्रेति विग्रहः । 'अत' इत्स्यैव विशेषणमिदम् ।द्वसोरेद्धा॑वित्यत एदिति, अभ्यासलोप इति चानुवर्तते ।गमहने॑त्यतः कितीत्यनुवर्तते, न तु ङितीति, लिङादेशानां ङित्त्वाऽसंभवात् । लिटीत्येत्वविधौ परनिमित्तं च । आवृत्त्या उभयार्थलाभः । तदाह - लिण्निमित्तेत्यादिना ।
index: 6.4.120 sutra: अत एकहल्मध्येऽनादेशादेर्लिटि
एकशब्दोऽसहायवचनः न सङ्ख्यावचनः मध्याभावात् । द्विवचनान्तस्य च समासः, द्वयोरेव मध्यसम्भाव्त, अत्र लिटीति यदि विधीयमानयोरेत्वाभ्यासलोपयोर्निमितनिर्द्देशः स्यात्, आदेशो न विशेषितः स्यात्, ततश्च नेमतुः, नेमुः, सेहे, सेहाते, सेहिरे - अत्रापि प्रतिषेधः स्यात्, न त्वसत्वयोः कृतयोरङ्गस्यादेशादित्वात् । तस्माद् गुणभूतस्याप्यादेशस्यायं निमितनिर्द्देश इति दर्शयति - लिटि परत इति । लिटि परत्रावस्थिते य आदेशो विधीयते स आदिर्यस्याङ्गस्य नास्तीत्यर्थः । ररक्षतुरिति । अयुक्तमिदमादेशादित्वात् । क्वचितु ततक्षुरिति पठ।ल्ते, तदप्ययुक्तम् संयोगान्तत्वेन लिटः कित्वाभावात् । तस्मातत्सरतुः, तत्सरुरिति प्रत्युदाहरणम् । त्सर च्छद्भगतौ । चकणतुरिति । कणतिः शब्दार्थधातुवर्गे भूवादौ पठ।ल्ते । जगणतुरिति । गण संख्याने, चुरादित्वातत्र णिच् प्राप्नोति । यदिनेष्यते, अनित्यण्यन्ताश्नुरादयः । एतच्च धुषिरविशब्दने इत्यत्र वक्ष्यते । यद्यपि कृहौश्चुः इति चुत्वं लिट।लहत्य न विहितम्, तखाभायसनिमिते तु प्रत्यये विधानाल्लिण्निमितमपि भवति, सर्वथा लिट।लुत्पन्ने पश्चाद्भवति । एअनैमितिके नत्वसत्वे इति । ततश्च प्रागेव लिडुत्पतेस्ताभ्यां भवितव्यम्, तेन तदाद्यङ्गं लिटि य आदेशस्तदादि न भवति, यदि लिटा आदेशो विशेष्यते, एत्वमलिट।ल्पि प्राप्नोति - पक्वः, पक्ववानिति नैष दोषः, चकारः सभूच्चये, नान्वाचये तेन यत्राभ्यासलोपस्तत्रैवैत्वम् । इह तर्हि स्यात् - पिपठिषति क्ङितीति एवर्तते । एवमपि पापठ।ल्ते - अत्रापि प्राप्नोति नैष दोषः, इह ह्यभ्यासकार्येषु ह्रस्वहलादिशेषावुत्सर्गौ, तयोरन्यऽपवादास्तत्रैह दीर्घोऽकितः इति दीर्घत्वं च प्राप्नोति अनेन लोपश्च, तत्र दीर्घस्यावकाशः - बाभाष्यते, अस्य विधेरवकाशः - पेचतुः, पेछु, पापच्यते - इत्यत्रोभयप्रसङ्गे अपवादविप्रतिषेधाद्दीर्षत्वेनायमभ्यासलोपो बाध्यते तत्सन्नियोगशिष्टत्वादेतवमपि न भविष्यति । अभ्यासविकारेषु उभयसमावेशो यत्र सर्वेषां प्रवृत्तिस्तत्र । इह तु यद्यपि दीर्घत्वे कृतेऽपि एत्वाभ्यासलोपयोः प्रसङ्गः, तयोश्च कृतयोन दीर्घस्य प्रसङ्ग इति न सर्वेषां प्रवृत्तिः । ननु च बभणतुः, बभणुरित्यादावभ्वासजश्त्वचर्त्वयोरसिद्धत्वादनादेशादित्वात् एत्वाभ्यासलोपाभ्यां भाव्यम्, विपिरतिषेधस्य तु जहसतुर्जहसुरित्यादौ यत्र कुहोश्चुः इति चुत्वं क्रियते सोऽवकाशः स्यात् अत आह - इहेति । अत्रैव थज्ञापकमाह - तथा चेति । रुपामेदे त्विति । यत्रादेशस्य स्थानिना सह रुपमैदो नास्ति तत्रेत्यर्थः । शसिदद्योरिति । अभ्यासे चर्च, इति सर्वत्र जश्चरोः प्राप्तयोरन्तरतमपिरभाषाव्यापारलब्धमिदं वक्ष्यते - प्रकृतिचरां प्रकृतिचरः, प्रकृतिजशां प्रकृतिजश इति । तेन शसेः शकारस्य शकारो ददेर्दकारस्य दकार इति, तावप्यादेशादी भवतः । यदि चाभिन्नरुपोऽप्यादेश कैहाश्रीयेत, तत आदेशादित्वादेव प्रतिषेधे सिद्धे न शसददवादिगुथणानाम् इति शसिदद्योः प्रतिषेधोऽनर्थकः स्यात्, कृतस्तु ज्ञापयति - रुपाभेदे य थाअदेशः स इह नाश्रीयते इति । यदि पुनराश्रीयेत किं स्यात् इत्यत आह - अन्यथेति । प्रकृतिर्जश् प्रकृतिर्श्चर्च्चादिर्येषां तेषां न स्यात्, वचनं तु रेणुरित्यादौ चरितार्थम् । अहं पपचेति । उतमे णलि णित्वाभावपक्षे रुपम् । णत्वपक्षे तु परत्वाद्वृद्धौ कृतायां तपरकरणादकाराभावादेवा प्रसङ्गः । देभतुरिति । श्रन्थिग्रन्थि इत्यादिना लिटः कित्वे सति नलोपः । नशिमन्योरलिट।लेत्वमिति । अलिटीति पादपूणार्थोऽनुवादः, श्लोकोह्यएवं भाष्ये पठितः ॥ नशिमन्योरलिट।लेत्वं च्छन्दस्यमिपचोरपि । अनेशन्मेनकेत्येतव्द्येमानं लिङ् पेइचिरन् ॥ इति । अनेशन्निति । झोऽन्तादेशः । थानेशन्नस्योषवः । अनेशमिति तु प्रायेण पाठः, तत्र मिपोऽम्भावः । क्षिपकादिष्विति । क्षिपकादिषु हि इत्वप्रतिषेधो वक्ष्यते, एतच्च न यासयोः इत्यत्र आशिषि चोपसङ्ख्यानम् इत्यनाश्रित्योक्तम्, च्छन्दसीतिवचनात् मेनकेति भाषायां न प्राप्नोति । यदीष्यते, पृषोदरादिषु द्रष्टव्यः । लुग्न क्रियत इति । छान्दसत्वात्, बहुलं च्छन्दसि इति वा शपो लुप्तत्वात् । पेचिरन्निति । पचेरन्निति प्राप्ते । क्वचित्पठ।ल्ते - यजिवप्येश्च, आयोजे आवेवे, यजेर्वपेश्च लैङ् इति च्छन्दस्यपि दृश्यते इत्यनजादेरप्याडिति । अपर आह - लिटि तस्य एशादेशः, सम्प्रसारणपूर्वत्वे वा च्छन्दसि इत्यनुवृतेर्यणादेशः, एत्वाभ्यासलोपौ, उदातवता तिणेóत्याङ्ः समास इति । तथा चावगृह्णन्ति - यच्छञ्चयोश्च मनुरायजे पिता, आयेज इत्यायेजे इति ॥