6-4-144 नः तद्धिते असिद्धवत् अत्र आभात् भस्य अल् टेः
नः भस्य अङ्गस्य टेः तद्धिते लोपः
तद्धितप्रत्यये परे नकारान्तस्य भसंज्ञकस्य टिसंज्ञकस्य लोपः भवति ।
The टिसंज्ञक of a नकारान्त भसंज्ञक अङ्ग is removed when followed by a तद्धितप्रत्यय.
नकारान्तस्य भस्य टेर्लोपो भवति तद्धिते परतः। आग्निशर्मिः। औडुलोमिः। बाह्वादित्वाद् ४.१.९६ इञ्प्रत्ययः। न इति किम्? सात्वतः। तद्धित इति किम्? शर्मणा। शर्मणे॥ नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलि — शिलालिशिखण्डिसूकर — सद्मसुपर्वणामुपसंख्यानं कर्तव्यम्॥ अत्र य इन्नन्तास्तेषाम् <<इनण्यनपत्ये>> ६.४.१६४ इति प्रकृतिभावः प्राप्तः, ये त्वन्नन्तास्तेषाम् <<अन्>> ६.४.१६७ इति। सब्रह्मचारिण इमे साब्रह्मचाराः। पीठसर्पिणः पैठसर्पाः। कलापिना प्रोक्तमधीयते कालापाः। कुथुमिनः कौथुमाः। तैतिलिजाजलिनावाचार्यौ, तत्कृतो ग्रन्थ उपचारात् तैतिलिजाजलिशब्दाभ्यामभिधीयते। तं ग्रन्थमधीयते तैतिलाः, जाजलाः। शैषिकेष्वर्थेषु वृद्धत्वादत्र छः प्राप्नोति। एवं लाङ्गलाः। शैलालाः। शिखण्डिनः शैखण्डाः। सूकरसद्मनः सौकरसद्माः। सुपर्वणः सौपर्वाः॥ अश्मनो विकार उपसंख्यानम्॥ अश्मनो विकार आश्मः। आश्मनोऽन्यत्र॥ चर्मणःकोश उपसंख्यानम्॥ चार्मः कोशः। चार्मणोऽन्यः॥ शुनः संकोच उपसंख्यानम्॥ शौवः संकोचः। शौवनोऽन्यः॥ अव्ययानां च सायंप्रातिकाद्यर्थमुपसंख्यानम्॥ के पुनः सायंप्रातिकादयः? येषामव्ययानामविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकारा ग्रहीतव्याः। सायंप्रातर्भवः सायंप्रातिकः। पौनःपुनिकः। बाह्यः। कौतस्कुतः। <<कालाट् ठञ्>> ४.३.११ इति ठञ्प्रत्ययः। ट्युट्युलौ तु नेष्येते। आरातीयः, शाश्वतिकः, शाश्वत इत्येवमादिषु न दृश्यते टिलोपः॥
नान्तस्य भस्य टेर्लोपः स्यात्तद्धिते । उपराजम् । अध्यात्मम् ॥
नान्तस्य भस्य टेर्लोपस्तद्धिते। उपराजम्। अध्यात्मम्॥
यदि नकारान्त-भसंज्ञक-अङ्गात् परः तद्धितप्रत्ययः आगच्छति, तर्हि तस्य नकारान्तस्य भस्य यः टिसंज्ञकः, तस्य लोपः जायते । उदाहरणानि एतानि - 1. 'उडुलोमन्' शब्दात् अपत्यार्थे <<बाह्वादिभ्यश्च>> 4.1.96 इत्यनेन इञ्-प्रत्ययः भवति । तस्य प्रक्रिया इयम् - उडुलोमन् + इञ् [अजादिप्रत्यये परे अङ्गस्य <<यचि भम्>> 1.4.18 इति भसंज्ञा] → औडुलोमन् + इ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → औडुलोम् + इ [<<नस्तद्धिते>> 6.4.144 इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति] → औडुलोमि 2. 'मद्रराजन्' इत्यस्य <<राजाहस्सखिभ्यष्टच्>> 5.4.91 इत्यनेन समासान्ते टच्-प्रत्यये कृते - मद्रराजन् + टच् → मद्रराजन् + अ [<<नस्तद्धिते>> 6.4.144 इत्यनेन तद्धितप्रत्यये परे नकारान्तस्य अङ्गस्य टिसंज्ञकस्य लोपः भवति] → मद्रराज 3. 'श्वनाम् समूहः' इत्यत्र 'श्वन्' शब्दात् <<खण्डिकादिभ्यश्च>> 4.2.45 इत्यनेन अञ्-प्रत्ययं कृत्वा इयम् प्रक्रिया जायते - श्वन् + अञ् → शौवन् + अ [<<द्वारादीनां च>> 7.3.4 इत्यनेन द्वारादिगणे विद्यमानस्य श्वन्-शब्दस्य वकारात् पूर्वम् औकारागमः भवति ] → शौव् + अ [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपः] → शौव अत्र कानिचन वार्त्तिकानि ज्ञातव्यानि - 1. <!नान्तस्य टिलोपे सब्रह्मचारि-पीठसर्पि-कलापि-कुथुमि-तैतिलि-जाजलि-लाङ्गलि-शिलालि-शिखण्डि-सूकरसद्म-सुपर्वणामुपसङ्ख्यानं कर्तव्यम् !> । इत्युक्ते, निम्निलिखियानाम् शब्दानाम् विषये अपि टिलोपः कर्तव्यः इति - सब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन् जाजलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सुकरसद्मन्, सुपर्वन् । (अ) एतेषु ये शब्दाः इन्नन्ताः सन्ति, तेषाम् विषये <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<इन्यणपत्ये>> 6.4.164 इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । तस्य निषेधस्यापि निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । उदाहरणानि एतानि - - सब्रह्मचारिन् + अण् → साब्रह्मचार । - पीठसर्पिन् + अण् → पैठसर्प । - कलापिन् + अण् → कालाप । - कुथुमिन् + अण् → कौथुम । - तैतिलिन् + अण् → तैतिल । → जाजलिन् + अण् → जाजल । - लाङ्गलिन् + अण् → लाङ्गल । - शिलालिन् + अण् → शैलाल । - शिखण्डिन् + अण् → शैखण्ड । (आ) 'सुकरसद्मन्' तथा 'सुपर्वन्' एतयोः विषये <<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे सः निषिध्यते । अस्य निषेधस्य निषेधं कृत्वा टिलोपस्य पुनर्विधानम् कर्तुम् एतेषां शब्दानामत्र निर्देशः कृतः अस्ति । यथा - सुकरसद्मन् + अण् → सौकरसद्म । सुपर्वन् + अण् → सौपर्वण । 2. <!अश्मनो विकारे उपसङ्ख्यानम्!> । इत्युक्ते, <<तस्य विकारः>> 4.3.134 अस्मिन् अर्थे अश्मन्-शब्दात् अण्-प्रत्ययविधानं क्रियते चेत् अत्रापि टिलोपः कर्तव्यः । यथा - अश्मन् + अण् → आश्मन् + अ [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → आश्म् + अ [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते ; <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → आश्म अन्येषु अर्थेषु तु <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'आश्मन' इति प्रातिपदिकं सिद्ध्यति । 3. <!चर्मणः कोषे उपसङख्यानम् !> । इत्युक्ते, <<तस्य इदम्>> 4.3.120 अस्मिन् अर्थे चर्मन् शब्दात् कोशं दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा - चर्मन् + अण् → चार्मन् + अण् [<<तद्धितेष्वचामादेः>> 7.2.117 इति आदिवृद्धिः] → चार्म् + अण् [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते ; <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → चार्मः कोषः । अन्येषु अर्थेषु तु <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'चार्मण' इति प्रातिपदिकं सिद्ध्यति । 4. <!शूनः सङ्कोचे उपसङ्ख्यानम्!> । इत्युक्ते, <<तस्य विकारः>> 4.3.134 अस्मिन् अर्थे 'श्वन्' शब्दात् अवयवानाम् सङ्कोचनम् दर्शयितुमण्-प्रत्यये कृते टिलोपः कर्तव्यः । यथा - श्वन् + अण् → शौवन् + अ [<<द्वारादीनां च>> 7.3.4 इति ऐच्-आगमः] → शौव् + अ [<<नस्तद्धिते>> 6.4.144 इत्यनेन टिलोपे प्राप्ते ; <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे तस्य निषेधे प्राप्ते अनेन वार्त्तिकेन टिलोपस्य पुनर्विधानम् क्रियते । ] → शौव । अन्येषु अर्थेषु तु <<अन्>> 6.4.167 इत्यनेन अण्-प्रत्यये परे टिलोपस्य निषेधः भवति, अतः 'शौवन' इति प्रातिपदिकं सिद्ध्यति । 5. <!अव्ययानां च सायंप्रातिकाद्यर्थमुपसङ्ख्यानम्!> । इत्युक्ते, केषाञ्चन अव्ययानां विषये यद्यपि टिलोपस्य प्रसक्तिः नास्ति, तथापि प्रयोगे टिलोपं कृत्वैव रूपं प्रयुक्तं दृश्यते । एतादृशेषु शब्देषु प्रयोगमनुसृत्य यथायोग्यं टिलोपः कर्तव्यः । (एतेषाम् सर्वेषामावली 'सायंप्रातिकादयः' नाम्ना ज्ञायते, अतः अस्मिन् सूत्रे 'सायंप्रातिकाद्यर्थम्' इति उच्यते । यथा - - सायंप्रातर् + ठञ् → सायंप्रातिक । अत्र टिलोपः केनापि सूत्रेण न विधीयते, परन्तु कृतः दृश्यते । - पुनःपुनर् + ठञ् → पौनपुनिक । - बहिस् + य → बाह्य । - कुतस्कुतस् + अण् → कौतस्कुत । ज्ञातव्यम् - 1. यदि नकारान्तमङ्गम् पदसंज्ञकमस्ति तर्हि वर्तमानसूत्रस्य प्रसक्तिः न वर्तते । यथा, 'पञ्चन् + कृत्वसुँच्' इत्यत्र अङ्गस्य पदसंज्ञा भवति, अतः <<नलोपः प्रातिपदिकान्तस्य>> 8.2.7 इत्यनेन नकारलोपं कृत्वा 'पञ्चकृत्वः' इति शब्दः सिद्ध्यति । 2. अस्य सूत्रस्य प्रसक्तिः तद्धितप्रत्यये परे एव अस्ति, अन्येषु प्रत्ययेषु परेषु न । यथा, 'राजन् + टा' इत्यत्र वर्तमानसूत्रस्य प्रसक्तिः नास्ति, यतः 'टा' अयम् तद्धितप्रत्ययः नास्ति ।
<<नस्तद्धिते>> - नस्तद्धिते । 'न' इति षष्ठन्तम् । तेन भस्येत्यधिकृतं विशेष्यते, तदन्तविधिः । टेरिति सूत्रमनुवर्तते । 'अल्लोपोऽनः' इत्यस्माल्लोप इति च । तदाह-नान्तस्येत्यादि । उपराजमिति । राज्ञः समीपमित्यर्थः । समीप्ये उपेत्यस्याव्ययीभावः । 'अनश्च' इति टच्, सुब्लुक्, टिलोपः । उपराजशब्दाद्यथायथं सुप्, अम्भावः । टजन्तस्यैवाव्ययीभावसमासत्वाट्टचि परे अव्ययानां भमात्रे टिलोपाऽप्रवृत्तेः 'नस्तद्धिते' इत्यारम्भः । अध्यात्ममिति । आत्मनीत्यर्थः । विभक्त्यर्थेऽव्ययीभावः । शेषं पूर्ववत् ।
तेषामिति । अन् इति प्रकृतिभावः प्राप्त इत्यनुषङ्गः । पीठेन सर्पतीति पीठसर्पी । कलापिशब्दात्प्रोक्तार्थे कलापिनोऽण्, च्छन्दोब्राह्मणानि च तद्विषयाणि, तदधीते इत्यण्, प्रोक्ताल्लुक्, कालापाः । एवं कौर्थुमाः । किं पुनः कारणमुषचार आश्रीयते, न पुनर्मुख्यार्थवृत्तिभ्याम् तेन प्रोक्तम् इत्याद्यर्थेऽण् क्रियते इत्यत आह - शैषिकेष्विति । केचितितलिशब्दं पठन्ति - लिलानां तलं तिलम्, पृषोदरादिः, तदस्यास्तीति तितली । एवं लाङ्गला इति । उपचारादि सर्वमतिदिशति । उतरेषु त्रिष्विदमर्थेऽण् । एवमाश्मा इत्यत्रापि । चार्म इत्यत्र विकारे । चार्मण इत्यत्रेदमर्थे विकारेऽपि कोशादन्यत्र । शौव इति । तस्येदमित्यण्, अत्र परत्वाद्वृद्धिप्राप्तौ द्वारादित्वातत्प्रतिषेधे ऐजागमे च कृते टिलोपः । एशौवनोऽन्य इति । विकारावयवयोस्तु प्राणित्वादञिति प्रकृतिभावाभावात् शौव इत्येव भवति । के पुनरिति । प्रातिपदिकगणे पाठाभावात्प्रश्नः । आदिशब्दस्य प्रकारवचनत्वादाकृतिगणोऽयमित्युतरम् । सायम्प्रातिकमिति । यथाकथञ्चित्कालवृतेरपि भवति इत्युक्तत्वात्कालसमुदायेऽपि ठञ् एव भवति, येषां च विरोधः शाश्वतिकः इति निर्द्देशात् इसुसुक्तान्तात्कः इति कादेशाभावः । शाश्वतमिति । भाष्यकारवचनादण् प्रत्ययः ॥