स नपुंसकम्

2-4-17 स नपुंसकम् एकवचनम्

Sampurna sutra

Up

Neelesh Sanskrit Brief

Up

Kashika

Up

यस्यायमेकवद्भावो विहितः स नपुंसकलिङ्गो भवति द्विगुर्द्वन्द्वश्च। पञ्चगवम्। दशगवम्। द्वन्द्वः खल्वपि — पाणिपादम्। शिरोग्रीवम्। परवल्लिङ्गतापवादो योगः॥ अकारान्तोत्तरपदो द्विगुः स्त्रियां भाष्यते॥ पञ्चपूली। दशरथी॥ वाबन्तः स्त्रियामिष्टः॥ पञ्चखट्वम्, पञ्चखट्वी॥ अनो नलोपश्च वा च द्विगुः स्त्रियाम्॥ पञ्चतक्षम्, पञ्चतक्षी॥ पात्रादिभ्यः प्रतिषेधो वक्तव्यः॥ पञ्चपात्रम्। चतुर्युगम्। त्रिभुवनम्॥

Siddhanta Kaumudi

Up

समाहारे द्विगुर्द्वन्द्वाश्च नपुंसकं स्यात् । परवल्लिङ्गपवादः । पञ्चगवम् । दन्तोष्ठम् ।<!अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः !> (वार्तिकम्) ॥ पञ्चमूली ।<!आबन्तो वा !> (वार्तिकम्) ॥ पञ्चखट्वम् । पञ्चखट्वी ।<!अनो नलोपश्च वा द्विगुः स्त्रियाम् !> (वार्तिकम्) ॥ पञ्चतक्षी । पञ्चतक्षम् ।<!पात्राद्यन्तस्य न !> (वार्तिकम्) ॥ पञ्चपात्रम् । त्रिभुवनम् । चतुर्युगम् ।<!पुण्यसुदिनाभ्यामह्नः क्लीबतेष्टा !> (वार्तिकम्) ॥ पुण्याहम् । सुदिनाहम् ।<!पथः संख्याव्ययादेः !> (वार्तिकम्) ॥ संख्याव्ययादेः परः कृतसमासान्तः पथशब्दः क्लीबमित्यर्थः । त्रयाणां पन्थास्त्रिपथम् । विरूपः पन्था विपथम् । कृतसमासान्तनिर्देशान्नेह । सुपन्थाः । अतिपन्थाः ।<!सामान्ये नपुंसकम् !> (वार्तिकम्) ॥ मृदु पचति । प्रातः कमनीयम् ॥

Laghu Siddhanta Kaumudi

Up

समाहारे द्विगुर्द्वन्द्वश्च नपुंसकं स्यात्। पञ्चानां गवां समाहारः पञ्चगवम्॥

Neelesh Sanskrit Detailed

Up

Balamanorama

Up

<<स नपुंसकम्>> - स नपुंसकं ।द्विगुरेकवचन॑मिति द्विगुः, द्विगुः,द्वन्द्वश्च प्राणी॑ति द्वन्द्वश्च तच्छब्देन परामृश्येते । तौ च समाहारार्थावेव विवक्षितौ, व्याख्यानात् । तदाह — समाहारे इति । पञ्चगवमिति । पञ्चानां गवां समाहार इति द्विगुः । दन्तोष्ठमिति । दन्ताश्च ओष्ठौ चेति विग्रहः ।द्वन्द्वश्च प्राणी॑ति समाहारद्वन्द्वः । अकारान्तेति । अकारान्तमुत्तरपदं यस्येति विग्रहः ।स नपुंसक॑मित्यस्यापवादः । पञ्चमूलीति । समाहारद्विगुः, स्त्रीत्वं, 'द्विगोः' इति ङीप् । आबन्तो वेति ।स्त्रियां वे॑ति वक्तव्यमित्यर्थः । पञ्चखट्वमिति । समाहारद्विगुः । नपुंसकत्वे ह्रस्वः । पञ्चखट्वीति । उपसर्जनह्रस्वत्वे अदन्तत्वात्, 'द्विगोः' इति ङीप् । अनो नलोपश्चेति । 'अन' इत्यावर्तते । एकं प्रथमया विपरिणतं द्विगुरित्यत्रान्वेति । तदन्तविधिः । अन्नन्तो द्विगुः स्त्रियां वा स्यात्, अनो नस्य लोपः स्यादित्यर्थः । वाग्रहणं स्त्रियामित्यत्रैव संबध्यते, न तु नलोपेऽपि तेन स्त्रीत्वाऽभावेऽपि नलोपः । पञ्चतक्षीति । पञ्चानां तक्ष्णां समाहार इति द्विगुः, स्त्रीत्वं नलोपः, 'द्विगोः' इति ङीबिति भावः । पञ्चतक्षमिति । समाहारद्विगुः । स्त्रीत्वाऽभावपक्षेस नपुंसक॑मिति नपुंसकत्वं, नलोप इति भावः । न चान्तर्वर्तिर्नी विभक्तिमाश्रित्य तक्षन्शब्दस्य सुबन्तत्वेन पदत्वात्न लोपः प्रातिपदिके॑त्यनेन नलोपो भविष्यतीति वाच्यम्उत्तरपदत्वे चे॑ति प्रत्ययलक्षणनिषेधात् । पात्राद्यन्तस्य नेति । पात्रादिर्गणः । तदन्तस्य समाहारद्विगोर्न स्त्रीत्वमिति वक्तव्यमित्यर्थः । पञ्चपात्रं त्रिभुवनं चतुर्युगमिति । स्त्रीत्वाऽभावेस नपुंसक॑मिति नपुंसकत्वमिति भावः । पुण्येति । पुण्यसुदिनाभ्यां परो योऽहन्शब्दस्तदन्तस्य तत्पुरुषस्य नपुंसकत्वं वक्तव्यमित्यर्थः ।रात्राह्ने॑त्यस्यापवादः । पुण्याहमिति । पुण्यमहरिति कर्मधारयः, 'राजाहः' इति टच्, टिलोपः ।उत्तमैकाभ्यां चे॑त्यत्यह्नादेशनिषेधः । सुदिनाहमिति । सुदिनमहरिति कर्मधारयः, टच्, टिलोपः । प्रशस्तपर्यायः सुदिनशब्द इति न पौनरुक्त्यम् । पथः सङ्ख्याव्ययादेरिति ।नपुंसकत्वं वक्तव्य॑मिति शेषः । संख्याव्ययेति समाहारद्वन्द्वः । संख्याव्ययमादिरिति कर्मधारयः, दिग्योगे पञ्चमी । पर इति शेषः । पथ इति कृतसमासान्तादकारान्तात्प्रथमा । तदाह — सङ्ख्याव्ययादेरिति । परवल्लिङ्गतापवादः । त्रिपथमिति । 'ऋक्पूः' इति अप्रत्ययः, टिलोपः । एवं विपथमित्यपि ।प्रादयो गताद्यर्थे॑ इति समासः । सुपन्था अतिपन्था इति ।स्वती पूजाया॑मिति समासः ।न पूजना॑दिति समासान्तनिषेधः । आवश्यकत्वादनेन सिद्धे अपथं नपुंसक॑मिति न कार्यम् । सामान्ये नपुंसकमिति । न्यायसिद्धमेतत्, विशेष्यविशेषणसंनिधाने सति स्त्रीत्वपुंस्तवयोरनभिव्यक्तौउभयोरन्तरं यच्च तदभावे नपुंसक॑मिति लक्षणलक्षितनपुंसकत्वस्यैव न्याय्यत्वात् ।अत एवदाण्डिनायने॑ति सूत्रभाष्येएकश्रुतिः स्वरसर्वनाम, नपुंसकं लिङ्गसर्वनामे॑त्युक्तम् । मृदु पचतीति । क्रियाविशेषणमिदं द्वितीयान्तम् । पचेर्हि विक्लित्त्यनुकूलव्यापारोऽर्थः । तत्र विक्लित्त्यंशे मृदुत्वमन्वेति । विक्लित्तिश्चव्यापारे साध्यत्वेनान्वेति । तथाच धातूपात्तव्यापारं प्रति कर्मीभूतेन विक्लित्त्यंशेन सामानाधिकरण्यान्मृद्विति द्वितीया । यत्र तु धात्वर्थः करणत्वेनान्वेति 'यजेत स्वर्गकामः' इत्यादौ, तत्र हि यागेन स्वर्गं कुर्यादित्यर्थः । तत्र क्रियाविशेषणस्य तृतीयान्तत्वमेवज्योतिष्टोमेन यजेत स्वर्गकामः॑ इत्यादावित्यन्यत्र विस्तरः । प्रातः कमनीयमिति । रमणीयमित्यर्थः । अत्रापिप्रात॑रित्यव्ययस्य विशेष्यस्याऽलिङ्गत्वात्तद्विशेषणस्य कमनीयशब्दस्यानव्ययस्य लिङ्गविशेषावगमकत्वाऽभावान्नपुंसकत्वमेवेति भावः । इदं चाऽनियतलिङ्गविषयम् । तेन आदिं पचति, प्रातरादिरित्यत्र न भवति, आदिशब्दस्य नियतलिङ्गत्वात् ।

Padamanjari

Up

स नपुंसकम्॥ परवल्लिङ्गतापवादो योगः। सग्रहणं व्यवहितस्य द्विगोरपि यथा स्याद्, अन्यथाऽव्यवहितस्य द्वन्द्वस्यैव स्यात्, नैतदस्ति; एकवचनमित्येतावन्मात्रमेवापेक्षिष्यामहे, नैकवचनविशेषं द्वन्द्वम्। एवं तर्हि योऽत्र प्रकरणेऽसङ्कीर्तितः समाहारद्वन्द्वस्तस्यापि यथा स्यात्? अन्यथा प्रकृतस्यैव द्वन्द्वस्य द्विगोश्च स्यात्। ननु प्रकरणमपि नापेक्षिष्यते, यद्येवम्, एकसङ्ख्य इत्यादावेकार्थस्य स्यात्, अतोऽवश्यापेक्ष्यं प्रकरणम्। तस्मिंश्चापेक्ष्यमाणे प्राण्यङ्गादिसम्बन्धादिरूपेण द्वन्द्वः प्रकृत इति तस्यैव स्यात्। स इत्येतस्मिंस्तु सति अपेक्ष्यमाणेऽपि प्रकरणे प्राण्यङ्गादिसम्बन्धपरित्यागेन योऽत्र प्रकरणे संकीर्तितो द्वन्द्वो द्विगुश्च'स नपुंसकम्' इति सर्वस्य समाहारद्वन्द्वस्य नपुंसकत्वं लभ्यते, एकादौ चातिप्रसङ्गो न भवति। तथा च'युवोरनाकौ' इत्यादावुच्यते - युवोरिति समाहारद्वन्द्वे स नपुंसकप्रसङ्गः। अतो यावान्कश्चन समाहारद्वन्द्वः प्राण्यङ्गादिसम्बन्धी, अन्यो वा, सर्वस्यास्य नपुंसकत्वं विधीयत इति सिद्धम्। अकारान्तोतरपद इति। अत्रात इत्यधिकारे'द्विगोः' इति ङीब्विधानं लिङ्गम्। पञ्चखट्वीति। स्त्रीत्वपक्षे उपसर्जनह्रस्वत्वम्। अनो नलोपश्चेति। ठुतरपदत्वे चापदादिविधौऽ इति प्रत्ययलक्षणप्रतिषेधात्पदत्बाभावान्नलोपवचनम्। पात्रादिभ्य इति तादर्थ्य एषा चतुर्थी पात्राद्यन्तानां द्विगूनां सिद्धय इत्यर्थः। पात्रादिराकृतिगणः॥